Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 153
________________ 149 Vol. XIX, 1994-1995 तर्कभाषावार्तिकम् । द्रव्यमित्युक्ते तप्तवारिस्थतेजस्यतिव्याप्तिः । तन्निरासायोद्भूतेति । तावत्युक्ते उद्भूतरूपवति पार्थिवपरमाण्वादावतिव्याप्तिः । तद्भङ्गार्थ महत्त्वे सतीति । अथ महत्त्वे सति उद्भूतगुणवतीत्युक्ते वायावतिप्रसक्तिः। तद्भङ्गार्थं रूपवदिति । महत्परिमाणाधिकरणं द्रव्यं चाक्षुषमित्युक्ते गगनादावतिप्रसङ्गः । तद्भङ्गार्थं विशेष्यपदं, लक्ष्ये च द्रव्यपदं घटादिगतचाक्षुषरूपादिपदनिराकरणार्थम् ॥ समवायिकरणं द्रव्यमिति अस्य पदकत्यानि । कारणं द्रव्यमित्युक्ते पटासमवायिकारणे संयोगेऽतिप्रसक्तिः। तन्निरासाय समवायीति । समवायीत्युच्यमाने गुणत्वसमवायुगुणेऽतिप्रसक्तिः । तन्निरासाय कारणमिति । समवायि च तत्कारणमिति तत्परुषे च तत्रैवातिप्रसक्तिः । तन्निरासा स्वसमवेतकार्यजनक द्रव्यमिति लक्षणार्थ कर्तव्यः । तत्रापि जनकत्वं द्रव्यत्वमित्युक्ते पटगतरूपजनकत्वेनासमवायिकारणे तन्तुरूपेऽतिव्याप्तिः । तन्निरासाय स्वपदम् । स्वस्मिन् जनकं स्वजनकं द्रव्यमित्युक्ते विषयत्वेन स्वविषयकज्ञानघटरूपेऽतिव्याप्तिः । तन्निरासाय समवेतेति । कार्यपदं च स्वरूपज्ञापनतत्परमिति व्यर्थम् । [योग्यतया गुणाश्रयत्वाच्च । योग्यता च गुणानामत्यन्ताभावाभावः ।] योग्यतयेति । योग्यता द्विधा, स्वरूपयोग्यता, फलो पहितयोग्यता च । यथा आरण्यदण्डे स्वरूपासाधारणा, कुलालगृहदण्डे फलोपहिता फलयुक्तेति । गुणाश्रयत्वाच्चेति । गुणाश्रयो द्रव्यमिति लक्षणम् । अस्य पदकृत्यानि । आश्रयो द्रव्यमित्युक्ते रूपत्वजात्याश्रयेऽतिव्याप्तिः । तन्निरासाय गुणेति । तथापि प्रथमे क्षणेऽद्रव्यत्वाप्तिः । तन्निरासार्थं गणात्यन्ताभावानाश्रयत्वमिति लक्षणं सवचनम । न गुणात्यन्ताभावानाश्रयत्वमित्युक्ते सामयिकात्यन्ता- भावेऽतिप्रसक्तिः । तन्निरासाय सामयिकात्यन्ताभावभिन्नत्वे सति गुणात्यन्ताभावानाश्रयत्वं द्रव्यत्वमिति लक्षणं कर्तव्यमिति । [यत्समवायिकारणप्रत्यासन्नमवधुतसामर्थ्यं तदसमवायिकारणम् ।] यत्समवायीति । अवधृतसामर्थ्यमित्युक्ते समवायिकारणेऽतिप्रसक्तिः । तद्वारणाय समवायिकारणप्रत्यासन्नमिति तावत्युक्ते तन्तुत्वादावतिप्रसक्तिः । तद्वारणायावधृतसामर्थ्यमिति । समवायिकारणे समवायसम्बन्धेन वर्तित्वं समवायिकारणप्रत्यासन्नत्वं, न तु समीपवर्तित्वम् । प्रत्यासत्तिर्वेधा, कार्यैकार्थप्रत्यासत्तिः कारणैकार्थप्रत्यासत्तिश्च । कार्येण सहैकस्मिन्नर्थे प्रत्यासत्तिः कार्यैकार्थप्रत्यासत्तिः यथा स्वशब्देन तन्तुरूपं, तस्य कार्य पटरूपं, तस्य कारणं पटः, तेन पटेन सहैकस्मिनर्थे तन्तोः प्रत्यासत्तिस्तन्तुरूपस्येति कारणैकार्थप्रत्यासत्तिरिति । [निमितकारणं तदुच्यते, यन्न समवायिकारणं, नाप्यसमवायिकारणम्, अथ च कारणं, तन्निमित्तकारणम्। यथा वेमादिकं पटस्य निमित्तकारणम् ।] यन्नेति । यद्यपि दण्डादिः स्वगुणादिसमवायिकारणं, तथापि यत्प्रति यन्न समवायिकरणं नाप्यसमवायिकारणम्, अथ च कारणं तत् तत्प्रति निमित्तमित्यर्थं । अकारणलक्षणे लक्ष्यतावच्छेदकं पारिमाण्डल्यनभः परिमाणादिभिन्नत्वम् । कोऽर्थ ? पारिमाण्डल्यनभः परिमाणादि विहायान्यत् सर्व कारणं समवायिकारणलक्षणे द्रव्यत्वादिलक्ष्यतावच्छेदकम् । समवायिकारणं लक्ष्यम् द्रव्यत्वादि असमवायिकारणलक्षणे द्रव्यत्वरहितत्वे सति किञ्चित्कार्य प्रति निमित्तत्वरहितत्वे च सति तत्प्रति कारणत्वम्। कोऽर्थः ? द्रव्यत्वं किञ्चित्कार्यनिमित्तत्वाभावे सति घटरूपकार्य प्रति यत्कारणं मृत्पिण्डरूपं तदसमवायिकारणं लक्ष्यम् ।

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182