________________
151
Vol. XIX, 1994-1995
तर्कभाषावात्तिकम् सङ्गच्छते । अनुभवत्वजातिघटितं वा लक्षणमिति न व्यर्थतेति ।।
[कदा पुनरिन्द्रियं करणम् ? यदा निर्विकल्पकस्या प्रमा फलम् । तथा हि, आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, इन्द्रियाणां वस्तुप्राप्यप्रकाशकारित्वनियमात् ।] तथाहीति । ज्ञानोत्पतौ चक्षुसंयोग एव । आत्मेति । सुपुप्त्यवस्थायां मनसः सर्वाणीन्दिरयाणि परिहृत्य स्वप्ननाडीवर्तमानत्वेन प्रलीनमनस्कस्यात्मनो ज्ञातृत्वाभोगवदात्मनः संयोगेन भवितव्यम् । सत्यप्यात्मनःसंयोगे स्वप्नावस्थायामुपरतेन्द्रियग्रामस्य बाह्यविषयज्ञानाभावाद् इन्द्रियाणां च मनसश्च सम्बन्धेन भवितव्यम् । सत्यप्ये तस्मिन् सर्वस्मिन् बाह्यार्थस्य चेन्द्रि यस्य सम्बन्धाभावे प्रतीत्यनुदयाच्चतुण्ाँ सम्बन्धेन भवितव्यमेव ।
ननु चक्षुरुन्मीलनसमन्तरमने कयोजनस्थमार्तण्डमण्डलमुपलभ्यते तथा राजमन्दिरे भेां ताड्यमानायां स्वमन्दिररस्थपुंसः शब्द प्रतिपत्तिर्जायते, तथा पण्यवीथ्यां पर्यटतो वाटिकास्थितपुष्पगन्धोपलब्धिः, तत्कथमिन्द्रियार्थसम्बन्ध इत्याशझ्याह । विप्रतिपन्नानीन्द्रियाणि प्राप्त प्रकाशकानि, बाह्ये न्द्रि यत्वात्, त्वगिन्द्रि यवत् । दृष्टो हि लाघवातिशयेन वेगातिशयोदयदुदयाचलचूलावम्बिन्येवार्के भुवने आलोकः प्रसरीसरीति । तद्वन्नयनोमीलनानन्तरं तद्रश्मयोऽर्कमण्डलं प्राप्यैव प्रकाशयति । तथा वीचीतरङ्गन्यायेन कर्णपथं प्राप्तस्यैव शब्दस्योपलब्धिः, गन्धाधारत्वमास्थितानां पुष्पावयवानां घ्राणस्य च सम्बन्धे सत्येव गन्धो पलम्भ स्यादिति न किञ्चिदनुपपत्तिरिति योजना । सम्बन्धाविषयकज्ञानत्वं निर्विकल्पकमित्यर्थः ।
निर्विकल्पकत्वं न जातिः । धर्माशे निर्विकल्पकत्वरूपे धर्माशे सविकल्पकत्वरूपे नरसिंहाकारज्ञानेऽव्याप्यवृत्तित्वप्रसङ्गात् । यदा च निर्विकल्पकसविकल्पात्मकं ज्ञानमिति न पक्षः तदा निर्विकल्पकत्वं साक्षाद्व्याप्यजातिः । सापि लक्षणं योजनात्मकमिति सम्बन्धविषयकज्ञानत्वमात्रं लक्षणं, नरसिंहाकारज्ञानाभावपक्षे जात्यादियोजनाभावात्, नरसिंहत्वं च वक्तुं न शक्यते इति । सविकल्पकज्ञाने प्रत्यक्षत्वं ज्ञानत्वं च वर्तते । प्रत्यक्षत्वं विहाय ज्ञानत्वम् अनुमितिज्ञाने, ज्ञानत्वं विहाय प्रत्यक्षत्वं लोचने तदुभयमपि सर्वकल्पकज्ञाने इति जातिसङ्करः । परं गुणगतजातिसाङ्कर्यं न दोषायेति मते सविकल्पकत्वं जातिरपीति द्रव्यसाङ्कर्य दोषायेति घटे भूतत्वं मूर्तत्वं च, भूतत्वं विहाय मूर्तत्वं मनसि स्थितं, मूर्तत्वं विहाय भूतत्वं नभसि स्थितं, तदुभयमपि घटे पृथिव्यादिचतुष्टये च, इति भूतत्वमूर्तत्वयोर्न जातित्वमिति । जातिसङ्करलक्षणमाह।
अन्योन्यपरिहारेण भिन्न व्यक्ति निवे शिनो: ।
उभयै क समावेशो जातिसङ्कर उच्यते ।।१।। जातिसङ्करस्य जातिबाधकान्तर्गतत्वेन जातिबाधकमाह ।
व्यक्ते रभेदस्तुल्यत्वं संकरोऽथानवस्थितिः ।
रूपहानिरसम्बन्धो जातिबाधक संग्रहः ।।२।। इति किरणावलीलीलावतीकारोक्तम् । व्यक्तेरभेद आकाशादौ, तुल्यत्वं हस्तत्वकरत्वादौ संकरो भूतत्वमूर्तत्वादौ । उदाहरणं प्रागुक्तं शेयम् । परस्परात्यन्ता भावसमानाधिकरणयोर्धर्म यो: