Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 147
________________ Vol. XIX. 1994-1995 तर्कभाषावार्तिकम् 143 प्रमाकरणं प्रमाणमित्यादिलक्षणवाक्ये ऽतिप्रसक्तिः । कथम् ? लक्ष्यलक्षणवाक्यं लक्षणशास्त्रं भवति । ननु तदुदेशशास्त्रम्, अतो मात्रेति केवलं नाममात्रम् । तावत्युक्ते डित्थडवित्थादिशब्देऽतिप्रसक्तिः । तद्वारणाय वस्तुपदम् । तावत्युक्ते अभिधेयेतिप्रसक्तिः । कथमिति चेत्, अभिधेये नाममात्रेण वस्तुसङ्कीर्तनमस्ति परं सर्वत्र वर्तनात् साधारणम् । तर्हि प्रमेयमपि तथैव भविष्यतीति चेन्न तस्य द्वादशे वे व वर्तनात् I तद्वाररणाय असाधारणेति । असाधारण नाममात्रमित्ये वास्तु, सङ्कीर्तनपदमधिकमित्यनुच्चारितेऽतिप्रसक्तिः । तद्वारणाय तस्योपादानं स्फुटार्थत्वाद् वा । तथा चोद्देशलक्षणं सम्पन्नम् ।। लक्षणात्मकं शास्त्र लक्षयति । लक्षणं त्विति । लक्षणमित्यत्र लक्षणात्मकं शास्त्रं लक्ष्यम्, अन्यथाऽसम्भवः स्यात् । नहि पिण्डस्थमेव सास्त्रादिकं गवादेः शास्त्रलक्षणं भवितुमर्हतीति । अथ वचनं लक्षणं शास्त्रमित्युक्ते गौरित्यादिधर्मिवचनेऽतिप्रसक्तिः । तद्द्वारणाय धर्मेति तावत्युक्ते गोर्लक्षणं द्विखुरावत्त्वमिति वाक्येऽतिप्रसक्तिः । कथम् ? द्विखुरावत्त्वं साधारणं, महिष्यादौ वर्तनात् । तद्वारणाय असाधारणेति । तथा च असाधारणधर्मवचनं लक्षणशास्त्रमिति सम्पन्नम् ॥ असाधारणत्वं नाम तन्मात्रवर्तित्वम् । तन्मात्रवर्तित्वं च तद्वर्तित्वे सति तदितरावर्तित्वमिति । केचित्तु यदेव तत्त्वं तदेव लक्षणं तत्त्वं च नाकाशमपीति, असाधारणधर्मत्वमेव लक्षणलक्षणमित्याहुः । न चात्रानवस्था दोषाय, प्रामाणिकत्वात् । कथम् ? घटे घटत्वं घटत्वे घटतात्वं घटतात्वे घटतात्वत्वमित्यनया दिशाऽनवस्थिति: । न चात्रात्मा श्रेयोऽपि दोषाय, प्रामाणिकत्वाद्, भिन्नव्यक्तिकत्वाच्च । [ घटोऽयं पटोऽयमितिवद् भिन्नव्यक्तिकत्वम् ।] कथम् ? लक्षणस्य लक्षणापेक्षत्वेन स्वस्य स्वापेक्षणमात्माश्रय इत्युक्तेरात्माश्रय इति यथालक्षितस्येति ॥ अत्रोद्देशलक्षणपरीक्षाफलानां परीक्षा यदि लक्ष्यते तदा शास्त्रस्थो विचारः परीक्षेत्येव लक्षणम् । यदि लक्षणपरीक्षैव लक्ष्यते तदा यथालक्षितस्येत्यादि परीक्षालक्षणम् । तावता लक्षणविषयो विचारो लक्षणपरीक्षेति तदर्थं । एवमुद्देशविषयको विचारः उद्देशपरीक्षा । फलविषयको विचारः फलपरीक्षा । परीक्षाविषयको विचारः परीक्षापरीक्षेत्याद्यवगन्तव्यम् । न च परीक्षापरीक्षायामनवस्था यथाविप्रतिपत्ति परीक्षाकरणात् । यथाविप्रतिपत्तीति विप्रतिपत्तिमनतिक्रम्य करोतीति यथाविप्रतिपत्ति, तेनेति । अस्मिन्नेव सूत्रे उद्देशस्योक्तत्वेन लक्षणपरीक्षे एव कर्तव्य इत्यर्थः ॥ [ ॥ प्रमाणानि ॥ ] तत्रेति । इतरपदार्थानां प्रमाणाधीनसिद्धिकत्वेन प्रमाणस्य गरीयस्त्वात् प्रमाणमेवादौ लक्षयति प्रमाकरणमिति । प्रमीयते परिच्छिद्यते या सा प्रमा । क्रियते अनेनेति करणमिति करणव्युत्पत्तिराश्रयणीया । ननु भावव्युत्पत्तिः प्रमायाः करणं प्रमाकरणमित्यत्र करणं प्रमाणमित्युक्ते च्छिदाकरणे कुठारे ऽतिप्रसक्तिः । तन्निरासाय मेति माकरणमित्युक्ते भ्रमज्ञानकरणे दोषदुष्टेन्द्रियेऽतिव्याप्तिः । तन्निरासाय प्रमेति । प्रमा नाम यथार्थानुभवः । यथार्थ इत्ययथार्थानां संशयविपर्ययतर्क ज्ञानानां निरासः । तद्वति तत्प्रकारकं ज्ञानं यथार्थज्ञानम् । स्मृतिव्यतिरिक्तं ज्ञानमनुभवः । अथ प्रः प्रमाणमित्युक्ते, असम्भवं नहि प्रत्वं कस्मिंश्चिदपि प्रमाणेऽस्तीति । तन्निरासाय । प्रमा प्रमाणमित्युक्ते चक्षुरादावव्याप्तिः, अनुमित्यादौ चातिव्याप्तिः । तन्निरासाय करणमिति

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182