________________
Vol. XIX, 1994-1995 तर्कभाषावार्तिकम्
153 ननु षड्विधसम्बन्धेनाभावः कथं संगृह्यते ? इत्यत आह- 'इह भूतले घटाभावः' इत्यत्र संयोगसम्बन्धसम्बद्धे आधारे अभावग्रहः १ । तथा 'इह घटरूपे रसत्वाभावः' इत्यत्र संयुक्तसमवायसम्बन्धसम्बद्धे आधारे अभावग्रहः २ । तथा 'इह रूपत्वे रूपत्वाभावः' इत्यत्र संयुक्तसमवेतसमवायसम्बन्धसम्बद्ध आधारे अभावग्रहः ३ । तथा 'इह शब्दे रूपत्वाभावः इत्यत्र समवायसम्बन्धसम्बद्ध आधारे रूपत्वाभावग्रहः ४ । तथा 'इह शब्दत्वे रूपत्वाभावः' इत्यत्र समवेतसमवायसम्बन्धसम्बद्धे आधारे रूपत्वाभावग्रहः ५ इत्येवं पञ्चविधसम्बन्धसम्बद्धे आधारे विशेषणविशेष्यभावेन कृत्वा अभावः प्रत्यक्षेण गृह्यते ।
एवं समवायोऽपि विशेषणविशेष्य भावसम्बन्धे नैव गृह्यते । परमयं विशेषः । प्रथमद्वितीयतुरीयसम्बन्धसम्बद्धे एवाधारे गृह्यते, न तु तृतीयपञ्चमसम्बन्धसम्बद्धे, सामान्ये कस्यापि समवायस्य सम्भवाद् इति । उदाहरणानि यथा - 'इह तन्तुषु पटसमवायः' इत्यत्र संयोगसम्बन्धसम्बद्धे आधारे समवायग्रहः १ । तथा 'इह रूपे रूपत्वसमवायः' इत्यत्र संयुक्तसमवायसम्बन्धसम्बद्धे आधारे समवायग्रहः २ तथा 'इह रूपत्वे संयुक्तसमवेतसमवायसम्बन्धसम्बद्धे अमुकस्य समवाय' इति वक्तुं न पार्यते, सामान्ये कस्यापि समवायासम्भवात् ३ । तथा इह शब्दे शब्दत्वसमवाय इत्यत्र समवायसम्बन्धसम्बद्धे आधारे समवायग्रहः ४। पञ्चकसम्बन्धसम्बद्धं तु शब्दत्वं तत्र तु न कस्यापि समवाय इति त्रिसम्बन्धसम्बद्ध एवाधारे समवायग्रहः ५। उक्तं च -
घटतत्तानीलनीलत्वशब्दशब्दत्वजातयः ।
अभावसमवायो च ग्राह्याः सम्बन्धषट्कतः ॥१॥ ननु चक्षुरादिः स्वगतं गुणं न गृह्णाति, तथा श्रोत्रमपि स्वगतविषयं न गृह्णीयादिति चेन्न, श्रोत्रं स्वविषयं गृहणात्येव । तत्र समवायात् घ्राणं स्वनिष्ठं गन्धं, चक्षु स्वरूपं च गृह्णाति । तथा स्वभावत्वात् तेषां स्वभावे तार्किका भग्ना इति न्यायः ५ । सफलो जात इत्यर्थः ।
साक्षात्कारिणी प्रमा सविकल्पकनिर्विकल्पकभेदाद द्विधोक्ता तदरमणीयमिति बौद्धः प्रत्यवतिष्ठते । [नन निर्विकल्पकं परमार्थतः स्वलक्षणविषयं भवत प्रत्यक्षम् । सविकल्पकं त शब्दलिङ्गवदनुगताकारावगाहित्वात् सामान्यविषयं कथं प्रत्यक्षजम् अक्षजस्यैव प्रत्यक्षत्वात् ।। नन्वित्यादि। निर्विकल्पकं प्रत्यक्षं भवत्विति, अत्र प्रत्यक्षशब्देन साक्षात्कारिणी प्रमितिर्विवक्ष्यते । तत्र प्रतिगतमक्ष प्रत्यक्षमिति व्युत्पत्तेरुपपतेश्च, साक्षात्कारिप्रमाया जन्यत्वेनाक्षं प्रति गतत्वात् तत्सम्बन्धादिरत्र प्रत्यक्षशब्दो योगमनपेक्ष्य गोपङ्कजादिशब्दवद् रूढ्या वर्तत इति। निर्विकल्पकस्य प्रत्यक्षत्वे युक्तिमाह - परमार्थेति । स्वं स्वीयं रूपं शुद्ध वस्तुव्यावर्तकं यस्य तत् तथोक्तम् । शब्दलिङ्गयोर्यथा न प्रत्यक्षप्रमाणत्वं तद्वद् 'अयं घटः' इत्यादिज्ञानकारणमपि न प्रत्यक्षप्रमाणम् । शब्दलिङ्गजज्ञानं न प्रत्यक्षप्रमाणं तद्वद् 'घटोऽयम्' इत्यादिज्ञानमपि सविकल्पकमित्यर्थं । [अर्थस्य च परमार्थतः सत एव तज्जनकत्वात् । स्वलक्षणं तु परमार्थतः, सत्, न तु सामान्यं, तस्य प्रमाणनिरस्तविधिभावस्य अन्यव्यावृत्त्यात्मनस्तुच्छ्त्वात् ।] अर्थेति । व्यक्तिजन्यस्यैवेत्यर्थः । प्रमाणेति । सामान्य व्यक्तिषु वर्तमानं कार्ये कृत्स्ने शंसति, एकदेशे वा । नाद्यः, व्यक्त्यन्तरे तस्य प्रतिपत्त्यनुपपत्तेः । नापीतर: निरंशस्यैकदेशासंभवात् । अनेन वृत्तिकल्पनेन प्रमाणवद् दृढेन निरस्तः,