Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 142
________________ 138 नारायण म. कंसारा SAMBODHI कथम् ? तत्र लौकिकानां प्रवृत्तेरभावात् । तन्निरासायेष्टेति तावत्युक्ते दर्शाद्याचारेऽतिव्याप्तिः । दर्शाद्याचार इष्टसाधनं परमलौकिकमिति तन्निरासायातिरिक्तप्रमाणबोधितेति तावत्युक्ते ईश्वरेऽतिव्याप्तिः । कथम् ? अलौकिक प्रमाणबोधितेष्टसाधनाक त्वं लौकिक त्वम्, ईश्वरस्त्वलौकिक इति। तन्निरासाय शब्दतदुपजीविप्रमाणे ति तावत्युक्ते लौकि कलक्षणसम्पन्नं तदभावोऽलौकिक - त्वमैहिकगोचरप्रमाणाविषयत्वम् । भोजनं प्रत्यक्षसिद्धिमिति न तत्र व्यभिचारः । विषयपदं त्वसिद्धिवारणार्थमिति न व्यर्थम् । कथम् ? ज्ञानेच्छाप्रयत्नानां सविषयत्वाक्रमभावित्वाच्चेत्युक्तेः । प्रयत्नस्योद्यमस्य सन्ध्यावन्दनादिशिष्टाचारो विषयो भवतीति विषयपदमसिद्धतावारणार्थमित्यर्थः । शिष्टस्याचारस्तस्य विषयः । अलौकिकश्चासावविगीतश्चासौ शिष्टाचारविषयश्चेति समासादिति हेत्वर्थः । तथा च वेदेन बोधिता कर्तव्यता यस्य मंगलस्य तच्छेषाद् विभाषेति कविवेदबोधितव्यताकमिति समासेन निर्विघ्नसमाप्तिकामो मङ्गलमाचरेदित्याचारानुमितवेदबोधितकर्तव्यता बोध्येति इति साध्यार्थः । इति मङ्गले प्रमाणमसूचि ।। अथ तत्फलमाह । न तु मणिकारमते मङ्गलस्य विघ्नध्वंसं प्रति कारणत्वं, विघ्नध्वंसस्य समाप्ति प्रति कारणत्वमिति । शिरोमणिमते मङ्गलस्यविघ्नध्वंसस्य प्रति कारणत्वं, विघ्नध्वंसस्यादृष्टं प्रति कारणत्वम्, अदृष्टस्य समाप्ति प्रति कारणत्वमिति । माधवसरस्वतीमते मङ्गलस्य विघ्नध्वंसं प्रति कारणत्वं, विघ्नध्वंसः कार्यं न वा । अत्राऽन्वयव्यतिरेकाभ्यां व्यभिचारो यावत् । मङ्गलं तावद विघ्नध्वंसाङ्गीकारात्, जन्मान्तरीयमङ्गलकल्पनान्वेति । समाप्तिस्तु प्रतिबन्धकदुरितध्वंससहकृतलोकावगतस्वकारणादेव, यथा कारीरयोगेनावग्रहध्वंसे वृष्टिः, अनुकूलवातादि- स्वकारणाद् भवति, तद्वत् । क्वचित् समाप्त्यभावो विघ्नभूयस्त्वाद् अनन्तरोत्पन्नविघ्नान्तराद् वेति ॥ केषांचिन्मते विघ्नध्वंसं प्रति मङ्गलस्य कारणत्वं, न समाप्तिः प्रति । तेन नेश्वरानुष्ठितादौ व्यभिचारः । कथम् ? इश्वरकृतग्रंथे मङ्गलाभावेऽपि समाप्तेर्जनितत्वात् । न च निर्विघ्नसमाप्तिकामो मङ्गलमाचरेदिति श्रुतौ समाप्तेरेव कमिपदसम्बन्धात् काम्यत्वमिति प्रत्यक्षाबाध इति वाच्यं, सविशेषेण विधिनिषेधो सति विशेष्ये बाधके विशेषणमुपसङ्कामत इति न्यायाद् विघ्नप्रध्वंसस्यैव मङ्गलकार्यत्वं 'विघ्ना मे कार्ये मा भूयासुः' इति कामयैव क्रियमाणत्वात् मङ्गलस्येत्यादिमतान्यवलोक्य ग्रन्थसमाप्तिर्मङ्गलफलत्वं दर्शयति ॥ ननु नागहीतविशेषणा बुद्धिविशेष्ये उदेतीति न्यायेन विघ्नाभावस्यैव तन्मङ्गलफलत्वमिति चेन्न । समाप्तेर्भावरूपतया लाघवेन च । यदुक्तं "प्रक्रियालाघवं यत्र तं पक्षं रोचयामहे । प्रक्रियागौरवं यत्र तं पक्षं न सहामहे ॥" इति कमिपदसम्बन्धादेव मङ्गलत्वेऽधिगते विघ्नाभावस्यैव प्रतिबन्धकाभावत्वेन कारणत्वक्लृप्तेऽवान्तरव्यापारत्वेन चान्यथासिद्धेः, नागृहीतविशेषणा विशेष्ये बुद्धिरिति न्यायस्य समाप्तिफलत्वेऽपि तुल्यत्वात् । तस्मात् समाप्तेमङ्गलफलत्वमिति ।। अथ मङ्गललक्षणमाह - प्रत्यूहान्यत्वे सति प्रारिप्सितप्रतिबन्धकनिवृत्त्यसाधारणकारणत्वं

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182