________________
नारायण म. कंसारा 150
SAMBODHI निमित्तकारणलक्षणे किञ्चित्कार्य प्रति समवायिकारणत्वासमवायिकारणत्वराहित्ये सति परिमाण्डल्यादिभिन्नत्वम् । कोऽर्थः ? निमित्तकारणं लक्ष्यं परिमाण्डल्याद्यन्यत्वमिति । एवमन्यदपि सुबुद्धिभिरूह्यम्॥
समवायिकारणं द्रव्यमेव, असमवायिकारणं गुणक्रियें, निमित्तकारणं द्रव्यगुणकर्मादि । भावकार्य स्य त्रीणि कारणानि । अभावस्य निमित्तकारणमेक मेवेति । भावत्वं नाम तत्त्वार्थानुल्लिखितधीविषयत्वमित्यर्थं ।
[सत्यपि प्रमातरि प्रमेये च, प्रमानुत्पत्तेः, इन्द्रियसंयोगादौ सति अविलम्बेन प्रमोत्पत्तेः, अत इन्द्रियसंयोगादिरेव कारणम् ।] सत्यपीति । इन्द्रियसंयोगस्यादिरिन्द्रयसंयोगादिरिति व्युत्पत्त्या इन्द्रियमेवोक्तेरितिचतुरङ्गस्य व्यापारविशिष्टस्यातिशयं बोधयितुम् इन्द्रियसंयोगादिरित्युक्तं, न त्विन्द्रियमिति ।।
न्यायशास्त्रानुसारेण प्रमाणस्य लक्षणमुक्त्वा मीमांसकमताद्यनुसारेण प्रमाणलक्षणं दूपयितुमनुवदति। [ यत्तु 'अनधिगतार्थगन्त प्रमाणम्' इतिलक्षणं, तन्न, एकस्मिन्नेव घटे घटोऽयं घटोऽयमिति धारावाहिकज्ञानानां गृहीतग्राहिणामप्रामाण्यप्रसङ्गात् ।] यत्विति । अनधिगतार्थगन्तृ अज्ञानविषयक यथार्थ ज्ञान करणप्रमाणमित्यर्थः । ननु घटस्यैक त्वेऽपि विशेषणीभूतानां कालकलादिरूपाणामन्यान्यत्वेन तद्विशेषणविशिष्टानि ज्ञानान्यधिगतार्थानि भविष्यन्तीति शङ्कामपाकरोति । [न चान्यान्यक्षणविशिष्ट-विषयीकरणादनधिगतार्थगन्तृता, प्रत्यक्षेण सूक्ष्मकालभेदानाकलनात् ।] न चेति । तत्र हेतुः । सूक्ष्मेति। सूक्ष्मकालभेदग्रहाभ्युपगमे दोषमाह । [कालभेदग्रहे हि क्रियादिसंयोगान्तानां चतुर्णा यौगपद्याभिमानो न स्यात् । क्रिया क्रियातो विभागो, विभागात पूर्वसंयोगनाशः, तत उत्तरसंयोगोत्पत्तिरिति ।] न्यायेन क्रियादिसंयोगान्तानां चतुर्णा, 'पत्रशतं मयाऽतिसूच्या युगपद् भिन्नम्' इति यौगपद्याभिमानः सर्वलोके प्रसिद्धो न स्यादिति ।।
[ननु प्रमायाः कारणानि बहुनि सन्ति प्रमातृप्रमेयादीनि । तान्यपि किं करणानि उत नेति ?] प्रमेयादीनीति देवदत्तघटादीनि । आदिशब्दात् प्रदेशोद्योतादीनीति | [ उच्यते । सत्यपि प्रमातरि प्रमेये च, प्रमानुपत्तेरिन्द्रियसंयोगादौ सति अविलम्बेन प्रमोत्पत्तेः, अत इन्द्रियसंयोगादिरेव करणम् ।] संयोगादिरेवेति । इन्द्रियं च इन्द्रियसंयोगश्च तावादौ यस्य स तथोक्तः । आदिशब्दान्निविकल्पकज्ञानादिग्रहः। पुल्लिंगनिर्वाहायार्थशब्दोऽध्याहर्तव्य इति ।।
[। प्रत्यक्षम् ।] अथ प्रत्यक्षप्रमाणं लक्षयति । साक्षात्कारिप्रमाकरणं प्रत्यक्षम् इति । प्रमाकरणं प्रत्यक्षप्रमाणमित्युक्ते ऽनुमितिकरणेऽनुमानेऽतिप्रसक्तिः । तन्निरासाय साक्षात्कारीति । शेषं प्राग्वत् । [साक्षात्कारिणी च प्रमा सैवोच्यते या इन्द्रियजा ।] साक्षात्कारिणीति । ननु इन्द्रियजन्यत्वमनुक्तमित्युपमित्यादावप्यस्ति, ज्ञानमात्रस्य मनोजन्यत्वादिति चेन्न, अनुभवानुवृत्तो ज्ञानकरणजन्यज्ञानव्यावृत्तो धर्मविशेषः साक्षात्त्वमिति । ननु साक्षात्त्वं प्रत्यक्षजन्यत्वमुपाधिरात्माश्रयापत्तेः, प्रत्यक्षज्ञाने जन्यसाक्षात्त्वे प्रत्यक्षप्रमाणज्ञानमित्यन्योन्याश्रयपाताच्च । यदिन्द्रियजन्यज्ञानत्वं तदिन्द्रियलक्षणं साक्षात्त्वं जातिघटितम् । तत्र लक्षणे साक्षात्कारिपदं न देयमेवेति । अत एव चेन्द्रियजेति मूलं