________________
146 नारायण म. कंसारा
SAMBODHI घटादावतिव्याप्तेः । नापि पञ्चमः पक्षश्चञ्चुरः, तदप्रतिपादनात् । इति तृतीयः पक्षो न्याय्य एव, अतिशयवत्कारणमिति । अत आह - [यस्य कार्यात् पूर्वभावो नियतोऽनन्यथासिद्धश्च तत्कारणम् । यथा तन्तुवेमादिकं पटस्य कारणम् ।] यस्येति । करोतीति कारणं कर्तर्यनटि वृद्धौ च सिद्धम् । यस्य कार्यात् पूर्वभावस्तत्कारणमित्युक्ते दैवादागतरासभादावतिव्याप्तिः । तन्निरासाय नियतेति तावत्युक्ते तन्तुरूपादावतिव्याप्तिः । तन्निरासायन्यथासिद्धेति ।।
तत्रान्यथासिद्धिरित्रधा । तथाहि यं पुरस्कृत्य यस्य पूर्वभावोऽवगम्यते स तेनान्यथासिद्धो, यथाऽयं तन्तुं पुरस्कृत्य यस्य तन्तुरूपस्य पूर्व भावोऽगम्यते तत् तन्तुरूपम् । तेन तन्तुना कृत्वाऽन्यथासिद्धम् । तन्तुरूपादिगुणस्तन्त्वादिनाऽन्यथासिद्धः । न चेन्द्रियार्थसिन्निकष पुरस्कृत्येति यस्य पूर्ववर्तितावगम्यते इत्यतिप्रसक्तिरिति वाच्यं, विनिगमनाविहरातिरिक्तस्थले इत्यविशेषणस्य बोध्यत्वाद्, विशेष्यस्य निर्धारकप्रमाणाभावविनिगमनाद् इति प्रागन्यथासिद्धिः १ अन्यत्र क्लुप्तपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतत्वमन्यथासिद्धत्वं, यथा क्लुप्तपूर्ववर्तितो गन्धप्रागभावाद् गन्धसम्भवे रूपप्रागभावस्य तत्सहभूतत्त्वाद् गन्धेऽन्यथासिद्धत्वं द्वितीयापि गुणान्यथासिद्धिः २ । एकं प्रति पूर्ववर्तित्वे गृहीते एवापरं प्रति पूर्ववर्तिता गृह्यते, स तेनान्यथासिद्धो, यथा शब्दं प्रत्याकाशस्य पूर्ववतित्वे गृहीते एवापरं घटं प्रति पूर्ववर्तिता गृह्यते इत्याकाशो घटेऽन्यथासिद्धः, शब्दशरीरादौ तु नाकाशमन्यथासिद्धम् । तत्राप्याकाशस्याप्यवश्यकल्प्यमानत्वे नान्यथासिद्धत्वादेव घटोत्पतौ वीरणादिरन्यथासिद्धमिति द्रव्यान्यथासिद्धिः ३ । त्रयमादायैव यस्य पूर्ववर्तिता गृह्यते तदन्यथासिद्धं, यथा दण्डत्वमादायैव दण्डपूर्ववर्तिताग्रहे दण्डेन दण्डत्वस्यान्यथासिद्धत्वम् । दण्डत्वादिधर्मो दण्डेनान्यथासिद्धः । ननु यं पुरस्कृत्येति प्रथमायाश्चतुर्थ्याश्च को भेद उच्यते ? पुरस्कृतत्वं प्राथम्येनावक्लृप्तं, यथा तन्तोः रूपं तन्तुरूपम् । अत्र तन्तु प्राथम्यम् । दण्डत्ववान् दण्डः । अत्र दण्डत्वमवच्छेदकधर्मः । ततो धर्मान्यथासिद्धिः । ४ जनकं प्रति पूर्ववर्तित्वे गृहीते एव यत्रान्यं प्रति पूर्ववर्तिताग्रहस्तदन्यथासिद्धं, यथा कुलालपितृत्वेन कारणतायां वाच्यायां घटजनकं कुलालं प्रति पूर्ववर्तित्वे गृहीते एव जन्यघटं प्रति पूर्ववर्तित्वग्रहात् कुलालजनकं पुंस्त्वस्यैव कुलालपितृत्वात् कुलालपिताऽन्यथासिद्धः । ननु एकं प्रतीति तृतीयायाः पञ्चम्याश्च को भेदः ? उच्यते । तत्र द्रव्यमन्यथासिद्धम्, अत्र पुंस्त्वमिति भेदः। पुंस्त्वं पुरुषाकारत्वं वीर्यमिति यावत् । अतः कुलालपिता कुलालपुत्रं प्रति पुंस्त्वेनान्यथासिद्धो, जन्यघटं प्रत्यन्यथासिद्धः ५ ॥
एतदन्यथासिद्धिद्वयं बलभद्रपुत्रगोवर्धनकृतगोवर्धन्यां प्रोक्तमस्तीति, एतदन्यथासिद्धिपञ्चकराहित्ये सति नियतपूर्ववर्तित्वमेव कारणमिति ग्रन्थान्तरेऽन्यथासिद्धिसप्तकमप्युक्तमिति विस्तरभयान्नेह लिखितमिति बोध्यम् ।
ननु सामान्यलक्षणमिदं, ततश्च नियतपूर्वसत्त्वं वा सत्त्वमेव वस्तुत्वमेव वा करणत्वमास्तां किन्नु विशेषणेनेति चेद्, अन्यथासिद्धभागस्य पारिमाण्डल्यादावतिव्याप्तिवारकत्वात् । न च योगिप्रत्यक्ष प्रति तस्य कारणता, योगिप्रत्यक्षस्य योगजधर्मजन्यत्वावच्छेदेन विषयाजन्यत्वात् । षोढासन्निकर्षान्यतमसन्निकर्षजन्यज्ञानत्वावच्छेदेनैव विषयजन्यत्वाद् विशेपलक्षणमेवेदमिति पारिमाण्डल्यं परमाणुपरिमाणम्। परमाणुत्वं धर्मो, न जातिः, अन्त्यकार्ये मेरुसर्पपयोस्तुल्यत्वादित्यर्थं । तन्ततरीवेमादिकमिति निष्पन्नवस्त्रवेष्टनदण्डस्तुरी, वातो दण्डो वेमा इति ।।