________________
शुभविजयगणिकृतं ॥ तर्कभाषावार्तिकम् ॥
संपा. नारायण म. कंसारा ॐ नमः सिद्धम् । श्रीगुरुभ्यो नमः ।
[॥ उपोद्घातः ॥] श्रीपार्श्वनाथपादाब्जमभिनोनूय भक्ति तः ।
तन्यते तर्कभाषाया वार्तिकं बालबुद्धये ॥१॥ तत्र बालानां सुखेन शास्त्रप्रवेशार्थमादौ कानिचिल्लक्षणानि लक्षणदोपरहितान्युच्यन्ते । लक्षणे हि तान्येव पदान्युपादेयानि यान्यव्याप्त्यव्याप्त्यसम्भवदोपनिवारकाणि भवेयुरित्युक्तेः, पूर्वं तान्येव दर्शयिष्यामः ॥
अलक्ष्ये लक्षणगमनमतिव्याप्तिः । लक्ष्यैकदेशे लक्षणस्यावर्तनमव्याप्तिः । लक्ष्ये क्वापि लक्षणस्यावर्तनमसम्भवः । उदाहरणानि यथा द्विखुरावत्त्वम् गोत्वमित्यत्र गोर्लक्षणं स्याद् द्विखरावत्त्वम् । तच्चालक्ष्ये महिष्यादो यातीत्यतिव्याप्तिः । शाबलेयत्वं गोत्वमित्यत्र गोर्लक्षणं शाबलेयत्वम् । तच्च लक्ष्यैकदेशे श्वेतगवादौ न यातीत्यव्याप्तिः । एकखुरावत्त्वं गोत्वमित्यत्र गोर्लक्षणमेकखुरावत्त्वम् । तच्च लक्ष्ये गवि क्वापि न यातीत्यसम्भव इति ।।
हेतौ तान्येव पदान्युपादेयानि यानि व्यभिचारदोषनिवारकाणि भवेयुः । स व्यभिचारो द्वेधा । अन्वयव्यभिचारो व्यतिरेकव्यभिचारश्व । तत्र सति सद्भावोऽन्वयो, यथा सति दण्डे घटोत्पत्तिः, असत्यसद्भावो व्यतिरेको यथा दण्डाभावे घटाभावः । ताभ्यां हेतुसत्त्वे साध्यासत्त्वम् । व्यभिचारो यथा । कादम्बर्यादौ मङ्गलहेतौ सति साध्यरूपायाः समाप्ते रसत्त्वेनान्वयव्यभिचार इति । समाप्तिर्मङ्गलजन्या समाप्तित्वादित्यत्र प्रमत्तनास्तिकाद्यनुष्ठितकर्मसमाप्तौ समाप्तित्वे हेतौ सति मङ्गलजन्यत्वं साध्यं मृग्यते, परं मङ्गजन्यत्वमेव साध्यमस्तीति व्यतिरेकव्यभिचार इति । तद्वतित्वे सति तदितरावतित्वमसाधारणधर्मत्वमित्यत्र वर्तते इत्येवंशीलो वी, वतिनो भावो वतित्वम् । तस्मिन् गवि वतित्त्वं तद्वतित्वम् । तस्मिन् तद्वर्तित्वे सति पुनस्तच्छब्देन गौः, तस्मादितरे घटादयः, तेष्ववर्तित्वं तदितरावर्तित्वं, यथा गवि सास्नादिमत्त्वमिति । तज्जन्यत्वे सति तज्जन्यजनकोऽवान्तरव्यापार इत्यत्र तच्छब्देन दण्डस्तेन जन्ये भूमिस्तज्जन्यस्तस्य भावः, तज्जन्यत्वम् तस्मिस्तज्जन्यत्वे सति पुनस्तच्छब्देन दण्डस्तेन जन्यो घटस्तस्य जनको भूमिः, स एवावान्तरव्यापार इति । तद्वति तत्प्रकारकं ज्ञानं यथार्थज्ञानमित्यत्र तच्छब्देन घटत्वं, तद् विद्यते यस्यासौ तद्वान् घटः तस्मिन् तद्वति घटत्ववति घटे पुनस्तच्छब्देन घटत्वं, तदेव प्रकारो यस्मिन् ज्ञाने तत् तत्प्रकारकं ज्ञानमिति तदधिकरणाधिरकरणत्वम् ॥
समानाधिकरणमित्यत्र तच्छब्देन घटत्वं तस्याधिकरणं घटः । य एवाधिकरणं यस्य द्रव्यत्वस्य तत् तथा । एतावता घटत्वद्र व्यत्वयोः समानाधिकरण्यमित्यर्थः । तदधिकरणानधिकरणरत्वं