________________
Vol. XIX, 1994-1995 तर्कभाषावार्तिकम्
137 अन्योन्याश्रयापत्तेः। कथमिति चेद, उच्यते । श्रत्या कार्यकारणभावग्रहे तत्र जन्मान्तरीयमङ्गलकल्पनं, जन्मान्तरीयमङ्गलकल्पनेन च कार्यकारणभावग्रह इति । तस्मान्न समाप्तेर्मङ्गलफलत्वमिति । न तावत् श्रुतिर्जन्मान्तरीयमङ्गलावेदिका, किन्तु तर्क एव । कोऽसौ तक ? इयं समाप्तिर्मङ्गलसमवहितकारणाजन्या स्यात् तदाऽजन्यैव स्यात् । दृश्यते च जन्या । तस्मात् मङ्गलसमवहितकारणजन्या स्यादिति विपर्ययपर्यवसानान्ततर्केणाभावमुखेनोत्थानं भावमुखेन पर्यवसानमिति विपर्ययेण पर्यवसानव्यवस्थापनं विपर्ययपर्यवसानं तदन्ते यस्य स तथा स चासौ तर्कश्च स तथा तेनेत्यर्थः । जन्मान्तरीयमङ्गलावेदनात् तत्र श्रुत्या कार्यकारणभावो गृह्यते इति नान्योन्याश्रयत्वं, सैव मङ्गले प्रमाणमिति ॥
ननु सा श्रुतिः प्रत्यक्षा वाऽनुमेया वा ? नाद्य अनुपलम्भात्, न द्वितीयो लिङ्गाभावादिति चेन्न, आचारानु मे यत्वात् । तथा चानुमानं - मङ्गलं वेदबोधितकर्तव्यताकम्, अलौकिकाऽवगीतशिष्टाचारविषयत्वाद दर्शाद्याचारवदिति । तथा चाचारविषयत्वादित्येतावत्युक्ते बौद्धाचारे चैत्यवन्दनादौ व्यभिचार: स्यात् । कथमिति चेत् त्वं शण । बौद्धचैत्यवन्दनं बौद्धाचारविषयोऽस्ति न तु वेदबोधितकर्तव्यताकम् । अतो हेतुरस्ति साध्यं नास्तीति व्यभिचारः । तद्वारणाय शिष्टेति यदुपादीयते । ननु भोः शिष्टत्वं नाम किम् ? वेदत्वोपाधिना स्वरसिकवेदप्रमाणाभ्युपगन्तृत्वं शिष्टत्वमित्यस्य कोऽर्थः ? वेदत्वपुरस्कारेण स्वेच्छया वेदप्रमाण्याङ्गीकर्तृत्वमित्यर्थं । अस्य पदकृत्यानि । गन्तृत्वं शिष्टत्वमित्युक्ते गतिमत् पश्वादावतिव्याप्तिः । कथम् ? तत्र गन्तृत्वमस्ति परं शिष्टत्वाभावः, तन्निरासायोपेति तावत्युक्ते गवा सह गच्छति वत्सादावतिव्याप्तिः । तन्निरासाय यातीति अभ्युपगन्तृत्वं शिष्टत्वमित्युक्ते म्लेच्छादावतिव्याप्तिः । कथम् ? तत्राङ्गीकर्तृत्वमस्ति परं शिष्टत्वं नास्तीति । तन्निरासाय प्रामाण्येति तावत्युक्ते नास्तिकादावतिव्याप्तिः । कथम् ? नास्तिकः प्रत्यक्षप्रमाणमङ्गीकरोति परं शिष्टो न भवतीति । तन्निरासाय वेदेति तावत्युक्ते ताडितबौद्धेऽतिव्याप्तिः । कथम् ? ताडितो बौद्धो वेदाः प्रमाणमिति वक्ति परं शिष्टो न भवतीति तन्निरासाय स्वारसिकेति तावत्युक्ते भ्रान्तबौद्धेऽतिव्याप्तिः । कथम् ? भ्रान्तो बोद्धः स्वेच्छया वेदप्रमाण्यमङ्गीकरोति परं शिष्टो न भवति । तन्निरासाय वेदत्वोपाधिनेति विशेषणम् । तथा च शिष्टाचारविषयत्वादित्युक्ते विश्वामित्रादीनां त्रिशक्वाद्ययाज्यमाने व्यभिचारः । कथम् ? त्रिशङ्कनामा भिल्लस्तेन कारितं याजनमयाज्ययाजनं विशिष्टशिष्टकृतत्वात् शिष्टाचारविषयो, न तु वेदबोधितकर्तव्यताकम् । अतो हेतुरस्ति साधनं नास्तीति व्यभिचारः । तद्वारणायाविगीते ति पदम्। अविगीतत्वं नाम धर्मशास्त्राविरुद्धत्वमनिन्द्यत्वमित्यर्थः । शास्त्राविरुद्धत्वमित्युक्ते वात्स्यायनशास्त्रकार्ये ऽतिव्याप्तिः । कथम् ? भोगभोगासनादिकं शास्त्राविरुद्धं परं धर्मशास्त्रविरुद्धमिति तन्निरासाय धर्मेति तावत्युक्ते शिष्टभोजने व्यभिचारः । कथम् ? शिष्टभोजनमनिन्द्यं न तु वेदबोधितकर्तव्यताकम् । अतो हेतुरस्ति साध्यं नास्तीति व्यभिचारः । तद्वारणायालौकिकेति पदमुपादीयते। अलौकिकत्वं नाम किम् ? शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणबोधितेष्टसाधनताकत्वं लौकिकत्वम् । अस्यार्थं शब्दो वेदः, तदुपजीवीति तदुद्देशेनोद्भावितानि वैदिकान्यनुमानप्रमाणानि, तेभ्योऽतिरिक्तानि लोकिक प्रत्यक्षानुमानोपमानागमप्रमाणानि, तैर्बाधिता ज्ञापिता इष्टसाधनता यस्य तत् तथा । इष्टं क्षुधोपशमनादिकं, तस्य साधनं भोजनादिकं, तस्य भाव इष्टसाधनतेत्यर्थः । अस्य पदकत्यानि। साधनता लौकित्वमित्युक्तेऽनिष्टसाधनेऽहिकण्टकादावतिव्याप्तिः ।