________________
नारायण म. कंसारा
SAMBODHI
अथ प्रवर्तकज्ञानलक्षणमाह । कृतिसाध्यत्वगोचरबलवदनिष्टाननुबन्धीष्टसाधनगोचरज्ञानं प्रवर्तकम् । अस्य पदकृत्यानि । ज्ञानं प्रवर्तकमित्युक्ते घटार्थिनोऽत्र प्रमेयत्वमिति ज्ञानेऽतिव्याप्तिः । कथम् ? प्रवर्तकत्वाभावात् । तन्निरासाय साधनेति पदं
तत्र
पदार्थत्वप्रकारकजलज्ञानेऽतिव्याप्तिः । तन्निरासाय भाववाचकताप्रत्ययोपादानम् । तथा च जलत्वेन तावत्युक्ते तृषितजलार्थिन: तृडुपशामकत्वेन जलज्ञानं प्रवर्तकं, न पदार्थत्वेन जलज्ञानं प्रवर्तकम् । अतोऽतिव्याप्तिर्निरस्ता तावत्युक्ते सुखार्थिनो दुःखसाधनाहिकण्टकज्ञानेऽतिव्याप्तिः । तन्निरासाय इष्टेति पदम् । तावत्युक्ते मधुलिप्तेयं खड्गधारेति ज्ञानेऽतिव्याप्तिः । कथम् ? मध्वास्वादजन्यसुखार्थिनः प्रवर्तकं भवेत्, न चैतज्ज्ञानं प्रवर्तकं, जिह्वाच्छेदनजन्यानिष्टदुःखसाधनताज्ञानविषयत्वात् । तन्निरासायानिष्टाननुबन्धीति पदमिष्टसाधनताविशेषणतयोपात्तम् । तथा चानिष्टेन सहाननुबन्धि असम्बन्धि यदिष्टसाधनं तत्ताज्ञानमिदं ज्ञानम्, दण्डादिभिर्घटादेः साधनमित्युल्लेखेनेत्यर्थं । तावत्युक्तेऽस्मिन् गिरिशिखरे सुखास्वादादिगुणोपेतं पूर्ण सरोऽस्तीति ज्ञानेऽव्याप्तिः 1 कथम् ? जलार्थिनस्तज्ज्ञानं प्रवर्तकं भवेद्, अनिष्टश्रमाननुबन्धीष्टधनताज्ञानत्वात् । तन्निरासाय बलवदित्यनिष्टविशेषणतयोपात्तम् । श्रमाननुबन्धि बलवदनिष्टं न भवतीति नाव्याप्तिः तावत्युक्ते सुखसाधनं सागरमणिरिति ज्ञानेऽतिव्याप्तिः । कथम् ? तत्र प्रवर्तकत्वाभावात् । तन्निरासाय कृतिसाध्यगोचरेति पदं ज्ञानविशेषणतयोपात्तम् । अस्यार्थः । कृत्वा प्रयत्नेन यत् कृतिसाध्यत्वम् । तदेव गोचरो विषयो यस्य ज्ञानस्य तत् कृतिसाध्यगोचरम् । बलवत्त्वं तदिष्टाननुबन्धि च तदिष्टसाधनतागोचरज्ञानं च कृतिसाध्यत्वगोचरं च बलवदनिष्टाननुबन्धि तच्च तद्बलवदनिष्टाननुबन्धीष्टसाधनतागोचरज्ञानं चेत्यर्थं । एवमपि स्वकृत्यसाध्य परकृतिसाध्यगोचरतादृशज्ञानस्यापि प्रवर्तकत्वापत्तिः । अतः स्वपदमध्याहार्यम् । एवमपि बलवदनिष्टाननुबन्धि यदनिष्टं परेषां नात्मनः स्वात्ममरणादिः तस्य साधनं विषलक्षणादि, स्वकृतिसाध्यं च तत्तागोचरज्ञानस्यापि प्रवर्तकत्वापत्तिः । अतोऽत्रापि स्वपदमध्याहार्यम् । तथा च स्वकृतिसाध्यत्वगोचरबलवदनिष्टाननुबन्धि स्वेष्टसाधनगोचरज्ञानं प्रवर्तकमिति सम्पन्नमिति । तथा च तच्च जानन्तीति तत्त्वज्ञाः । तेषां निःश्रेयसप्राप्तिरिति । यद्वा तत्त्वज्ञानान्मिथ्याज्ञानापायः, तदपायाद् दोषापायः, तदपायात् प्रवृत्त्यपायः, तदपायाज्जन्मापायाद् एकविशंतिप्रभेददुः खोच्छेदलक्षणो मोक्षः स्यादित्यर्थं ॥
ननु नितरां श्रेयो निःश्रेयसमिति व्युत्पत्त्या निःश्रेयसं सुखं तस्याधिगमो ज्ञानं प्राप्तिर्वा तत्त्वज्ञानादनुपपन्नेति। अत आह । अस्यार्थ इति । तत्त्वं ज्ञायतेऽनेनेति व्युत्पत्त्या तत्त्वज्ञानं शास्त्रम् । इष्टसाधनतादिलाभात् प्रवृत्तिरुपपादिता, अन्यथा तत्त्वज्ञानपदस्य यथाश्रुतार्थपरत्वे शास्त्रे इष्टसाधनताऽप्रतिपादनात् तत्र प्रवेशायैतत्प्रकरणानारम्भः स्यादिति न चोत्तरग्रन्थविरोधः, तस्यान्यथाऽवतार्यत्वादिति । त्रिविधेति शास्त्रस्याचेतनत्वे तद्विषयिणी पुरुषस्य प्रवृत्तिस्त्रिविधेत्यर्थं । यद्वा प्रवृत्तिपदमुत्पत्तिपरं शास्त्रान्तरस्य विभागेन सहिता चतुर्धा प्रवृत्तिरिति ॥
ननु उद्देशो विभागो लक्षणं परीक्षा चेति प्रवृत्तिचातुर्विध्ये वक्तव्ये त्रैविध्यकथनमयुक्तमिति चेन्मैवम्, विभागस्य विशेषनाममात्रसङ्कीर्तनेनोद्देशे एवान्तर्भावात् । अत्रस्त्रैविध्यकथनमेव युक्तमिति । उद्देशस्त्विति । असाधारणनाममात्रेण वस्तुसङ्कीर्तनमुद्देशः । उद्देशशास्त्रमित्यर्थं । कीर्तनमुद्देश इत्युक्ते घनाघनध्वन्यादावतिप्रसक्तिः । तदर्थं समिति पदम् । तदा ताल्वोष्ठपुटसंयोगजन्यं कीर्तनं शब्दकरणं सङ्कीर्तनम् । तावत्युक्ते काकीयरवेऽतिप्रसक्तिः । तदर्थं नामेति । तत्र नामसङ्कीर्तनं नास्ति तावत्युक्ते