Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 154
________________ नारायण म. कंसारा 150 SAMBODHI निमित्तकारणलक्षणे किञ्चित्कार्य प्रति समवायिकारणत्वासमवायिकारणत्वराहित्ये सति परिमाण्डल्यादिभिन्नत्वम् । कोऽर्थः ? निमित्तकारणं लक्ष्यं परिमाण्डल्याद्यन्यत्वमिति । एवमन्यदपि सुबुद्धिभिरूह्यम्॥ समवायिकारणं द्रव्यमेव, असमवायिकारणं गुणक्रियें, निमित्तकारणं द्रव्यगुणकर्मादि । भावकार्य स्य त्रीणि कारणानि । अभावस्य निमित्तकारणमेक मेवेति । भावत्वं नाम तत्त्वार्थानुल्लिखितधीविषयत्वमित्यर्थं । [सत्यपि प्रमातरि प्रमेये च, प्रमानुत्पत्तेः, इन्द्रियसंयोगादौ सति अविलम्बेन प्रमोत्पत्तेः, अत इन्द्रियसंयोगादिरेव कारणम् ।] सत्यपीति । इन्द्रियसंयोगस्यादिरिन्द्रयसंयोगादिरिति व्युत्पत्त्या इन्द्रियमेवोक्तेरितिचतुरङ्गस्य व्यापारविशिष्टस्यातिशयं बोधयितुम् इन्द्रियसंयोगादिरित्युक्तं, न त्विन्द्रियमिति ।। न्यायशास्त्रानुसारेण प्रमाणस्य लक्षणमुक्त्वा मीमांसकमताद्यनुसारेण प्रमाणलक्षणं दूपयितुमनुवदति। [ यत्तु 'अनधिगतार्थगन्त प्रमाणम्' इतिलक्षणं, तन्न, एकस्मिन्नेव घटे घटोऽयं घटोऽयमिति धारावाहिकज्ञानानां गृहीतग्राहिणामप्रामाण्यप्रसङ्गात् ।] यत्विति । अनधिगतार्थगन्तृ अज्ञानविषयक यथार्थ ज्ञान करणप्रमाणमित्यर्थः । ननु घटस्यैक त्वेऽपि विशेषणीभूतानां कालकलादिरूपाणामन्यान्यत्वेन तद्विशेषणविशिष्टानि ज्ञानान्यधिगतार्थानि भविष्यन्तीति शङ्कामपाकरोति । [न चान्यान्यक्षणविशिष्ट-विषयीकरणादनधिगतार्थगन्तृता, प्रत्यक्षेण सूक्ष्मकालभेदानाकलनात् ।] न चेति । तत्र हेतुः । सूक्ष्मेति। सूक्ष्मकालभेदग्रहाभ्युपगमे दोषमाह । [कालभेदग्रहे हि क्रियादिसंयोगान्तानां चतुर्णा यौगपद्याभिमानो न स्यात् । क्रिया क्रियातो विभागो, विभागात पूर्वसंयोगनाशः, तत उत्तरसंयोगोत्पत्तिरिति ।] न्यायेन क्रियादिसंयोगान्तानां चतुर्णा, 'पत्रशतं मयाऽतिसूच्या युगपद् भिन्नम्' इति यौगपद्याभिमानः सर्वलोके प्रसिद्धो न स्यादिति ।। [ननु प्रमायाः कारणानि बहुनि सन्ति प्रमातृप्रमेयादीनि । तान्यपि किं करणानि उत नेति ?] प्रमेयादीनीति देवदत्तघटादीनि । आदिशब्दात् प्रदेशोद्योतादीनीति | [ उच्यते । सत्यपि प्रमातरि प्रमेये च, प्रमानुपत्तेरिन्द्रियसंयोगादौ सति अविलम्बेन प्रमोत्पत्तेः, अत इन्द्रियसंयोगादिरेव करणम् ।] संयोगादिरेवेति । इन्द्रियं च इन्द्रियसंयोगश्च तावादौ यस्य स तथोक्तः । आदिशब्दान्निविकल्पकज्ञानादिग्रहः। पुल्लिंगनिर्वाहायार्थशब्दोऽध्याहर्तव्य इति ।। [। प्रत्यक्षम् ।] अथ प्रत्यक्षप्रमाणं लक्षयति । साक्षात्कारिप्रमाकरणं प्रत्यक्षम् इति । प्रमाकरणं प्रत्यक्षप्रमाणमित्युक्ते ऽनुमितिकरणेऽनुमानेऽतिप्रसक्तिः । तन्निरासाय साक्षात्कारीति । शेषं प्राग्वत् । [साक्षात्कारिणी च प्रमा सैवोच्यते या इन्द्रियजा ।] साक्षात्कारिणीति । ननु इन्द्रियजन्यत्वमनुक्तमित्युपमित्यादावप्यस्ति, ज्ञानमात्रस्य मनोजन्यत्वादिति चेन्न, अनुभवानुवृत्तो ज्ञानकरणजन्यज्ञानव्यावृत्तो धर्मविशेषः साक्षात्त्वमिति । ननु साक्षात्त्वं प्रत्यक्षजन्यत्वमुपाधिरात्माश्रयापत्तेः, प्रत्यक्षज्ञाने जन्यसाक्षात्त्वे प्रत्यक्षप्रमाणज्ञानमित्यन्योन्याश्रयपाताच्च । यदिन्द्रियजन्यज्ञानत्वं तदिन्द्रियलक्षणं साक्षात्त्वं जातिघटितम् । तत्र लक्षणे साक्षात्कारिपदं न देयमेवेति । अत एव चेन्द्रियजेति मूलं

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182