Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 146
________________ नारायण म. कंसारा SAMBODHI अथ प्रवर्तकज्ञानलक्षणमाह । कृतिसाध्यत्वगोचरबलवदनिष्टाननुबन्धीष्टसाधनगोचरज्ञानं प्रवर्तकम् । अस्य पदकृत्यानि । ज्ञानं प्रवर्तकमित्युक्ते घटार्थिनोऽत्र प्रमेयत्वमिति ज्ञानेऽतिव्याप्तिः । कथम् ? प्रवर्तकत्वाभावात् । तन्निरासाय साधनेति पदं तत्र पदार्थत्वप्रकारकजलज्ञानेऽतिव्याप्तिः । तन्निरासाय भाववाचकताप्रत्ययोपादानम् । तथा च जलत्वेन तावत्युक्ते तृषितजलार्थिन: तृडुपशामकत्वेन जलज्ञानं प्रवर्तकं, न पदार्थत्वेन जलज्ञानं प्रवर्तकम् । अतोऽतिव्याप्तिर्निरस्ता तावत्युक्ते सुखार्थिनो दुःखसाधनाहिकण्टकज्ञानेऽतिव्याप्तिः । तन्निरासाय इष्टेति पदम् । तावत्युक्ते मधुलिप्तेयं खड्गधारेति ज्ञानेऽतिव्याप्तिः । कथम् ? मध्वास्वादजन्यसुखार्थिनः प्रवर्तकं भवेत्, न चैतज्ज्ञानं प्रवर्तकं, जिह्वाच्छेदनजन्यानिष्टदुःखसाधनताज्ञानविषयत्वात् । तन्निरासायानिष्टाननुबन्धीति पदमिष्टसाधनताविशेषणतयोपात्तम् । तथा चानिष्टेन सहाननुबन्धि असम्बन्धि यदिष्टसाधनं तत्ताज्ञानमिदं ज्ञानम्, दण्डादिभिर्घटादेः साधनमित्युल्लेखेनेत्यर्थं । तावत्युक्तेऽस्मिन् गिरिशिखरे सुखास्वादादिगुणोपेतं पूर्ण सरोऽस्तीति ज्ञानेऽव्याप्तिः 1 कथम् ? जलार्थिनस्तज्ज्ञानं प्रवर्तकं भवेद्, अनिष्टश्रमाननुबन्धीष्टधनताज्ञानत्वात् । तन्निरासाय बलवदित्यनिष्टविशेषणतयोपात्तम् । श्रमाननुबन्धि बलवदनिष्टं न भवतीति नाव्याप्तिः तावत्युक्ते सुखसाधनं सागरमणिरिति ज्ञानेऽतिव्याप्तिः । कथम् ? तत्र प्रवर्तकत्वाभावात् । तन्निरासाय कृतिसाध्यगोचरेति पदं ज्ञानविशेषणतयोपात्तम् । अस्यार्थः । कृत्वा प्रयत्नेन यत् कृतिसाध्यत्वम् । तदेव गोचरो विषयो यस्य ज्ञानस्य तत् कृतिसाध्यगोचरम् । बलवत्त्वं तदिष्टाननुबन्धि च तदिष्टसाधनतागोचरज्ञानं च कृतिसाध्यत्वगोचरं च बलवदनिष्टाननुबन्धि तच्च तद्बलवदनिष्टाननुबन्धीष्टसाधनतागोचरज्ञानं चेत्यर्थं । एवमपि स्वकृत्यसाध्य परकृतिसाध्यगोचरतादृशज्ञानस्यापि प्रवर्तकत्वापत्तिः । अतः स्वपदमध्याहार्यम् । एवमपि बलवदनिष्टाननुबन्धि यदनिष्टं परेषां नात्मनः स्वात्ममरणादिः तस्य साधनं विषलक्षणादि, स्वकृतिसाध्यं च तत्तागोचरज्ञानस्यापि प्रवर्तकत्वापत्तिः । अतोऽत्रापि स्वपदमध्याहार्यम् । तथा च स्वकृतिसाध्यत्वगोचरबलवदनिष्टाननुबन्धि स्वेष्टसाधनगोचरज्ञानं प्रवर्तकमिति सम्पन्नमिति । तथा च तच्च जानन्तीति तत्त्वज्ञाः । तेषां निःश्रेयसप्राप्तिरिति । यद्वा तत्त्वज्ञानान्मिथ्याज्ञानापायः, तदपायाद् दोषापायः, तदपायात् प्रवृत्त्यपायः, तदपायाज्जन्मापायाद् एकविशंतिप्रभेददुः खोच्छेदलक्षणो मोक्षः स्यादित्यर्थं ॥ ननु नितरां श्रेयो निःश्रेयसमिति व्युत्पत्त्या निःश्रेयसं सुखं तस्याधिगमो ज्ञानं प्राप्तिर्वा तत्त्वज्ञानादनुपपन्नेति। अत आह । अस्यार्थ इति । तत्त्वं ज्ञायतेऽनेनेति व्युत्पत्त्या तत्त्वज्ञानं शास्त्रम् । इष्टसाधनतादिलाभात् प्रवृत्तिरुपपादिता, अन्यथा तत्त्वज्ञानपदस्य यथाश्रुतार्थपरत्वे शास्त्रे इष्टसाधनताऽप्रतिपादनात् तत्र प्रवेशायैतत्प्रकरणानारम्भः स्यादिति न चोत्तरग्रन्थविरोधः, तस्यान्यथाऽवतार्यत्वादिति । त्रिविधेति शास्त्रस्याचेतनत्वे तद्विषयिणी पुरुषस्य प्रवृत्तिस्त्रिविधेत्यर्थं । यद्वा प्रवृत्तिपदमुत्पत्तिपरं शास्त्रान्तरस्य विभागेन सहिता चतुर्धा प्रवृत्तिरिति ॥ ननु उद्देशो विभागो लक्षणं परीक्षा चेति प्रवृत्तिचातुर्विध्ये वक्तव्ये त्रैविध्यकथनमयुक्तमिति चेन्मैवम्, विभागस्य विशेषनाममात्रसङ्कीर्तनेनोद्देशे एवान्तर्भावात् । अत्रस्त्रैविध्यकथनमेव युक्तमिति । उद्देशस्त्विति । असाधारणनाममात्रेण वस्तुसङ्कीर्तनमुद्देशः । उद्देशशास्त्रमित्यर्थं । कीर्तनमुद्देश इत्युक्ते घनाघनध्वन्यादावतिप्रसक्तिः । तदर्थं समिति पदम् । तदा ताल्वोष्ठपुटसंयोगजन्यं कीर्तनं शब्दकरणं सङ्कीर्तनम् । तावत्युक्ते काकीयरवेऽतिप्रसक्तिः । तदर्थं नामेति । तत्र नामसङ्कीर्तनं नास्ति तावत्युक्ते

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182