________________
Vol. XIX, 1994-1995 तर्कभाषावातिकम्
139 मङ्गलत्वमिति। ननु मङ्गलं कः पदार्थो, द्रव्यं वा, गुणो वा कर्म वा ? अत्र ब्रूमः । क्वचिद् द्रव्यं, क्वचिद् गुणः, क्वचित् कर्म च । तद्यथा - विनायकदधिदूर्वादिव्यमङ्गलम् । वाचिकमानसिक नमस्कारो तु गुणमङ्गलं वाचिक स्य शब्दरूपत्वात् मानसिकस्य ध्यानरूपत्वाद् गुणत्वम् । विनायकादिनमनादि कर्ममङ्गलमिति । न तु नमस्कारमङ्गलयोः कश्चिद् भेदोऽस्तीति चेन्न, मङ्गलैकदेशत्वान्नमस्कारस्येति । किञ्च द्रव्यमङ्गलस्य समवायिकारणादिकं प्रसिद्धमेव । गुणमङ्गलं द्विविधं वाचिकं मानसिकं च । तत्र वाचिकस्य समवायिकारणं गगनम्, असमवायिकारणं गगनमनःसंयोगो, निमित्तकारणं ताल्वोष्टपुटसंयोगादि । मानसिकस्य समवायिकारणमात्मा, असमवायिकारणमात्ममनःसंयोगो, निमित्तकारणं कालादि । कायिकस्य समवायिकारणं शरीरम्, असमवायिकारणं शरीररगगनसंयोगो, निमित्तकारणं कालादि ॥
ननु समाप्तिः कः पदार्थों, द्रव्यं वा गणो वा कर्म वा ? अत्र ब्रमः । समाप्तिः कार्यसिद्धिः कार्यसमाप्तिरिति यावत् । कार्यं च त्रिधा द्रव्यरूपं गुणरूपं कर्मरूपं च । तत्र द्रव्याणां घटपटादीनां सिद्धिर्द्रव्यकार्यसमाप्तिः । गणानां ज्ञानेच्छाप्रयत्नशब्दादीनां सिद्धिगुणकार्यसमाप्तिः । कर्मणां नमनगमनादीनां सिद्धिः कर्मकार्यसमाप्तिः । शास्त्रसमाप्तिस्तु शब्दसंदर्भसमाप्तिरिति गुणपदार्थं । समाप्तिस्तु स्वाश्रयाद् भिन्ना नास्तीति स्वाश्रयस्य यानि समवायिकारणाऽसमवायिकारणनिमित्तकारणानि तान्येव समाप्तेरपीति कृत्वा, शास्त्रसमाप्तेः समवायिकारणं गगनम्, असमवायिकारणं गगनमनःसंयोगादि, निमित्तकारणं नमस्कारादि, 'साधकतमं कारणम्' इति वचनात् । एतषां त्रयाणां कारणानां मध्ये कि करणम् ? नमस्कार: करणं, तस्यैव साधकतमत्वादित्यर्थं । इति मङ्गलवादः ।।
अथैषाऽक्षरसंयोजना यथा एषा बुद्धिस्था तर्कभाषा मया प्रकाश्यते प्रकटीक्रियत इति सण्टङ्कः । ननु क्रियत इत्येव कथं नोचे ? स्वकपोलकल्पिताशयाऽन्येषां प्रवृत्त्यभावो मा भूदित्यतः । किञ्च प्रकटनं प्रदीपवत् सतो वस्तुनः, करणं त्वसत एवेति । एपेति का इत्यपेक्षायामाह - तर्कभाषेति । नन्वत्र तर्कशब्दस्य वाच्यवृत्त्यङ्गीकारे प्रतिबन्धनवस्थाचक्रकव्याघातात्माश्रयाणां पञ्चानां ताणां प्रतिपादनमितरेषामप्रतिपादनं च स्यादिति चेन्न, तर्कशब्दस्यो पलक्षणत्वेन तर्कोपलक्षिताः षोडशपदार्थाः, तेषां भाषणं भाषास्वरूपकथनं लक्षणतः प्रकाश्यत इत्यर्थः ॥
न हि प्रयोजनमन्तरेण मन्दोऽपि प्रवर्तते इति किमत्र प्रयोजनमित्याशंक्याह - कते प्रयोजनाय। कृते इति पदं क्विबन्तत्वेन चतुर्थ्यन्तमव्ययं चेति कस्य तस्य तस्य कस्य तस्ये त्यपेक्षायां यत्तदोनित्याभिसम्बन्धाद् यच्छब्दमाह बालोऽपीति । अत्रापिशब्देन विरोधाभासालङ्कारप्रतिभासनं तच्चैतल्लक्षणाद् दुरापास्तम् । तद्यथा - अधीतव्याकरणोऽनधीतन्यायशास्त्रप्रवेशवाञ्छको बाल इत्यत्र वाञ्छको बाल इत्युक्ते स्तनन्धयादावतिव्याप्तिनिरासाय प्रवे शेति तावत्युक्ते, नगरादिप्रवेशाथिपथिकादावतिव्याप्तिनिरासाय शास्त्रेति तावत्युक्ते, अधीतन्यायशास्त्रान्तरप्रवेशवाञ्छकपुरुषेऽतिव्याप्तिः, तन्निरासायाऽधीतन्यायशास्त्रेति तावत्युक्ते, अनधीतव्याकरणेऽतिव्याप्तिः, तन्निरासायाधीतव्याकारणेति तावत्युक्ते लक्षणं सम्पन्नम् । स इह बालो गृह्यते न तु स्तनन्धयः ।।
एतल्लक्षणो यो बालः सन् वाञ्छति । वाञ्छते: सकर्मकत्वात् किं वाञ्छति ? प्रवेशम् । क्व? इत्याह - न्यायनये । पक्षधर्मत्वादिसमस्तरूपोपेतलिङ्गबोधकवाक्यं न्यायः । वाक्यं न्याय