________________
149
Vol. XIX, 1994-1995
तर्कभाषावार्तिकम् । द्रव्यमित्युक्ते तप्तवारिस्थतेजस्यतिव्याप्तिः । तन्निरासायोद्भूतेति । तावत्युक्ते उद्भूतरूपवति पार्थिवपरमाण्वादावतिव्याप्तिः । तद्भङ्गार्थ महत्त्वे सतीति । अथ महत्त्वे सति उद्भूतगुणवतीत्युक्ते वायावतिप्रसक्तिः। तद्भङ्गार्थं रूपवदिति । महत्परिमाणाधिकरणं द्रव्यं चाक्षुषमित्युक्ते गगनादावतिप्रसङ्गः । तद्भङ्गार्थं विशेष्यपदं, लक्ष्ये च द्रव्यपदं घटादिगतचाक्षुषरूपादिपदनिराकरणार्थम् ॥
समवायिकरणं द्रव्यमिति अस्य पदकत्यानि । कारणं द्रव्यमित्युक्ते पटासमवायिकारणे संयोगेऽतिप्रसक्तिः। तन्निरासाय समवायीति । समवायीत्युच्यमाने गुणत्वसमवायुगुणेऽतिप्रसक्तिः । तन्निरासाय कारणमिति । समवायि च तत्कारणमिति तत्परुषे च तत्रैवातिप्रसक्तिः । तन्निरासा स्वसमवेतकार्यजनक द्रव्यमिति लक्षणार्थ कर्तव्यः । तत्रापि जनकत्वं द्रव्यत्वमित्युक्ते पटगतरूपजनकत्वेनासमवायिकारणे तन्तुरूपेऽतिव्याप्तिः । तन्निरासाय स्वपदम् । स्वस्मिन् जनकं स्वजनकं द्रव्यमित्युक्ते विषयत्वेन स्वविषयकज्ञानघटरूपेऽतिव्याप्तिः । तन्निरासाय समवेतेति । कार्यपदं च स्वरूपज्ञापनतत्परमिति व्यर्थम् ।
[योग्यतया गुणाश्रयत्वाच्च । योग्यता च गुणानामत्यन्ताभावाभावः ।] योग्यतयेति । योग्यता द्विधा, स्वरूपयोग्यता, फलो पहितयोग्यता च । यथा आरण्यदण्डे स्वरूपासाधारणा, कुलालगृहदण्डे फलोपहिता फलयुक्तेति । गुणाश्रयत्वाच्चेति । गुणाश्रयो द्रव्यमिति लक्षणम् । अस्य पदकृत्यानि । आश्रयो द्रव्यमित्युक्ते रूपत्वजात्याश्रयेऽतिव्याप्तिः । तन्निरासाय गुणेति । तथापि प्रथमे क्षणेऽद्रव्यत्वाप्तिः । तन्निरासार्थं गणात्यन्ताभावानाश्रयत्वमिति लक्षणं सवचनम । न गुणात्यन्ताभावानाश्रयत्वमित्युक्ते सामयिकात्यन्ता- भावेऽतिप्रसक्तिः । तन्निरासाय सामयिकात्यन्ताभावभिन्नत्वे सति गुणात्यन्ताभावानाश्रयत्वं द्रव्यत्वमिति लक्षणं कर्तव्यमिति ।
[यत्समवायिकारणप्रत्यासन्नमवधुतसामर्थ्यं तदसमवायिकारणम् ।] यत्समवायीति । अवधृतसामर्थ्यमित्युक्ते समवायिकारणेऽतिप्रसक्तिः । तद्वारणाय समवायिकारणप्रत्यासन्नमिति तावत्युक्ते तन्तुत्वादावतिप्रसक्तिः । तद्वारणायावधृतसामर्थ्यमिति । समवायिकारणे समवायसम्बन्धेन वर्तित्वं समवायिकारणप्रत्यासन्नत्वं, न तु समीपवर्तित्वम् । प्रत्यासत्तिर्वेधा, कार्यैकार्थप्रत्यासत्तिः कारणैकार्थप्रत्यासत्तिश्च । कार्येण सहैकस्मिन्नर्थे प्रत्यासत्तिः कार्यैकार्थप्रत्यासत्तिः यथा स्वशब्देन तन्तुरूपं, तस्य कार्य पटरूपं, तस्य कारणं पटः, तेन पटेन सहैकस्मिनर्थे तन्तोः प्रत्यासत्तिस्तन्तुरूपस्येति कारणैकार्थप्रत्यासत्तिरिति ।
[निमितकारणं तदुच्यते, यन्न समवायिकारणं, नाप्यसमवायिकारणम्, अथ च कारणं, तन्निमित्तकारणम्। यथा वेमादिकं पटस्य निमित्तकारणम् ।] यन्नेति । यद्यपि दण्डादिः स्वगुणादिसमवायिकारणं, तथापि यत्प्रति यन्न समवायिकरणं नाप्यसमवायिकारणम्, अथ च कारणं तत् तत्प्रति निमित्तमित्यर्थं । अकारणलक्षणे लक्ष्यतावच्छेदकं पारिमाण्डल्यनभः परिमाणादिभिन्नत्वम् । कोऽर्थ ? पारिमाण्डल्यनभः परिमाणादि विहायान्यत् सर्व कारणं समवायिकारणलक्षणे द्रव्यत्वादिलक्ष्यतावच्छेदकम् । समवायिकारणं लक्ष्यम् द्रव्यत्वादि असमवायिकारणलक्षणे द्रव्यत्वरहितत्वे सति किञ्चित्कार्य प्रति निमित्तत्वरहितत्वे च सति तत्प्रति कारणत्वम्। कोऽर्थः ? द्रव्यत्वं किञ्चित्कार्यनिमित्तत्वाभावे सति घटरूपकार्य प्रति यत्कारणं मृत्पिण्डरूपं तदसमवायिकारणं लक्ष्यम् ।