________________
136 नारायण म. कंसारा
SAMBODHI व्यधिकरणत्वमित्यत्र तच्छब्देन घटत्वं तस्याधिकरणं घटः । स एवानधिकरणं यस्य घटत्वस्य तत् तथा । एतावता घटत्वपटत्वयोर्वैयधिकरणमित्यर्थः ।।
सव्यावर्तकिविशेषणं यथा सद्विद्यमानं व्यावर्तकं च यद् भवति तद्विशेषणम् । वीरपुरुषो नीलोत्पलमित्यत्र वीरत्वं कातरेभ्यो, नीलत्वं श्वेतादिभ्यो व्यावृत्तिं जनयति, न हि वीरत्वनीलत्वाभाव इति । असद्व्यावर्तकमुपलक्षणमित्यत्रासदविद्यमानं व्यावर्तकं च यद् भवति तदुपलक्षणं यथा राजपुरुषो दण्डिपुरुष इत्यत्र राज्ञि दण्डे वाऽसत्यविद्यामानेऽप्यन्यपुरुषेभ्यो राजा दण्डश्च व्यावृत्ति जनयतीति, अन्यूनानतिरिक्त वृत्तिधो ऽवच्छेदक इत्यत्र न न्यूना, अन्यूना न अतिरिक्ता अनतिरिक्ता, अन्यूनाश्चानतिरिक्ताश्चान्यूनाऽनतिरिक्ता गवादिपदार्थास्तेषु वर्तते इत्येवंशीलोऽन्यूनानतिरिक्तवृतिः स चासौ धर्मश्चान्यूनानतिरिक्तधर्मोऽवच्छेदको यथा गवि गोत्वं घटे घटत्वमिति । कानिचिदुपयोगिलक्षणान्युक्तानि ।।
अथ पूर्वाचार्यो त्रिविधं मङ्गलं प्रोक्तमस्ति, मानसिकं कायिकं वाचिकं चेति, तच्चेह शास्त्रादौ चोपलभ्यते इत्याशंक्य प्रश्नयति । यथा ननु ग्रन्थारम्भेऽभिमतग्रन्थसमाप्त्यर्थं मङ्गलाचरणं कर्तव्यमिति शिष्टोक्तेः, अयमपि के शवमिश्रः शिष्टो भवति, अतः स्वस्य शिष्टत्वसंरक्षणार्थं प्रमाणप्रयोजनवन्मङ्गलं कर्तव्यं, तदिह न दृश्यते । प्रमाणप्रयोजनवदिति प्रमाणप्रयोजनसहितम् । कोऽर्थं ? मङ्गलकरणे श्रुतिः प्रमाणं समाप्तिः फलं चेत्यर्थः । अथ च श्रोतुः प्रवृत्त्यर्थं विषयप्रपयोजने दर्शनीये । यदुक्तम् -
ज्ञातार्थं ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्तते ।
शास्त्रादौ तेन कर्तव्यः सम्बन्धः सप्रयोजनः ॥१।। इति न्यायात् तयोः प्रवृत्त्यङ्गत्वं लक्ष्यते । इह च तदभावान्नाद्यपद्यावतार इत्याशङ्क्याद्यपद्यावतारिकामारचयति, प्रारिप्सितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थम् । अलौकिकावगीतशिष्टाचारानुमितवेदबोधितकर्तव्यताकं मङ्गलाचरणं कृतं हृद्येव । श्रोतुः प्रवृत्त्यङ्गभूते विषयप्रयोजने निदिशति ।।
बालोऽपि यो न्यायनये प्रवेशमल्पेन वाञ्छत्यलसः श्रुतेन ।
संक्षिप्तयुक्त्यन्विततर्कभाषा प्रकाश्यते तस्य कृते मयैषा ॥१॥ बालइति । तर्कभाषाविषयो बालव्युत्पत्ति प्रयोजनमित्यर्थं । ननु भो निर्विघ्नसमाप्त्यर्थं मङ्गलं कर्तव्यमिति वदता समाप्तेः फलत्वमुक्तमिति च न सम्भवति, अन्वयव्यतिरेकाभ्यां व्यभिचारात्। कृतेऽपि मङ्गले कादम्बर्यादौ समाप्त्यभावाद्, अकृ ते ऽपि मङ्गले प्रमत्तनास्तिकानुष्ठितकर्मसमाप्तिभावादिति चेन्न । तत्रापि जन्मान्तर्रायमङ्गलस्य विद्यमानत्वात् । ननु जन्मान्तरीयमङ्गलस्य कारणतावेदकं कि प्रत्यक्ष वाऽनुमानं वाऽऽगमो वा ? नाद्यः पक्षश्चतुरचेतसां चेतसि चमत्काराविष्करणतां धत्ते, तस्य प्राप्यकारित्वनियमेन जन्मान्तरीयमङ्गलावेदकत्वाभावात् । प्राप्यकारीति प्राप्य करोतीति तत्पुरुषे णित्प्रत्यये च प्राप्यकारिवस्तु प्राप्य प्रकाशयतीत्यर्थं । अथ समाप्तिमङ्गलजन्या समाप्तिक त्वात् क्रियमाणे मङ्गले जन्यमानसमाप्तिवदित्यनुमानं तत्र नास्तिकानुष्ठितकर्मण्यिनुमानमिति द्वितीयपक्षः सोऽप्यनुपपन्नः, उक्तव्यभिचारात् । न तृतीयः,