________________
148 नारायण म. कंसारा
SAMBODHI स्वपदमन्यसमवेतघटादिजनक कपालसंयोगादावतिव्याप्तिवारणाय । कथम् ? कपालादे यावत् स्वसमवेतजनकत्वं नास्ति, नापि स्वसमवेतं, यत्किञ्चित् पृथिवीत्वादिजनकत्वं तस्य नित्यत्वात् । किन्तु स्वसमवेतकार्यजनकत्वमेवेति दर्शयितुं कार्यपदं, न तु लक्षणप्रविष्टमिति दिक् ॥
संयोगस्य सुगमस्वस्वरूपत्वात् तमुपेक्ष्य समवायं लक्षयति - [तत्रायुतसिद्धयोः सम्बन्धः समवायः । अन्ययोस्तु संयोग एव ।] तत्रायुतेति । अयुतसिद्धस्य समवाय इत्युक्ते संयोगेऽतिव्याप्तिः । तन्निरासाय द्विवचनान्तम्। पक्षी स्वावयवे नभो विहाय तिष्ठति, नभश्च तदनुत्पत्तिदशायां तत्परिहारेण तिष्ठतीति न पक्षिगगनसंयोगेऽतिव्याप्तिः । सुखं धर्म विहाय गम्यगमनादिस्थले, धर्मश्च सुखं विहाय सुखानुत्पत्तिदशायां तिष्ठतीति युतसिद्धत्वानातिव्याप्तिः सुखधर्मसम्बन्धे । एवं दुःखं तपस्यास्थले पाप विहाय तिष्ठतीत्यादि बोध्यम्॥
'किञ्च समवायसम्बन्धेनावस्थानं विवक्षितं, तच्च स्वरूपसम्बन्धेनैव भवतीत्यन्योन्याश्रयः, परस्परापेक्षणमन्योन्याश्रय इति वचनात् । अयुतसिद्धत्वं समवायलक्षणं, समवायोऽप्ययुतसिद्ध इत्यात्माश्रयो ऽपि, स्वस्य स्वापे क्षणमात्माश्रय इति वचनात् । न चैतद् दूषणं, जगदाधारितानियामकसंयोगसम्बन्धातिरिक्तसम्बन्धेन वृतिस्तावयुतसिद्धाविति विवक्षितत्वात् ।
[विनश्यत्ता तुं विनाशकारणसामग्रीसान्निध्यम् ।] विनश्यत्ता त्विति । विनाशकारणसामग्रीसांनिध्यमित्यत्र कारणसामग्नोरन्यतरग्रहणेन विनश्यत्ताया लक्षणद्वयं बोध्यम् । सांनिध्यं विनयश्यत्ते त्युक्ते स्थित्यवस्थायां रासभसांनिध्येऽतिप्रसक्तिः । तन्निरासाय सामग्रीति तावत्युक्ते सकलकारणयोगपद्यम् । सामग्रीति वचनाद् उत्पत्त्यवस्थायां सामग्रीसांनिध्येऽतिप्रसक्तिः । तन्निरासाय विनाशेति । न हि उत्पतिसामग्या विनाश इति नातिव्याप्तिः। अथ द्वितीयलक्षणे सांनिध्ये पूर्ववत् कारणसांनिध्यमित्युक्ते उत्पत्त्यवस्थायां घटेऽतिप्रसक्तिः । तन्निरासाय विनाश इति विनाशकारणसांनिध्यं विनश्यत्तेत्यर्थं । युग मिश्रणामिश्रणयोरित्युक्ते मिश्रितसिद्धयोरपृथक्सिद्धयोरयुतसिद्धयोरित्यर्थं । समवायो द्रव्यगुणकर्म सामान्यविशेषेषु, यथा अवयवायविनो गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्त्योविशेषनित्यद्रव्ययोः ।
ननु समवायः केन सम्बन्धेन तिष्ठति ? उच्यते, अविनश्यदवस्थायां स्वरूपसम्बन्धेनेति । संयोगोऽपि तदवस्थायां समवायसम्बन्धेन तिष्ठतीति द्वावपि सम्बन्धौ द्विष्ठौ नित्यानित्यौ चेति, सव्यं च सव्येतरं चेति विग्रहः । किन्तु द्रव्यं निर्गुणमेवेति । ननु यथाद्यक्षणे कालादीनां संयोगोऽस्तीति संयोगस्य गुणत्वात् कथं निर्गुणत्वमिति चेत्, न तदानी, तस्य मूर्तत्वाभावादिति, कारणभेदोऽस्ति । नन्वत्र कारणशब्दः सामग्रीवचनोऽनेककारणजन्यस्यापि पटस्यैकत्वदर्शनात् कारणभेदनियतः कार्यभेदो न भवति, किन्तु सामग्रीभेदनियतोऽयं भावो दृश्यमानः कार्यभेदसामग्रीभेदव्याप्ति स्मरन् भेदं गमयति । यथाग्निव्याप्तो धूमोऽग्निमिति ।
[नन्वेवं सति प्रथमे क्षणे घटोऽचाक्षुषः स्याद्, अरूपिद्रव्यत्वाद् वायुवत् ।] अत्पीति। अरूपित्वादित्युक्ते रूपादावतिप्रसक्तिः । तन्निरासाय द्रव्येति । अद्रव्यत्वादित्युक्ते पटादावतिप्रसक्तिः । तन्निरासायरूपिद्रव्यत्वादिति । तदेव हि द्रव्यं चाक्षुषं यन्महत्त्वे सत्युद्भूतरूपवदिति । अत्र रूपवद्