________________
138
नारायण म. कंसारा
SAMBODHI कथम् ? तत्र लौकिकानां प्रवृत्तेरभावात् । तन्निरासायेष्टेति तावत्युक्ते दर्शाद्याचारेऽतिव्याप्तिः । दर्शाद्याचार इष्टसाधनं परमलौकिकमिति तन्निरासायातिरिक्तप्रमाणबोधितेति तावत्युक्ते ईश्वरेऽतिव्याप्तिः । कथम् ? अलौकिक प्रमाणबोधितेष्टसाधनाक त्वं लौकिक त्वम्, ईश्वरस्त्वलौकिक इति। तन्निरासाय शब्दतदुपजीविप्रमाणे ति तावत्युक्ते लौकि कलक्षणसम्पन्नं तदभावोऽलौकिक - त्वमैहिकगोचरप्रमाणाविषयत्वम् । भोजनं प्रत्यक्षसिद्धिमिति न तत्र व्यभिचारः । विषयपदं त्वसिद्धिवारणार्थमिति न व्यर्थम् । कथम् ? ज्ञानेच्छाप्रयत्नानां सविषयत्वाक्रमभावित्वाच्चेत्युक्तेः । प्रयत्नस्योद्यमस्य सन्ध्यावन्दनादिशिष्टाचारो विषयो भवतीति विषयपदमसिद्धतावारणार्थमित्यर्थः । शिष्टस्याचारस्तस्य विषयः । अलौकिकश्चासावविगीतश्चासौ शिष्टाचारविषयश्चेति समासादिति हेत्वर्थः । तथा च वेदेन बोधिता कर्तव्यता यस्य मंगलस्य तच्छेषाद् विभाषेति कविवेदबोधितव्यताकमिति समासेन निर्विघ्नसमाप्तिकामो मङ्गलमाचरेदित्याचारानुमितवेदबोधितकर्तव्यता बोध्येति इति साध्यार्थः । इति मङ्गले प्रमाणमसूचि ।।
अथ तत्फलमाह । न तु मणिकारमते मङ्गलस्य विघ्नध्वंसं प्रति कारणत्वं, विघ्नध्वंसस्य समाप्ति प्रति कारणत्वमिति । शिरोमणिमते मङ्गलस्यविघ्नध्वंसस्य प्रति कारणत्वं, विघ्नध्वंसस्यादृष्टं प्रति कारणत्वम्, अदृष्टस्य समाप्ति प्रति कारणत्वमिति । माधवसरस्वतीमते मङ्गलस्य विघ्नध्वंसं प्रति कारणत्वं, विघ्नध्वंसः कार्यं न वा । अत्राऽन्वयव्यतिरेकाभ्यां व्यभिचारो यावत् । मङ्गलं तावद विघ्नध्वंसाङ्गीकारात्, जन्मान्तरीयमङ्गलकल्पनान्वेति । समाप्तिस्तु प्रतिबन्धकदुरितध्वंससहकृतलोकावगतस्वकारणादेव, यथा कारीरयोगेनावग्रहध्वंसे वृष्टिः, अनुकूलवातादि- स्वकारणाद् भवति, तद्वत् । क्वचित् समाप्त्यभावो विघ्नभूयस्त्वाद् अनन्तरोत्पन्नविघ्नान्तराद् वेति ॥
केषांचिन्मते विघ्नध्वंसं प्रति मङ्गलस्य कारणत्वं, न समाप्तिः प्रति । तेन नेश्वरानुष्ठितादौ व्यभिचारः । कथम् ? इश्वरकृतग्रंथे मङ्गलाभावेऽपि समाप्तेर्जनितत्वात् । न च निर्विघ्नसमाप्तिकामो मङ्गलमाचरेदिति श्रुतौ समाप्तेरेव कमिपदसम्बन्धात् काम्यत्वमिति प्रत्यक्षाबाध इति वाच्यं, सविशेषेण विधिनिषेधो सति विशेष्ये बाधके विशेषणमुपसङ्कामत इति न्यायाद् विघ्नप्रध्वंसस्यैव मङ्गलकार्यत्वं 'विघ्ना मे कार्ये मा भूयासुः' इति कामयैव क्रियमाणत्वात् मङ्गलस्येत्यादिमतान्यवलोक्य ग्रन्थसमाप्तिर्मङ्गलफलत्वं दर्शयति ॥
ननु नागहीतविशेषणा बुद्धिविशेष्ये उदेतीति न्यायेन विघ्नाभावस्यैव तन्मङ्गलफलत्वमिति चेन्न । समाप्तेर्भावरूपतया लाघवेन च । यदुक्तं
"प्रक्रियालाघवं यत्र तं पक्षं रोचयामहे ।
प्रक्रियागौरवं यत्र तं पक्षं न सहामहे ॥" इति कमिपदसम्बन्धादेव मङ्गलत्वेऽधिगते विघ्नाभावस्यैव प्रतिबन्धकाभावत्वेन कारणत्वक्लृप्तेऽवान्तरव्यापारत्वेन चान्यथासिद्धेः, नागृहीतविशेषणा विशेष्ये बुद्धिरिति न्यायस्य समाप्तिफलत्वेऽपि तुल्यत्वात् । तस्मात् समाप्तेमङ्गलफलत्वमिति ।।
अथ मङ्गललक्षणमाह - प्रत्यूहान्यत्वे सति प्रारिप्सितप्रतिबन्धकनिवृत्त्यसाधारणकारणत्वं