Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 144
________________ 140 नारायण म. कंसारा SAMBODHI इत्युक्ते मूकवाक्येऽतिव्याप्तिः। तन्निरासाय बोधकेति तावत्युक्ते 'घटमानय' इत्यादिवाक्येऽतिव्याप्तिः। तन्निरासाय लिङ्गेति। लिङ्गबोधकवाक्यं न्याय इत्युक्ते 'तप्तायोगोलको वह्निमान् धूमाद्' इत्यादि लिङ्गबोधकवाक्येऽतिव्याप्तिः । अतः पक्षधर्मत्वोपे तेति पदमुपादीयते तदातिव्याप्तिर्वसिता । यतस्तप्तायोगोलके पक्षधर्मत्वं धूमवत्त्वं नास्ति तावत्युक्ते 'पर्वतोऽयं वह्निमान् धूमात्, यथाऽयोगोलके' इत्यादावतिव्याप्तिः । तन्निरासाय सपक्षे सत्त्वमित्युपादीयते तावत्युक्ते 'पर्वतोऽयं धूमवान् वः, यथा सपक्षो महानसं, विपक्षस्तप्तायो गोलक इत्यादावतिव्याप्तिः । कथम् ? तत्र वह्निहें तुर्वर्तते । व्यावृत्तिम॑ग्यतेऽतो विपक्षव्यावृत्तिरिति पदं तावत्युक्ते तथायोगोलको धूमवान् वह्निनेर्यथा महानसम्' इत्यादावतिव्याप्तिः । तन्निरासाय 'अबाधितविषयत्वम्' इति तप्तायोगोलके धूमवत्त्वं विषयत्वं साध्यं प्रत्यक्षेण बाधितं तावत्युक्ते 'अनित्यः शब्दो नित्यधर्मरहितत्वाद्' इत्यादावतिव्याप्तिः । कथम् ? यथा 'नित्यधर्मरहितत्वाद्' इति हेतुनाऽनित्यत्वं साधितं तथा 'अनित्यधर्मरहितत्वाद्' इति हेतुना नित्यत्वमपि साध्यते। अतोऽसत्प्रतिपक्षत्वम्। तथा च पक्षधर्मत्वसपक्षसत्त्वविपक्षाव्यावृत्त्यबाधितविषयत्वाऽसप्रतिपक्षत्वलक्षणपञ्चरूपोपेतलिङ्गबोधकवाक्यं, न्यायसूत्रप्रधानो नयो न्यायनयः । यद्वा नीयते प्राप्यते विवक्षितोऽनेनेति न्यायो युक्तिस्वरूपः, तत्प्रधानो नयः शास्त्रं न्यायनयस्तस्मिन्नित्यर्थः ।। नन्वन्येऽपि चिन्तामण्यादयो ग्रंथाः सन्तीति, तत्र कि प्रवेशं न वाञ्छतीत्याशङ्कयाह - अल्पेन श्रुतेन। श्रवणेनाध्ययनेनेत्यर्थं । अल्पाध्ययनं कुतः ? अलसः । आलस्यवानित्यर्थं । तत्र त्वस्य चिरनातिविततगहनगम्भीरप्रकरणानर्हस्यात्रापि विस्तरत्वात् कथं प्रवेशो भावीत्यत्यत आह - संक्षिप्तयुक्तीति । हे अन्वित हे सुबुद्धे संक्षिप्तयुक्ति यथा स्यात् तथेति । तथा चास्य क्रियाविशेषणत्वेन 'क्रियान्वयि प्रधानम्' इति न्यायात् प्राधान्यमेव । ननु संक्षिप्तयुक्त्यन्विता चासौ तर्क भाषा चेति विग्रहे को दोष इति चेद्, उच्यते । युक्तीनां तर्क भाषाविशेषणत्वेन साक्षाक्रियान्वयित्वाभावाद् अप्रधान्यं स्यान्, न्यायशास्त्रे च युक्तीनां प्राधान्यमेव मृग्यते । तथा चाविमृष्टविधेयांशदोषः । संक्षिप्ता चासौ युक्त्यन्विततर्क भाषा चेतिविग्रहे तु पूर्वापरविरोधोऽपि स्यात् । कथम् ? चत्वार्येव प्रमाणानि युक्तिलेशोक्तिपूर्वकं केशवो बालबोधाय यथाशास्त्रमवर्णयन् इत्यत्र संक्षेपो युक्तानां प्रोचे ॥ अत्र च तर्कभाषाया इति पूर्वापरविरोधः । तथा च संक्षिप्ता युक्तयो यस्यां सा संक्षिप्तयुक्तिः । अन्विताकाक्षादिदोषरहिता एवंविधा वाऽसौ तर्कभापा चेति विग्रहेऽन्यपदप्राधान्यात् पूर्वदोपस्तदवस्थ एव । तस्मात् पूर्वव्यारव्यानमेव श्रेयः । कस्यचिन् मते संक्षिप्य युक्त्यन्विततर्कभाषेति पाठः कर्तव्यः । तथा च न कोऽपि दोषावकाशो, यतः संक्षिप्येत्यव्ययेन युक्त्यन्वितेति तर्कभाषाविशेषणेन च शब्दसंक्षेपस्य युक्तिबाहुल्यस्य च दर्शनादत्र प्रकों ऽपि दर्शित इत्यवधार्यम् । इति प्रथमवृत्तव्याख्यानम् ॥१॥ अथ षोडशपदार्थोद्देशमाह । ['प्रमाणादिषोडशपदार्थानां तत्त्वज्ञानान्मोक्षप्राप्तिर्भवति' इति] प्रमाणेति। प्रमाणानि च प्रमेयं च संशयाश्च प्रयोजने च दृष्टान्तौ च सिद्धान्ताश्चावयवाश्च तर्कश्च निर्णयश्च वादश्च जल्पश्च वितण्डा च हेत्वाभासाश्च फलानि च जातयश्च निग्रहस्थानानि च तेषाम् । अत्र सूत्रे सर्वेषां पदार्थानां प्राधान्यस्य विवक्षित्वाद् द्वन्द्वसमासः, तत्पुरुपपरिग्रहे प्रधान्यानुपपत्तेः, द्विग्वव्ययीभावयोरेतादृशपाठाभावात्, बहुव्रीहिकर्मधारययोविरोधाच्च । प्रमाणेषु बहुवचनमन्योन्यनिरपेक्षत्वेन प्रमाहेतुत्वस्य विवक्षितत्वात् । प्रमेयेषु प्रत्येकं प्रमेयत्वेऽपि समुदायपर्यवसायिन्येव प्रमेयत्वं

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182