Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 101
________________ Vol. XIX, 1994-1995. मंत्रार्थघटन में.... मत्यैर्यजमानैर्निप्पाद्यत्वात् प्रवेश उपचर्यते । यत्र यास्क:- “ चत्वारिशृङ्गेति वेदा वा एत उक्ता: " निरू० १३ / ७ इत्यादिना निरवोचत् । तदत्रानुसंधेयम् ॥ अथ सूर्यपक्षे व्याख्यायते अस्यादित्यस्य चत्वारि श्रृङ्गाणि चतस्रो दिशः । एताः श्रयणार्थत्वात् शृङ्गाणीत्युपचर्यते । त्रयो अस्य पादाः । त्रयो वेदाः पादस्थानीया भवन्ति गमनसाधनत्वात् । तथा हि- "ऋग्भिः पूर्वाह्णे दिवि देव ईयते" इत्युपक्रम्प "वेदैरशून्यस्त्रिभिरेति सूर्यः " तै० ब्रा० ३.१२.९.१ इति हि वेदत्रयेण गतिराम्नाता । द्वे शीषें। अहश्च रात्रिश्चेति द्वे शिरसी सप्त हस्तासो अस्य । सप्तरश्मयः षड्विलक्षणा ऋतव एकः साधारणः इति वा सप्त हस्ता भवन्ति । त्रिधा बद्धस्त्रिषु स्थानेषु क्षित्यादिषु अग्न्याद्यात्मकवेन संबद्धः । ग्रीष्मवर्षाहेमन्ताख्यैस्त्रिभित्रैधा बद्धो वा । वृषभो वर्षिता रवीति । शब्दं करोति वृष्ट्यादिद्वारा । स महो महान् देवो मर्त्यानाविवेश तन्नियन्तृतया । "सूर्य आत्मा जगतस्तस्थुषश्च सं०१.११५.१ इति हि श्रुतम् । एवं त्वबादिपक्षेऽपि योज्यम् । शाब्दिकास्तु शब्दब्रह्मपरतया चत्वारि शृङ्गेति चत्वारि पदजातानि नामाख्याते चोपसर्गनिपातश्च इत्यादिना व्याचक्षते। अपरे त्वपरथा । तत्सर्वमत्र द्रष्टव्यम् ।। सायणभाष्य ऋ० सं० ४/५८/३ ( पृ० ७१४ - ७१५ ). ९. चत्वारि । " चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोखीति महो देवो मर्त्यां आ विवेश । " इति । चत्वारि शृङ्गाणि पदजातानि नामाख्यातोपसर्गनिपातश्च । त्रयो अस्य पादाः त्रयः काला भूतभविष्यवर्तमानाः । द्वे शीर्षे द्वौ शब्दात्मानौ नित्यः कार्यश्च । सप्त विभक्तः । त्रिधा बद्ध; त्रिषु स्थानेषु बद्ध उरसि कण्ठे शिरसीति । वृषभो वर्षणात् । रोरवीति शब्दं करोति । कुत एतत् । रौतिः शब्दकर्मा। महो देवो मर्त्यां आविवेशेति महान् देवः शब्दः । मर्त्या मरणधर्माणो मनुष्यास्तानाविवेश महता देवेन नः साम्यं यथा स्यादित्यध्येयं व्याकरणम् ॥ व्याकरण महाभाष्यम् (नवाहिनकम्) पृ.१२. १०. अभिधानेऽर्थवादः पू. मी. २/१/३७. चत्वारि शृणा इत्यसदाभिधाने गौणः शब्दः । गौणी कल्पना प्रमाणवत्वात् । उच्चारणाददृढमप्रमाणम् । चतस्रो होत्रा : शृङ्गाणीवाऽस्य । त्रयोऽस्य पादा इति सवनाभिप्रायम् । द्वे शीर्षे इति पत्नी यजमानौ । सप्त हस्तास इति च्छन्दांस्यभिप्रेत्य । त्रिधा बद्ध इति त्रिभिर्वेदैबद्धः । वृषभः कामान्वर्षतीति रोरवीति । तद्यथा चक्रवाकस्तनी हंसदन्तावली काशवस्त्रा शैवालकेशी नद्याः स्तुतिः । यज्ञसमृद्धये साधनानां चेतनसादृश्यमुपपादयितुकाम आमन्त्रणशब्देन लक्षयति ओषधि त्रायस्वैनमिति, शृणोत ग्रावाण इति । शबरस्वामी पृ० ६४. ११. चत्वारि शृति रूपकद्वारेण यागस्तुतिः कर्मकाल उत्साहं करोति । हौत्रे त्वयं विषुवति हेतुराज्ये विनियुक्तः । तस्य चाssनेयत्वादहनाश्चाऽऽदित्य दैवतत्वसंस्तवादित्यरूपेणाग्निस्तुतिरूपवर्ण्यते । तत्र चत्वारि शृङ्गेति दिवसयामानां ग्रहणम् । यो अस्य पादा इति शीतोष्णवर्षाकालाः । द्वे शीर्षे इत्ययनाभिप्रायम् । सप्त हस्ता इत्यध्वरस्तुतिः । त्रिधा बद्ध इति सवनाभिप्रायेण । वृषभ इति वृष्टिहेतुत्वेन स्तुतिः । रोरवीति स्तनयित्नुना । सर्वलोकप्रसिद्धेर्महान्देवो मर्त्यानाविवेशेत्युसाहकारणोपकारेण सर्वपुरुषहृदयानुप्रवेशात् । एवमनेन मार्गेणास्ति तावद्धर्मसाधनस्मृतिः ॥ कुमारिल भट्ट पृ० ६४-६५. १२. शब्दार्थौ ते शरीरं, संस्कृतं मुखं, प्राकृतं बाहूः, जघनमपभ्रंश: पैशाचं पादौ, उरौ मिश्रम् । समः प्रसन्नो मधुर उदार ओजस्वी चासि । उक्तिचणं च ते बचो, रस आत्मा, रोमाणि छन्दांसि पश्नोत्तरप्रवह्निकादिकं च वालेकलिः अनुप्रासोपमादयश्य त्वामलंकुर्वन्ति । भविप्यतोऽर्थस्याभिधात्री श्रुतिरपि भवन्तमलिस्तौति । काव्यमीमांसा - तृतीयाध्याय. १. निरुक्त वी. के. राजवाडे संदर्भ ग्रंथसूचि 97 - भांडारकर ओरिजेन्टल रिसर्च इन्स्टीट्यूट, पूना १९४०.

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182