________________
Vol. XIX. 1994-1995 तर्कभाषावार्तिकम्
141 विवक्षितमित्ये कवचनम् । अर्थनिर्देशमादाय संशये ऽपि बहुवचनं तेषां निरपेक्षतया न्यायप्रवृत्त्युपयोगित्वात् । प्रयोजने विशेषलक्षणानुसारेण द्विवचनम् । दृष्टान्तेऽपि विशेषलक्षणानुसंधानेन द्विवचनं, तयोरुदाहरणे परस्परनैरपेक्ष्याद्, अन्वयव्यतिरेकिणस्तस्यैतयोरेकत्र प्रयोगेऽनुचितत्वात्, तस्यैकत्र प्रयोजनाभावाद् अन्यथाऽधिकनिग्रहापत्तेः । सिद्धान्तेऽपि स्वप्रयोजने नैरपेक्ष्यमेवेति बहुवचनम् । अवयवानां संभूयैकार्थप्रतिपादकत्वेऽवान्तरार्थभेदसूचनाय बहुवचनम् । तर्क निर्णययोरेकैकप्रयोजनत्वात् एकवचनम् । वादजल्पवितण्डानां तथैव । हेत्वाभासादिषु स्वव्यापारे परस्परनैरपेक्ष्याद् बहुवचनम् । अत एव 'निर्देशे यथावचनं विग्रहः' इति भाष्यम् । तस्यार्थो यदेव निर्देशे वचनभेदोपादानप्रयोजनं तदेवात्रापीति द्रष्टव्यमित्यादि त्रिसूत्रीतत्त्वबोधादौ सुप्रसिद्धम् ।।
तत्त्वज्ञानादिति । तत्त्वं ज्ञायते ऽ ते ने ति तत्त्वज्ञानं शास्त्रं, तस्मादित्यर्थं । तथा च शास्त्रतत्त्वज्ञानाभ्यां व्यापारिव्यापारभावापन्नाभ्यां समानाधिकरणदुःखसमानकालीनभिन्नदुःखध्वंसलक्षणो मोक्षः । ध्वंसो मोक्ष इत्युक्ते घटध्वंसे ऽतिव्याप्तिः । तन्निरासाय दु:खेति । तथाप्यस्मदाद्यधिकरणकदुःखध्वंसेऽतिव्याप्तिः । कथम् ? अस्मदादीनामप्यतीतकालीनदुःखध्वंसस्य विद्यमानात् । तन्निरासाय दुःखसमानकालीनभिन्नेति । अत्र भिन्नेति पदं दु:खध्वंसविशेषणतयोपात्तम् । कथम् ? दुःखेन सह समानकालीनो यो दुःखध्वंसः तस्माद् भिन्नो व्यतिरिक्तो यो दु:खध्वंस इत्यर्थः । अस्मदादिषु प्रत्युत्पन्नदुःखसमानकालीनातीतदुःखध्वंसस्यैव विद्यमानत्वात् ततो न भिन्नत्वं दुःखस्येति नातिव्याप्तिः तावत्युक्ते व्यधिकरणदुःखमादायासम्भवः । कथम् ? अस्मदादुःखसमानकालीनस्यैव मुक्तानां दुःखध्वंसस्य विद्यमानत्वमित्यसम्भवः । तन्निरासाय दुःखविशेषणत्वेन समानाधिकरणेति पदम् । अस्यार्थः - लक्ष्यो लक्षणयोग्यो यो मुक्तात्मगतो दुःखध्वंसस्तेन समानाधिकरणं यद् दुःखं, तेन समानकालीनो यो दुःखध्वंसः संसारावस्थायां स मुक्तात्मगत एव, तस्मादभिन्नो यो दुःखध्वंसः स तु मुक्तानामेवेति । तथा चैतत् सम्पन्नं - लक्ष्यदुःखध्वंसाधिकरणकदुःखसमानाधिकरणदुःखसमकालीनदुःख-ध्वंसभिन्नदुःखध्वंसलक्षणो मोक्षः साध्यत इत्यत्र तात्पर्यम् ।
तत्त्वलक्षणणाह - स्वाश्रयप्रतियोगिकान्योन्याभावासमानाधिकरणधर्मवत्त्वं तत्त्वम् । अस्य पदकृत्यानि। धर्मस्तत्त्वमित्युच्यमाने संयुक्तसमवायेन जले विद्यमानो गन्धः समवायेन तत्त्वं स्यात् पूर्वकालावच्छेदेन घटे विद्यमानं श्यामं रूपं रक्तकालावच्छेदेन तत्त्वं स्यात् । तदुभयवारणार्थ यत्सम्बन्धपुरस्कारेण यदवच्छेदेन यो यस्य धर्मस्तत्सम्बन्धपुरस्कारेण तदवच्छेदेन स तस्य तत्त्वमिति बोधनार्थं धर्मतत्त्वं तत्त्वं तावत्युक्ते घटवर्तिप्रमेयत्ववत् तस्यापि घटतत्त्वताप्रसङ्गः । अत उक्तम् - असमानाधिकरणेति । तावत्युक्ते जलेन सहासमानाधिकरणं यत् पृथिवीतत्त्वं तत् तद्वत्त्वस्यापि घटतत्त्वता भवेत् । अतोऽभावेति । तथापि घटप्रतियोगिकात्यन्ताभावमादायासम्भवः स्वस्मिन् स्वावृत्तेरिति न्यायात् घटवर्तिघटप्रतियोगिकात्यन्ताभावेन सह घटत्वस्यासमानाधिकरण्याभावात् । अतोऽन्योन्येति । तथापि घटवर्तिपटप्रतियोगिकाऽन्योन्याभावमादायासम्भवस्तेन स्वाश्रयेति । अस्यार्थ:-स्वं घटत्त्वं, तस्याश्रयो घटः, तत्प्रतियोगिकोऽन्योन्याभावः, तेन समानाधिकरणो धर्मो घटत्वं, तद्वत्त्वं तत्त्वमित्यत्र पदकृत्य विस्तरो ग्रन्थान्तरादवसेयः ।।