________________
Vol. XIX, 1994-1995
तर्कभाषावार्तिकम्
145
अनुभवत्वस्य साक्षादव्याप्यजातयश्चतस्त्रो भवन्ति, यथा प्रत्यक्षत्वानुमितित्वोपमितित्वशाब्दत्वलक्षणा इति ॥
ननु साक्षाद्व्याप्यत्वं नाम किम् ? तद्व्याप्यजात्यव्यापकत्वे सति तदव्याप्यत्वं साक्षाद्व्याप्यत्वमिति । तच्छब्देनानु भवत्वम् । तस्य व्याप्यं जातिरनुमितित्वादिति । तस्य व्याप्यं प्रत्यक्षत्वम् । पुनस्तच्छब्देनानुभवत्वं तस्य व्याप्यं प्रत्यक्षत्वम् । एतावता प्रत्यक्षत्वमनुभवस्य साक्षाद्व्याप्यत्वमिति जाति: । एवं द्रव्यत्वस्य गुणवत्त्वं साक्षादव्याप्यमिति निराकरणार्थमिति व्याप्यस्य वचनं पूर्वं व्यापकस्य ततः परम्, अल्पवृत्ति व्याप्यं, बहुवृत्ति व्यापकमिति वचनात् । यत्र यत्र प्रत्यक्षत्वं तत्र तत्र अनुभवत्वं न तु यत्र यत्रानुभवत्वं तत्र तत्र प्रत्यक्षत्वम्, अनुमितौ व्यभिचारात् । कथम् ? तत्रानुभवत्वं वर्तते, चाक्षुषत्वं नास्तीति । एवं यत्र यत्रानुमानत्वं तत्र तत्रानुभवत्वं न तु यत्र यत्रानुभवत्वं तत्र तत्रानुमितित्वं प्रत्यक्षे व्यभिचाराद् इत्यादि । यत्र यत्र चाक्षुषत्वं तत्र तत्र अनुभवत्वं, न तु यत्र यत्रानुभवत्वं तत्र तत्र चाक्षुषत्वं घ्राणीयानुमित्यादौ व्यभिचारात् तत्रानुभवत्वमस्ति प्रत्यक्षत्वं नास्तीति । एवं यत्र यत्र रासनत्वं तत्र तत्रानुभवत्वं न तु यत्र यत्रानुभवत्वं तत्र तत्र रासनत्वं चाक्षुषे व्यभिचारात् इत्यादि ॥
अनुभवत्वस्य प्रत्यक्षात्वादिः साक्षाद्व्याप्यजातिः । चाक्षुषत्वादिः प्रत्यक्षत्वस्य व्याप्यजातिः । कथम् ? यत्र यत्र प्रत्यक्षत्वं तत्र तत्रानुभवत्वं न तु चाक्षुषत्वं यत्र यत्र चाक्षुषत्वं तत्र तत्र प्रत्यक्षत्वमनुभवत्वं चेत्यादि स्वयमूह्यम् । तावत्युक्ते सदोषे चक्षुरादावतिव्याप्तिः । तद्वारणाय तद्यथार्थेति पदम् । तावत्युक्ते चक्षुः सन्निकर्षेऽतिव्याप्तिः । तद्वारणाय करणेति । तदर्थश्च व्यापारवत्कारणत्वं सन्निकर्षे सदोषेन्द्रिये च पूर्वविशेषणेनैवातिव्याप्तिभङ्गात् चरमविशेषणवैयर्थ्यप्रसङ्गादिति ॥
ननु प्रमाणमिति कः शब्दार्थं ? प्रमितिः प्रमाणमिति वा प्रमीयते यत् तत् प्रमाणमिति वा प्रमीयतेऽस्मिन्नात्मनीति प्रमाणमिति वा प्रणीयतेऽनेनेति प्रमाणमिति वेत्यादि विकल्पाः सम्भवन्ति । ततश्च प्रथमपक्षे प्रमैव लक्ष्यत्वाक्रान्तत्वेन प्रमाणम् । द्वितीयपक्षे प्रमाकर्म घटादि प्रमाणं स्यात् । तृतीयपक्षेऽधिकरणव्युत्पत्तिरपि निरस्ता, प्रमातुरपि प्रमाणत्वप्रसङ्गात् । तेन प्रमाता प्रमाणं न भवतीत्यर्थः । चतुर्थपक्षे प्रमाकरणं प्रमाणक रणमित्यन्वयदोषः स्यात् । कथम् इति चेत्, श्रुणु । प्रमाकरणप्रमाणकरणयोश्चेतरान्वयसम्बन्धः विशेषणविशेष्यभावो वा वाच्यवाचक भावो वा व्याप्यव्यापकभावो वेत्यादिदूषणान्यपि सम्भवन्तीति चेन्न प्रमाकरणं प्रमाणपदवाच्यमित्यर्थस्य क्रियमाणत्वात् प्रमाणपदमिह न यौगिकमित्यवधेयम् । न चेश्वरेऽतिव्याप्तिरिति वाच्यं तस्यालक्ष्यत्वादिति ॥
ननु लक्षणेन किं क्रियते ? इतरभेदः साध्यते, यथा प्रमाणमितरेभ्यो भिद्यते प्रमाकरणत्वात् । यत्रैवं तत्रैवं यथा प्रमाणाभासादिः । प्रमाकरणमितरेभ्यो भिद्यते, प्रमाकरणत्वात् । तदपीतरेभ्यो भिद्यते तत्करणत्वाद् इत्यत्रानवस्थापि न दोषाय, प्रामाणिकत्वाद् इति यथार्थेति । अनुभवः प्रमा इत्युक्तेऽयथार्थानुभवेऽतिव्याप्तिः । तन्निरासाय यथार्थेति तावत्युक्ते स्मृतावतिव्याप्तिः । तन्निरासायानुभवेति अतिशयितमिति ॥
ननु अतिशयितत्वं नाम किम् ? व्यापारवत्वं वा उत्कृष्टत्वं वा असाधारणत्वं क्रियायोगरहितत्वं वा अन्यद्वा । नाद्यः विकल्पः सुन्दरः घटादावतिव्याप्तेः, तस्यापि व्यापारवत्त्वात् । अत एव न द्वितीयोऽपि, उत्कृष्टत्वे विशेषाभावात् । नापि तुर्यः क्रियायोग्यव्यवच्छेदेन फलसम्बन्धित्वेन