Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 151
________________ 147 Vol. XIX, 1994-1995 तर्कभाषावार्तिकम् प्रसङ्गतः कार्यमिपि लक्षयति - यस्य कार्यादित्यादि । उक्त कारणलक्षणे आत्माश्रय इत्यत आह - [अनन्यथासिद्धनियतपश्चाद्भावित्वं कार्यत्वम् ।] अनन्यथासिद्धेति । पश्चादभावित्वं कार्यत्वमित्युक्ते दैवादापन्नमशकादावतिव्याप्तिः । तन्निरासाय नियतेति तावत्युक्ते घटरूपादावतिव्याप्तिः। तन्निरासायान्यथासिद्धेति । नियतं च तत्पश्चाद्भावि वाऽनन्यथासिद्धं च तन्नियतपश्चाद्भावि चेति विग्रहः। मुरारिभट्टयां तु अन्यथासिद्धात् कारणान्नियतपश्चाद्भावीति विग्रहः, अन्यथा घटविशेष प्रति रासभस्य कारणत्वादिति क्रियते यत् तदिति दिक् । बौद्धाधुक्तकारणलक्षणं दूषयितुमनुवदति - [यत्तु कश्चिदाह कार्यानुकृतान्वयव्यतिरेकि कारणमिति, तदयुक्तम्, नित्यविभूनां व्योमादीनां कालतो देशतश्च व्यतिरेकासम्भवेनाकारणत्वप्रसङ्गात् ।] यत्त्विति । कार्येणानकतौ यावन्वयव्यतिरेकौ तौ वर्तेते यस्य तत् कार्यानुकृतान्वयव्यतिरेकि । यदन्वये यदन्वयो यद्व्यतिरेके यद्व्यतिरेकस्तत्कारणमित्यर्थं । कार्यानुकृतान्वयि कारणमित्युक्ते आकाशेऽतिप्रसङ्गः । कथम् ? आकाशन्वये घटान्वयोऽस्त्येव परं शरीरशब्दौ मुक्त्वा घटादिकं प्रति न कारणमिति तन्निरासाय व्यतिरेकीति । अथ कार्यानुकृतव्यतिरेकि कारणमित्युक्ते घटप्रागभावेऽतिप्रसङ्गः । कथम् ? यदव्यतिरेके यव्यतिरेको, घटप्रागभावध्वंसे गन्धप्रागभावध्वंसः, कारणम् । घटप्रागभावव्यतिरेके गन्धप्रागभावव्यतिरेकः । तन्निरासायान्वयीति ।। ननु नित्यविभूनां व्योमादीनां कालतो देशतश्च व्यतिरेकासंभावना, अकारणत्ववप्रसङ्गात्, तदयुक्तमित्युक्तम्, तन्न घटते, व्यतिरेकसम्भवात् । तथाहि भेरीसंयुक्ताकाशे सत्येव शब्दोत्पत्तिर्नान्यत्र । यस्मिन् देशे यस्मिन् काले भेरीसंयुक्ताकाशस्तत्र शब्दोत्पत्तिस्तदाऽन्यत्र व्यतिरेक इत्यर्थः । के चित्त कालादीनामिदानीं जात इत्यादि प्रतीत्याऽकारणत्वं सिध्यति, एवं प्रमाणान्तरेणात्माऽदृष्टादीनामपि कारणत्वं सिध्यति । आकाशस्यापि शरीरकारणत्वं श्रुत्या सिद्धम् । शब्दत्वं तस्य साक्षात्कारादौ तन्मानान्तरसिद्धम्। घटादौ तु तत्कारणत्वे च मानमेव अवश्यकल्प्यमानपूर्ववर्तिन एव कार्यसम्भव तत्सहभूतत्वलक्षणमन्यथासिद्धं चेत्याहुः । इयत्तावच्छिन्नपरिमाणयोगित्वं मूर्तत्वं, सकलमूर्तद्रव्यसंयोगित्वं विभुत्वमित्यर्थः ।। कारणलक्षणं विभजते - [ तच्च कारणं त्रिविधं, समवाय्यसमवायिनिमित्तभेदात् । तत्र यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणम् । यथा तन्तवः पटस्य समवायिकारणम् । यतस्तन्तुष्वेव पटः समवेतो जायते, न तुर्यादिषु ।] तच्चेति । चकारो न्यूनाधिकव्यावृत्त्यर्थं । तत्रेति । तेषु कारणेषु मध्ये प्रधानतया समवायिकारणं लक्ष्यते इत्यर्थः । यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणमित्यत्र यत्समवेतं कार्यं तत्समवायिकारणं, यद्वा यत्समवेतमुत्पद्यते तत्समवायिकारणमिति विकल्पद्वयम् । तत्र पथमविकल्पे पटरूपादावतिप्र सक्तिः, तस्य समवेतकार्यात्मक त्वाद्, आकाशादावव्याप्तिश्च तस्य नित्यत्वेन समवेतकार्यत्वाभावात् । द्वितीयविकल्पेऽप्येतावेव दोषौ स्तः । अथ तन्निरासाय यस्मिन् कार्यमिति तत्पुरुषविधाने चक्रादावतिव्याप्तिः। कथम् ? संयोगसम्बन्धेन घटलक्षणकार्यस्य जायमानत्वात् । तन्निरासाय समवेतमिति पदम् । न हि चक्रादौ घटः समवेत उत्पद्यते, घटश्चक्रयोर्युतसिद्धत्वात्, पृथक् सिद्धत्वात् । अत्र लक्षणे यत्पदस्यान्वयसमर्पकत्वेन सामान्यलक्षणमेवैतद, अतः स्वसमवेतकार्यजनकं समवायिकारणमिति ज्ञेयम् । अत्र

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182