________________
144 नारायण म. कंसारा
SAMBODHI पदमुपादीयते । प्रकरणं प्रमाणमित्युक्ते परमाणावतिव्याप्तिः । कथमिति चेत्, व्यणुकं प्रति परमाणुः प्रकरणं प्रकृष्टं करणमित्यर्थं । तन्निरासाय मेति । तथा च न कश्चिद् दोष इति, प्रमाकरणमित्यत्र भावप्रधानत्वान्निर्देशस्य, प्रमाकरणत्वमिति ज्ञेयम् ।।
लक्षणस्य हि लक्ष्यनिष्ठत्वनियमात् तदाह । प्रमाणमिति । नन्वत्र करणत्वं नाम किम् ? अविलम्बेन कार्योत्पादकत्वं वा व्यापारवत्त्वं वा ? नाद्यः, सन्निकर्षे ऽतिव्याप्तिः । कथम् ? आधुनिक नैयायिकानां चक्षुषः करणत्वे सन्निकर्षस्यावान्तरव्यापारत्वे न व्यवहितकारणत्वात्, चक्षुरादावव्याप्तेश्च । कथम् ? तस्य सन्निकर्षव्यवहितकारणत्वेनाविलम्बेन कार्योत्पादकत्वाभावात् । न चेत् कारणकलापसहितस्य चक्षुषोऽविलम्बेन कार्योत्पादकत्वान्नाव्याप्तिरिति वाच्यम् । एवं हि घटादेरपि तथात्वादतिव्याप्तिः । न द्वितीयो, घटेऽतिव्याप्तेः । न च तत्र व्यापाराभावात् नातिव्याप्तिरिति वाच्यम्, चक्षुापारीभूतस्य घटचक्षुसंयोगस्यैव तद् व्यापारत्वात् । अत एव भिन्नलक्षणं यथा - तन्मात्रनिष्ठकार्यतानिरूपितकारणताऽवच्छेदक धर्मशालित्वं करणत्वमिति । अस्यार्थः - तन्मात्रे चाक्षुषज्ञानमात्रे निष्ठायाः कार्यता, तया निरूपिता कारणता, तस्या अवच्छेदकधर्मत्वं चक्षुष्ट्वं तेन शालित्वं करणमिति सुवचम् ।।
तथा च प्रमाणाभिन्नलक्षणं यथा - यथार्थ ज्ञानकारणत्वे सति, व्यापारवत्वे सति, अनुभवत्वव्याप्यजात्यवच्छिन्नकार्यतानिरूपितकारणताश्रयत्वं प्रमाणत्वमिति लक्षणं सम्पन्नम् । व्यापारवत्त्वभागग्रहणं चक्षुःसन्निकर्षादावतिव्याप्तिवारणायाश्रयत्वान्तभागग्रहणम् । शरीरादावतिव्याप्तिवारणाय कार्यतावच्छेदिका जातिश्चाक्षुषत्वादिः । तद्यथा - चक्षुरादिषडिन्द्रियानुमानोपमानशब्दकायतानां क्रमेण चाक्षुषत्वरासनत्वघ्राणीयत्वस्पार्शनत्वश्रोत्रत्वमानसत्वानुमितित्वोपमितित्वशाब्दत्वजातिभिरवच्छेदादवच्छेदिका जातिः । एतावता चक्षुरादिनवप्रमाणानां करणभूतानां कार्यरूपाश्चाक्षुत्वादिनवजातयो भवन्तीत्यर्थः ॥
शब्दादिसाक्षात्कारजनने श्रोत्रस्य श्रोत्रमन:संयोगो व्यापारः । शब्दात्यन्ताभावज्ञानजनने च स एव व्यापारः । शब्दस्य श्रोत्रशष्कुलीसंयोगश्च व्यापारः सविकल्पं निर्विकल्पकमपि द्वारमिति गोलकाद्यधिष्ठाने नातिव्याप्तिः, तस्येन्द्रियाधिष्ठानत्वे कारणत्वात् । न चालोकादावतिव्याप्तिः, तादृशकार्यताप्रतियोगिकारणत्वाभावात् तमोविषयकचाक्षुषज्ञाने तद्व्यभिचारात् । अस्यार्थ - अनुभवत्वस्य या साक्षाद्व्याप्यजातिस्तद्वद् एकजातीयं तज्जन्यसकलज्ञानमात्रं तदृत्तिकार्यता । तया निरूपिता कारणता । तस्या आश्रयत्वे सति तद्यथार्थकारणत्वम्। तादृशं यथाज्ञानकारणत्वमित्यर्थः ।।।
पदकृत्यानि - तद्यथार्थकारणत्वं प्रमाणत्वमित्युक्ते आत्मादावतिव्याप्तिः । तन्निरासाय ज्ञानेत्यारभ्य सत्यन्तं पदं देयम् । तथा च जन्यात्मविशेषगुणनिष्ठकार्यतानिरूपितकारणताश्रयत्वादतिव्याप्तिर्ध्वस्ता तावत्युक्ते घटेऽतिव्याप्तिः । तद्वारणाय सकलेति तावत्युक्ते त्वसम्भवः स्यात् । तद्वारणायेकजातीयेति । तथापि ज्ञानत्वे जात्या एकजातीयसकलजन्यज्ञानमात्रवृत्तिकार्यतानिरूपितकारणताश्रयत्वं चक्षुरादौ नास्ति, अत्रानुमित्यादावकारणत्वात् । अत आह - अनुभवत्वसाक्षाद्व्याप्यजातिमदिति । साक्षादिति अनुभवत्वस्य व्याप्यम्। अनुभवत्वव्याप्यमादाय असम्भवत्ववारणाय तेन च भेदगर्भव्याप्यतालाभान्न दोषः ॥
ननु साक्षाव्याप्यजातयः कति ? तथाहि - अनुभवत्वस्य व्याप्यजातयो नव भवन्ति, यथा चाक्षुषत्वरासनत्वघ्राणीयत्वस्पार्शनत्वश्रावणत्वमानसत्वानुमितित्वोपपमितित्वशाब्दत्वलक्षणाः [इति ।]