________________
147
Vol. XIX, 1994-1995
तर्कभाषावार्तिकम् प्रसङ्गतः कार्यमिपि लक्षयति - यस्य कार्यादित्यादि । उक्त कारणलक्षणे आत्माश्रय इत्यत आह - [अनन्यथासिद्धनियतपश्चाद्भावित्वं कार्यत्वम् ।] अनन्यथासिद्धेति । पश्चादभावित्वं कार्यत्वमित्युक्ते दैवादापन्नमशकादावतिव्याप्तिः । तन्निरासाय नियतेति तावत्युक्ते घटरूपादावतिव्याप्तिः। तन्निरासायान्यथासिद्धेति । नियतं च तत्पश्चाद्भावि वाऽनन्यथासिद्धं च तन्नियतपश्चाद्भावि चेति विग्रहः। मुरारिभट्टयां तु अन्यथासिद्धात् कारणान्नियतपश्चाद्भावीति विग्रहः, अन्यथा घटविशेष प्रति रासभस्य कारणत्वादिति क्रियते यत् तदिति दिक् ।
बौद्धाधुक्तकारणलक्षणं दूषयितुमनुवदति - [यत्तु कश्चिदाह कार्यानुकृतान्वयव्यतिरेकि कारणमिति, तदयुक्तम्, नित्यविभूनां व्योमादीनां कालतो देशतश्च व्यतिरेकासम्भवेनाकारणत्वप्रसङ्गात् ।] यत्त्विति । कार्येणानकतौ यावन्वयव्यतिरेकौ तौ वर्तेते यस्य तत् कार्यानुकृतान्वयव्यतिरेकि । यदन्वये यदन्वयो यद्व्यतिरेके यद्व्यतिरेकस्तत्कारणमित्यर्थं । कार्यानुकृतान्वयि कारणमित्युक्ते आकाशेऽतिप्रसङ्गः । कथम् ? आकाशन्वये घटान्वयोऽस्त्येव परं शरीरशब्दौ मुक्त्वा घटादिकं प्रति न कारणमिति तन्निरासाय व्यतिरेकीति । अथ कार्यानुकृतव्यतिरेकि कारणमित्युक्ते घटप्रागभावेऽतिप्रसङ्गः । कथम् ? यदव्यतिरेके यव्यतिरेको, घटप्रागभावध्वंसे गन्धप्रागभावध्वंसः, कारणम् । घटप्रागभावव्यतिरेके गन्धप्रागभावव्यतिरेकः । तन्निरासायान्वयीति ।।
ननु नित्यविभूनां व्योमादीनां कालतो देशतश्च व्यतिरेकासंभावना, अकारणत्ववप्रसङ्गात्, तदयुक्तमित्युक्तम्, तन्न घटते, व्यतिरेकसम्भवात् । तथाहि भेरीसंयुक्ताकाशे सत्येव शब्दोत्पत्तिर्नान्यत्र । यस्मिन् देशे यस्मिन् काले भेरीसंयुक्ताकाशस्तत्र शब्दोत्पत्तिस्तदाऽन्यत्र व्यतिरेक इत्यर्थः ।
के चित्त कालादीनामिदानीं जात इत्यादि प्रतीत्याऽकारणत्वं सिध्यति, एवं प्रमाणान्तरेणात्माऽदृष्टादीनामपि कारणत्वं सिध्यति । आकाशस्यापि शरीरकारणत्वं श्रुत्या सिद्धम् । शब्दत्वं तस्य साक्षात्कारादौ तन्मानान्तरसिद्धम्। घटादौ तु तत्कारणत्वे च मानमेव अवश्यकल्प्यमानपूर्ववर्तिन एव कार्यसम्भव तत्सहभूतत्वलक्षणमन्यथासिद्धं चेत्याहुः । इयत्तावच्छिन्नपरिमाणयोगित्वं मूर्तत्वं, सकलमूर्तद्रव्यसंयोगित्वं विभुत्वमित्यर्थः ।।
कारणलक्षणं विभजते - [ तच्च कारणं त्रिविधं, समवाय्यसमवायिनिमित्तभेदात् । तत्र यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणम् । यथा तन्तवः पटस्य समवायिकारणम् । यतस्तन्तुष्वेव पटः समवेतो जायते, न तुर्यादिषु ।] तच्चेति । चकारो न्यूनाधिकव्यावृत्त्यर्थं । तत्रेति । तेषु कारणेषु मध्ये प्रधानतया समवायिकारणं लक्ष्यते इत्यर्थः । यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणमित्यत्र यत्समवेतं कार्यं तत्समवायिकारणं, यद्वा यत्समवेतमुत्पद्यते तत्समवायिकारणमिति विकल्पद्वयम् । तत्र पथमविकल्पे पटरूपादावतिप्र सक्तिः, तस्य समवेतकार्यात्मक त्वाद्, आकाशादावव्याप्तिश्च तस्य नित्यत्वेन समवेतकार्यत्वाभावात् । द्वितीयविकल्पेऽप्येतावेव दोषौ स्तः । अथ तन्निरासाय यस्मिन् कार्यमिति तत्पुरुषविधाने चक्रादावतिव्याप्तिः। कथम् ? संयोगसम्बन्धेन घटलक्षणकार्यस्य जायमानत्वात् । तन्निरासाय समवेतमिति पदम् । न हि चक्रादौ घटः समवेत उत्पद्यते, घटश्चक्रयोर्युतसिद्धत्वात्, पृथक् सिद्धत्वात् । अत्र लक्षणे यत्पदस्यान्वयसमर्पकत्वेन सामान्यलक्षणमेवैतद, अतः स्वसमवेतकार्यजनकं समवायिकारणमिति ज्ञेयम् । अत्र