Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 152
________________ 148 नारायण म. कंसारा SAMBODHI स्वपदमन्यसमवेतघटादिजनक कपालसंयोगादावतिव्याप्तिवारणाय । कथम् ? कपालादे यावत् स्वसमवेतजनकत्वं नास्ति, नापि स्वसमवेतं, यत्किञ्चित् पृथिवीत्वादिजनकत्वं तस्य नित्यत्वात् । किन्तु स्वसमवेतकार्यजनकत्वमेवेति दर्शयितुं कार्यपदं, न तु लक्षणप्रविष्टमिति दिक् ॥ संयोगस्य सुगमस्वस्वरूपत्वात् तमुपेक्ष्य समवायं लक्षयति - [तत्रायुतसिद्धयोः सम्बन्धः समवायः । अन्ययोस्तु संयोग एव ।] तत्रायुतेति । अयुतसिद्धस्य समवाय इत्युक्ते संयोगेऽतिव्याप्तिः । तन्निरासाय द्विवचनान्तम्। पक्षी स्वावयवे नभो विहाय तिष्ठति, नभश्च तदनुत्पत्तिदशायां तत्परिहारेण तिष्ठतीति न पक्षिगगनसंयोगेऽतिव्याप्तिः । सुखं धर्म विहाय गम्यगमनादिस्थले, धर्मश्च सुखं विहाय सुखानुत्पत्तिदशायां तिष्ठतीति युतसिद्धत्वानातिव्याप्तिः सुखधर्मसम्बन्धे । एवं दुःखं तपस्यास्थले पाप विहाय तिष्ठतीत्यादि बोध्यम्॥ 'किञ्च समवायसम्बन्धेनावस्थानं विवक्षितं, तच्च स्वरूपसम्बन्धेनैव भवतीत्यन्योन्याश्रयः, परस्परापेक्षणमन्योन्याश्रय इति वचनात् । अयुतसिद्धत्वं समवायलक्षणं, समवायोऽप्ययुतसिद्ध इत्यात्माश्रयो ऽपि, स्वस्य स्वापे क्षणमात्माश्रय इति वचनात् । न चैतद् दूषणं, जगदाधारितानियामकसंयोगसम्बन्धातिरिक्तसम्बन्धेन वृतिस्तावयुतसिद्धाविति विवक्षितत्वात् । [विनश्यत्ता तुं विनाशकारणसामग्रीसान्निध्यम् ।] विनश्यत्ता त्विति । विनाशकारणसामग्रीसांनिध्यमित्यत्र कारणसामग्नोरन्यतरग्रहणेन विनश्यत्ताया लक्षणद्वयं बोध्यम् । सांनिध्यं विनयश्यत्ते त्युक्ते स्थित्यवस्थायां रासभसांनिध्येऽतिप्रसक्तिः । तन्निरासाय सामग्रीति तावत्युक्ते सकलकारणयोगपद्यम् । सामग्रीति वचनाद् उत्पत्त्यवस्थायां सामग्रीसांनिध्येऽतिप्रसक्तिः । तन्निरासाय विनाशेति । न हि उत्पतिसामग्या विनाश इति नातिव्याप्तिः। अथ द्वितीयलक्षणे सांनिध्ये पूर्ववत् कारणसांनिध्यमित्युक्ते उत्पत्त्यवस्थायां घटेऽतिप्रसक्तिः । तन्निरासाय विनाश इति विनाशकारणसांनिध्यं विनश्यत्तेत्यर्थं । युग मिश्रणामिश्रणयोरित्युक्ते मिश्रितसिद्धयोरपृथक्सिद्धयोरयुतसिद्धयोरित्यर्थं । समवायो द्रव्यगुणकर्म सामान्यविशेषेषु, यथा अवयवायविनो गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्त्योविशेषनित्यद्रव्ययोः । ननु समवायः केन सम्बन्धेन तिष्ठति ? उच्यते, अविनश्यदवस्थायां स्वरूपसम्बन्धेनेति । संयोगोऽपि तदवस्थायां समवायसम्बन्धेन तिष्ठतीति द्वावपि सम्बन्धौ द्विष्ठौ नित्यानित्यौ चेति, सव्यं च सव्येतरं चेति विग्रहः । किन्तु द्रव्यं निर्गुणमेवेति । ननु यथाद्यक्षणे कालादीनां संयोगोऽस्तीति संयोगस्य गुणत्वात् कथं निर्गुणत्वमिति चेत्, न तदानी, तस्य मूर्तत्वाभावादिति, कारणभेदोऽस्ति । नन्वत्र कारणशब्दः सामग्रीवचनोऽनेककारणजन्यस्यापि पटस्यैकत्वदर्शनात् कारणभेदनियतः कार्यभेदो न भवति, किन्तु सामग्रीभेदनियतोऽयं भावो दृश्यमानः कार्यभेदसामग्रीभेदव्याप्ति स्मरन् भेदं गमयति । यथाग्निव्याप्तो धूमोऽग्निमिति । [नन्वेवं सति प्रथमे क्षणे घटोऽचाक्षुषः स्याद्, अरूपिद्रव्यत्वाद् वायुवत् ।] अत्पीति। अरूपित्वादित्युक्ते रूपादावतिप्रसक्तिः । तन्निरासाय द्रव्येति । अद्रव्यत्वादित्युक्ते पटादावतिप्रसक्तिः । तन्निरासायरूपिद्रव्यत्वादिति । तदेव हि द्रव्यं चाक्षुषं यन्महत्त्वे सत्युद्भूतरूपवदिति । अत्र रूपवद्

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182