Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 145
________________ Vol. XIX. 1994-1995 तर्कभाषावार्तिकम् 141 विवक्षितमित्ये कवचनम् । अर्थनिर्देशमादाय संशये ऽपि बहुवचनं तेषां निरपेक्षतया न्यायप्रवृत्त्युपयोगित्वात् । प्रयोजने विशेषलक्षणानुसारेण द्विवचनम् । दृष्टान्तेऽपि विशेषलक्षणानुसंधानेन द्विवचनं, तयोरुदाहरणे परस्परनैरपेक्ष्याद्, अन्वयव्यतिरेकिणस्तस्यैतयोरेकत्र प्रयोगेऽनुचितत्वात्, तस्यैकत्र प्रयोजनाभावाद् अन्यथाऽधिकनिग्रहापत्तेः । सिद्धान्तेऽपि स्वप्रयोजने नैरपेक्ष्यमेवेति बहुवचनम् । अवयवानां संभूयैकार्थप्रतिपादकत्वेऽवान्तरार्थभेदसूचनाय बहुवचनम् । तर्क निर्णययोरेकैकप्रयोजनत्वात् एकवचनम् । वादजल्पवितण्डानां तथैव । हेत्वाभासादिषु स्वव्यापारे परस्परनैरपेक्ष्याद् बहुवचनम् । अत एव 'निर्देशे यथावचनं विग्रहः' इति भाष्यम् । तस्यार्थो यदेव निर्देशे वचनभेदोपादानप्रयोजनं तदेवात्रापीति द्रष्टव्यमित्यादि त्रिसूत्रीतत्त्वबोधादौ सुप्रसिद्धम् ।। तत्त्वज्ञानादिति । तत्त्वं ज्ञायते ऽ ते ने ति तत्त्वज्ञानं शास्त्रं, तस्मादित्यर्थं । तथा च शास्त्रतत्त्वज्ञानाभ्यां व्यापारिव्यापारभावापन्नाभ्यां समानाधिकरणदुःखसमानकालीनभिन्नदुःखध्वंसलक्षणो मोक्षः । ध्वंसो मोक्ष इत्युक्ते घटध्वंसे ऽतिव्याप्तिः । तन्निरासाय दु:खेति । तथाप्यस्मदाद्यधिकरणकदुःखध्वंसेऽतिव्याप्तिः । कथम् ? अस्मदादीनामप्यतीतकालीनदुःखध्वंसस्य विद्यमानात् । तन्निरासाय दुःखसमानकालीनभिन्नेति । अत्र भिन्नेति पदं दु:खध्वंसविशेषणतयोपात्तम् । कथम् ? दुःखेन सह समानकालीनो यो दुःखध्वंसः तस्माद् भिन्नो व्यतिरिक्तो यो दु:खध्वंस इत्यर्थः । अस्मदादिषु प्रत्युत्पन्नदुःखसमानकालीनातीतदुःखध्वंसस्यैव विद्यमानत्वात् ततो न भिन्नत्वं दुःखस्येति नातिव्याप्तिः तावत्युक्ते व्यधिकरणदुःखमादायासम्भवः । कथम् ? अस्मदादुःखसमानकालीनस्यैव मुक्तानां दुःखध्वंसस्य विद्यमानत्वमित्यसम्भवः । तन्निरासाय दुःखविशेषणत्वेन समानाधिकरणेति पदम् । अस्यार्थः - लक्ष्यो लक्षणयोग्यो यो मुक्तात्मगतो दुःखध्वंसस्तेन समानाधिकरणं यद् दुःखं, तेन समानकालीनो यो दुःखध्वंसः संसारावस्थायां स मुक्तात्मगत एव, तस्मादभिन्नो यो दुःखध्वंसः स तु मुक्तानामेवेति । तथा चैतत् सम्पन्नं - लक्ष्यदुःखध्वंसाधिकरणकदुःखसमानाधिकरणदुःखसमकालीनदुःख-ध्वंसभिन्नदुःखध्वंसलक्षणो मोक्षः साध्यत इत्यत्र तात्पर्यम् । तत्त्वलक्षणणाह - स्वाश्रयप्रतियोगिकान्योन्याभावासमानाधिकरणधर्मवत्त्वं तत्त्वम् । अस्य पदकृत्यानि। धर्मस्तत्त्वमित्युच्यमाने संयुक्तसमवायेन जले विद्यमानो गन्धः समवायेन तत्त्वं स्यात् पूर्वकालावच्छेदेन घटे विद्यमानं श्यामं रूपं रक्तकालावच्छेदेन तत्त्वं स्यात् । तदुभयवारणार्थ यत्सम्बन्धपुरस्कारेण यदवच्छेदेन यो यस्य धर्मस्तत्सम्बन्धपुरस्कारेण तदवच्छेदेन स तस्य तत्त्वमिति बोधनार्थं धर्मतत्त्वं तत्त्वं तावत्युक्ते घटवर्तिप्रमेयत्ववत् तस्यापि घटतत्त्वताप्रसङ्गः । अत उक्तम् - असमानाधिकरणेति । तावत्युक्ते जलेन सहासमानाधिकरणं यत् पृथिवीतत्त्वं तत् तद्वत्त्वस्यापि घटतत्त्वता भवेत् । अतोऽभावेति । तथापि घटप्रतियोगिकात्यन्ताभावमादायासम्भवः स्वस्मिन् स्वावृत्तेरिति न्यायात् घटवर्तिघटप्रतियोगिकात्यन्ताभावेन सह घटत्वस्यासमानाधिकरण्याभावात् । अतोऽन्योन्येति । तथापि घटवर्तिपटप्रतियोगिकाऽन्योन्याभावमादायासम्भवस्तेन स्वाश्रयेति । अस्यार्थ:-स्वं घटत्त्वं, तस्याश्रयो घटः, तत्प्रतियोगिकोऽन्योन्याभावः, तेन समानाधिकरणो धर्मो घटत्वं, तद्वत्त्वं तत्त्वमित्यत्र पदकृत्य विस्तरो ग्रन्थान्तरादवसेयः ।।

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182