________________
नारायण म. कंसारा
SAMBODHI
समानाधिकरण्यलक्षणं सांकर्यं भूतत्वमूर्तत्वयोर्भवति । एतदुभयमुपाधिरूपं सामान्यमनवस्थिति: । जातौ जात्यङ्गीकारे रूपहानिर्विशेषादौ असम्बन्धः समवायादौ समवाये समवायानङ्गीकारात् । एवंविधजातिबाधकाभावे यत्सामान्यं सा जातिः । बाधके त्वौपाधिकं सामान्यमित्यर्थः ॥
152
[कदा पुनर्ज्ञानं कारणम् ? यदा, उक्तसविकल्पकानन्तरं हानोपादानोपेक्षाबुद्धयो जायन्ते तदा निर्विकल्पकं ज्ञानं करणम् । सविकल्पकं ज्ञानमवान्तरव्यापारः, हानादिबुद्धयः फलम् ।] हानादीति । जिहासाजनक बुद्धित्वं हानत्वम् । उपादित्साजनक बुद्धित्वं चोपादानत्वम् । एतदुभयभिन्नबुद्धित्वं चोपेक्षाबुद्धित्वम् । ननु त्रितयं जातिः, सर्प सुवर्ण लोष्टक समूहालम्बने अव्याप्यवृत्तित्वापत्तेरिति भावः ॥
एवकार:
[ इन्द्रियार्थयोस्तु यः सन्निकर्षः साक्षात्कारिप्रमाहेतुः स षड्विध एव ।] षड्विध एवेत्यत्र लौकिक प्रत्यासत्त्यन्तरव्यवच्छेदक : I ततः प्रत्यासत्त्यन्तरमात्रव्यवच्छेदको ज्ञानादिप्रत्यासत्तित्रयसत्त्वादिभावः, ज्ञानसामान्ययोगजधर्मलक्षणाभिः प्रत्यासत्तिभिर्नवधासंनिकर्षो ज्ञेय इति । ज्ञानादिप्रत्यासत्त्युदाहरणानि यथा - प्रमाणेन पूर्वं चान्दने सौरभे गृहीते उत्तरकाले चक्षुषा चान्दनसौरभग्रहे ज्ञानलक्षणा प्रत्यासत्तिः । पृथिवीत्ववती पृथिवीति ज्ञाने पृथिवीत्वावच्छिन्नपरमाण्वादिज्ञानं सामान्यतो जातमिति सामान्यप्रत्यासत्तिः २ । योगिनां सकलगोचरत्वे प्रत्यक्षे योगजलक्षणा प्रत्यासत्तिः ३ ।
विशेषणविशेष्यभावसम्बन्धे विशेषणता द्विविधा । एका साक्षाद्विशेषणता, अन्या परम्पराविशेषणता च । साक्षाद्विशेषणतया शब्दध्वंसादिग्रहणं, परम्पराविशेषणतासंयुक्तविशेषणतया घटाभावादिग्रहः । तद्भेदा बहवः सन्ति । तद्यथा - संयुक्तविशेषणता १, संयुक्तसमवेतविशेषणता २, संयुक्तसमवेतसमवेतविशेषणता ३, विशेषणता ४, समवेतविशेषणता ५, समवेतसमवेतविशेषणता ६, संयुक्तविशेषणविशेषणता ७, संयुक्तसमवेतविशेषणविशेषणता ८, संयुक्तसमवेतसमवेतविशेषणविशेषणता ९, विशेषणविशेषणता १०, समवेतविशेषणविशेषणता ११, समवेतसमवेतविशेषणता १२, चेत्येवमादिका अनन्ताः । उदाहरणानि यथा - घटाभावग्रहे प्रथमा विशेषणता । घटस्वरूपे रसत्वाभावग्रहे द्वितीया । रूपत्वे रसत्वाभावग्रहे तृतीया । शब्दाभावग्रहे चतुर्थी । गकारे यत्वाभावग्रहे पंचमी । गत्वे यत्वाभावग्रहे षष्ठी । भूतलवृत्तिघटाभावे पटाभावग्रहे सप्तमी । भूतलरूपवृत्तिघटाभावे पटाभावग्रहेऽष्टमी । भूतलरूपत्ववृत्तघटाभावे पटाभावग्रहे नवमी । शब्दाभावे पटाभावग्रहे दशमी । शब्दनिष्ठघटाभावे पटाभावग्रहे एकादशी । शब्दत्वनिष्ठघटाभावे पटत्वाभावग्रहादिषु द्वादशी । यथायथं कारणत्वेन विशेषणता द्रष्टव्येति संक्षेपः ॥
अन्ये तु भूतलादिनिष्ठतया भावग्रहे परम्पराविशेषणता, इन्द्रियनिष्ठतया भावग्रहे साक्षाद्विशेषणतेत्याहुः । वस्तुतस्तु ग्राह्यनिष्ठसंनिकर्षस्य कारणत्वे दोपाभावः । तत्कारणं न चतुष्टयसंनिकर्षः । दोषस्तु दूरासन्नत्वादिः । दूरपरिमाणादिग्रहे इत्यत्रादिशब्दो ऽतिरिच्यते । इह भूतले घट इत्यत्र वस्तुतस्तु विशेषणतास्वरूपसम्बन्ध: । तदेव चक्षुरादिसम्बन्धः यद् भूतलादि । तेन सहाभावस्य यो विशेषणविशेष्यभावः सम्बन्धः स एवेन्द्रियसंनिकर्षः, सम्बद्धविशेषणताख्यः स्वरूपसम्बन्धविशेष इति यावत् ॥