________________
Vol. XIX. 1994-1995
तर्कभाषावार्तिकम्
143
प्रमाकरणं प्रमाणमित्यादिलक्षणवाक्ये ऽतिप्रसक्तिः । कथम् ? लक्ष्यलक्षणवाक्यं लक्षणशास्त्रं भवति । ननु तदुदेशशास्त्रम्, अतो मात्रेति केवलं नाममात्रम् । तावत्युक्ते डित्थडवित्थादिशब्देऽतिप्रसक्तिः । तद्वारणाय वस्तुपदम् । तावत्युक्ते अभिधेयेतिप्रसक्तिः । कथमिति चेत्, अभिधेये नाममात्रेण वस्तुसङ्कीर्तनमस्ति परं सर्वत्र वर्तनात् साधारणम् । तर्हि प्रमेयमपि तथैव भविष्यतीति चेन्न तस्य द्वादशे वे व वर्तनात् I तद्वाररणाय असाधारणेति । असाधारण नाममात्रमित्ये वास्तु, सङ्कीर्तनपदमधिकमित्यनुच्चारितेऽतिप्रसक्तिः । तद्वारणाय तस्योपादानं स्फुटार्थत्वाद् वा । तथा चोद्देशलक्षणं
सम्पन्नम् ।।
लक्षणात्मकं शास्त्र लक्षयति । लक्षणं त्विति । लक्षणमित्यत्र लक्षणात्मकं शास्त्रं लक्ष्यम्, अन्यथाऽसम्भवः स्यात् । नहि पिण्डस्थमेव सास्त्रादिकं गवादेः शास्त्रलक्षणं भवितुमर्हतीति । अथ वचनं लक्षणं शास्त्रमित्युक्ते गौरित्यादिधर्मिवचनेऽतिप्रसक्तिः । तद्द्वारणाय धर्मेति तावत्युक्ते गोर्लक्षणं द्विखुरावत्त्वमिति वाक्येऽतिप्रसक्तिः । कथम् ? द्विखुरावत्त्वं साधारणं, महिष्यादौ वर्तनात् । तद्वारणाय असाधारणेति । तथा च असाधारणधर्मवचनं लक्षणशास्त्रमिति सम्पन्नम् ॥
असाधारणत्वं नाम तन्मात्रवर्तित्वम् । तन्मात्रवर्तित्वं च तद्वर्तित्वे सति तदितरावर्तित्वमिति । केचित्तु यदेव तत्त्वं तदेव लक्षणं तत्त्वं च नाकाशमपीति, असाधारणधर्मत्वमेव लक्षणलक्षणमित्याहुः । न चात्रानवस्था दोषाय, प्रामाणिकत्वात् । कथम् ? घटे घटत्वं घटत्वे घटतात्वं घटतात्वे घटतात्वत्वमित्यनया दिशाऽनवस्थिति: । न चात्रात्मा श्रेयोऽपि दोषाय, प्रामाणिकत्वाद्, भिन्नव्यक्तिकत्वाच्च । [ घटोऽयं पटोऽयमितिवद् भिन्नव्यक्तिकत्वम् ।] कथम् ? लक्षणस्य लक्षणापेक्षत्वेन स्वस्य स्वापेक्षणमात्माश्रय इत्युक्तेरात्माश्रय इति यथालक्षितस्येति ॥
अत्रोद्देशलक्षणपरीक्षाफलानां परीक्षा यदि लक्ष्यते तदा शास्त्रस्थो विचारः परीक्षेत्येव लक्षणम् । यदि लक्षणपरीक्षैव लक्ष्यते तदा यथालक्षितस्येत्यादि परीक्षालक्षणम् । तावता लक्षणविषयो विचारो लक्षणपरीक्षेति तदर्थं । एवमुद्देशविषयको विचारः उद्देशपरीक्षा । फलविषयको विचारः फलपरीक्षा । परीक्षाविषयको विचारः परीक्षापरीक्षेत्याद्यवगन्तव्यम् । न च परीक्षापरीक्षायामनवस्था यथाविप्रतिपत्ति परीक्षाकरणात् । यथाविप्रतिपत्तीति विप्रतिपत्तिमनतिक्रम्य करोतीति यथाविप्रतिपत्ति, तेनेति । अस्मिन्नेव सूत्रे उद्देशस्योक्तत्वेन लक्षणपरीक्षे एव कर्तव्य इत्यर्थः ॥
[ ॥ प्रमाणानि ॥ ]
तत्रेति । इतरपदार्थानां प्रमाणाधीनसिद्धिकत्वेन प्रमाणस्य गरीयस्त्वात् प्रमाणमेवादौ लक्षयति प्रमाकरणमिति । प्रमीयते परिच्छिद्यते या सा प्रमा । क्रियते अनेनेति करणमिति करणव्युत्पत्तिराश्रयणीया । ननु भावव्युत्पत्तिः प्रमायाः करणं प्रमाकरणमित्यत्र करणं प्रमाणमित्युक्ते च्छिदाकरणे कुठारे ऽतिप्रसक्तिः । तन्निरासाय मेति माकरणमित्युक्ते भ्रमज्ञानकरणे दोषदुष्टेन्द्रियेऽतिव्याप्तिः । तन्निरासाय प्रमेति । प्रमा नाम यथार्थानुभवः । यथार्थ इत्ययथार्थानां संशयविपर्ययतर्क ज्ञानानां निरासः । तद्वति तत्प्रकारकं ज्ञानं यथार्थज्ञानम् । स्मृतिव्यतिरिक्तं ज्ञानमनुभवः । अथ प्रः प्रमाणमित्युक्ते, असम्भवं नहि प्रत्वं कस्मिंश्चिदपि प्रमाणेऽस्तीति । तन्निरासाय
। प्रमा प्रमाणमित्युक्ते चक्षुरादावव्याप्तिः, अनुमित्यादौ चातिव्याप्तिः । तन्निरासाय करणमिति