________________
140 नारायण म. कंसारा
SAMBODHI इत्युक्ते मूकवाक्येऽतिव्याप्तिः। तन्निरासाय बोधकेति तावत्युक्ते 'घटमानय' इत्यादिवाक्येऽतिव्याप्तिः। तन्निरासाय लिङ्गेति। लिङ्गबोधकवाक्यं न्याय इत्युक्ते 'तप्तायोगोलको वह्निमान् धूमाद्' इत्यादि लिङ्गबोधकवाक्येऽतिव्याप्तिः । अतः पक्षधर्मत्वोपे तेति पदमुपादीयते तदातिव्याप्तिर्वसिता । यतस्तप्तायोगोलके पक्षधर्मत्वं धूमवत्त्वं नास्ति तावत्युक्ते 'पर्वतोऽयं वह्निमान् धूमात्, यथाऽयोगोलके' इत्यादावतिव्याप्तिः । तन्निरासाय सपक्षे सत्त्वमित्युपादीयते तावत्युक्ते 'पर्वतोऽयं धूमवान् वः, यथा सपक्षो महानसं, विपक्षस्तप्तायो गोलक इत्यादावतिव्याप्तिः । कथम् ? तत्र वह्निहें तुर्वर्तते । व्यावृत्तिम॑ग्यतेऽतो विपक्षव्यावृत्तिरिति पदं तावत्युक्ते तथायोगोलको धूमवान् वह्निनेर्यथा महानसम्' इत्यादावतिव्याप्तिः । तन्निरासाय 'अबाधितविषयत्वम्' इति तप्तायोगोलके धूमवत्त्वं विषयत्वं साध्यं प्रत्यक्षेण बाधितं तावत्युक्ते 'अनित्यः शब्दो नित्यधर्मरहितत्वाद्' इत्यादावतिव्याप्तिः । कथम् ? यथा 'नित्यधर्मरहितत्वाद्' इति हेतुनाऽनित्यत्वं साधितं तथा 'अनित्यधर्मरहितत्वाद्' इति हेतुना नित्यत्वमपि साध्यते। अतोऽसत्प्रतिपक्षत्वम्। तथा च पक्षधर्मत्वसपक्षसत्त्वविपक्षाव्यावृत्त्यबाधितविषयत्वाऽसप्रतिपक्षत्वलक्षणपञ्चरूपोपेतलिङ्गबोधकवाक्यं, न्यायसूत्रप्रधानो नयो न्यायनयः । यद्वा नीयते प्राप्यते विवक्षितोऽनेनेति न्यायो युक्तिस्वरूपः, तत्प्रधानो नयः शास्त्रं न्यायनयस्तस्मिन्नित्यर्थः ।।
नन्वन्येऽपि चिन्तामण्यादयो ग्रंथाः सन्तीति, तत्र कि प्रवेशं न वाञ्छतीत्याशङ्कयाह - अल्पेन श्रुतेन। श्रवणेनाध्ययनेनेत्यर्थं । अल्पाध्ययनं कुतः ? अलसः । आलस्यवानित्यर्थं । तत्र त्वस्य चिरनातिविततगहनगम्भीरप्रकरणानर्हस्यात्रापि विस्तरत्वात् कथं प्रवेशो भावीत्यत्यत आह - संक्षिप्तयुक्तीति । हे अन्वित हे सुबुद्धे संक्षिप्तयुक्ति यथा स्यात् तथेति । तथा चास्य क्रियाविशेषणत्वेन 'क्रियान्वयि प्रधानम्' इति न्यायात् प्राधान्यमेव । ननु संक्षिप्तयुक्त्यन्विता चासौ तर्क भाषा चेति विग्रहे को दोष इति चेद्, उच्यते । युक्तीनां तर्क भाषाविशेषणत्वेन साक्षाक्रियान्वयित्वाभावाद् अप्रधान्यं स्यान्, न्यायशास्त्रे च युक्तीनां प्राधान्यमेव मृग्यते । तथा चाविमृष्टविधेयांशदोषः । संक्षिप्ता चासौ युक्त्यन्विततर्क भाषा चेतिविग्रहे तु पूर्वापरविरोधोऽपि स्यात् । कथम् ? चत्वार्येव प्रमाणानि युक्तिलेशोक्तिपूर्वकं केशवो बालबोधाय यथाशास्त्रमवर्णयन् इत्यत्र संक्षेपो युक्तानां प्रोचे ॥
अत्र च तर्कभाषाया इति पूर्वापरविरोधः । तथा च संक्षिप्ता युक्तयो यस्यां सा संक्षिप्तयुक्तिः । अन्विताकाक्षादिदोषरहिता एवंविधा वाऽसौ तर्कभापा चेति विग्रहेऽन्यपदप्राधान्यात् पूर्वदोपस्तदवस्थ एव । तस्मात् पूर्वव्यारव्यानमेव श्रेयः । कस्यचिन् मते संक्षिप्य युक्त्यन्विततर्कभाषेति पाठः कर्तव्यः । तथा च न कोऽपि दोषावकाशो, यतः संक्षिप्येत्यव्ययेन युक्त्यन्वितेति तर्कभाषाविशेषणेन च शब्दसंक्षेपस्य युक्तिबाहुल्यस्य च दर्शनादत्र प्रकों ऽपि दर्शित इत्यवधार्यम् । इति प्रथमवृत्तव्याख्यानम् ॥१॥
अथ षोडशपदार्थोद्देशमाह । ['प्रमाणादिषोडशपदार्थानां तत्त्वज्ञानान्मोक्षप्राप्तिर्भवति' इति] प्रमाणेति। प्रमाणानि च प्रमेयं च संशयाश्च प्रयोजने च दृष्टान्तौ च सिद्धान्ताश्चावयवाश्च तर्कश्च निर्णयश्च वादश्च जल्पश्च वितण्डा च हेत्वाभासाश्च फलानि च जातयश्च निग्रहस्थानानि च तेषाम् । अत्र सूत्रे सर्वेषां पदार्थानां प्राधान्यस्य विवक्षित्वाद् द्वन्द्वसमासः, तत्पुरुपपरिग्रहे प्रधान्यानुपपत्तेः, द्विग्वव्ययीभावयोरेतादृशपाठाभावात्, बहुव्रीहिकर्मधारययोविरोधाच्च । प्रमाणेषु बहुवचनमन्योन्यनिरपेक्षत्वेन प्रमाहेतुत्वस्य विवक्षितत्वात् । प्रमेयेषु प्रत्येकं प्रमेयत्वेऽपि समुदायपर्यवसायिन्येव प्रमेयत्वं