Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 141
________________ Vol. XIX, 1994-1995 तर्कभाषावार्तिकम् 137 अन्योन्याश्रयापत्तेः। कथमिति चेद, उच्यते । श्रत्या कार्यकारणभावग्रहे तत्र जन्मान्तरीयमङ्गलकल्पनं, जन्मान्तरीयमङ्गलकल्पनेन च कार्यकारणभावग्रह इति । तस्मान्न समाप्तेर्मङ्गलफलत्वमिति । न तावत् श्रुतिर्जन्मान्तरीयमङ्गलावेदिका, किन्तु तर्क एव । कोऽसौ तक ? इयं समाप्तिर्मङ्गलसमवहितकारणाजन्या स्यात् तदाऽजन्यैव स्यात् । दृश्यते च जन्या । तस्मात् मङ्गलसमवहितकारणजन्या स्यादिति विपर्ययपर्यवसानान्ततर्केणाभावमुखेनोत्थानं भावमुखेन पर्यवसानमिति विपर्ययेण पर्यवसानव्यवस्थापनं विपर्ययपर्यवसानं तदन्ते यस्य स तथा स चासौ तर्कश्च स तथा तेनेत्यर्थः । जन्मान्तरीयमङ्गलावेदनात् तत्र श्रुत्या कार्यकारणभावो गृह्यते इति नान्योन्याश्रयत्वं, सैव मङ्गले प्रमाणमिति ॥ ननु सा श्रुतिः प्रत्यक्षा वाऽनुमेया वा ? नाद्य अनुपलम्भात्, न द्वितीयो लिङ्गाभावादिति चेन्न, आचारानु मे यत्वात् । तथा चानुमानं - मङ्गलं वेदबोधितकर्तव्यताकम्, अलौकिकाऽवगीतशिष्टाचारविषयत्वाद दर्शाद्याचारवदिति । तथा चाचारविषयत्वादित्येतावत्युक्ते बौद्धाचारे चैत्यवन्दनादौ व्यभिचार: स्यात् । कथमिति चेत् त्वं शण । बौद्धचैत्यवन्दनं बौद्धाचारविषयोऽस्ति न तु वेदबोधितकर्तव्यताकम् । अतो हेतुरस्ति साध्यं नास्तीति व्यभिचारः । तद्वारणाय शिष्टेति यदुपादीयते । ननु भोः शिष्टत्वं नाम किम् ? वेदत्वोपाधिना स्वरसिकवेदप्रमाणाभ्युपगन्तृत्वं शिष्टत्वमित्यस्य कोऽर्थः ? वेदत्वपुरस्कारेण स्वेच्छया वेदप्रमाण्याङ्गीकर्तृत्वमित्यर्थं । अस्य पदकृत्यानि । गन्तृत्वं शिष्टत्वमित्युक्ते गतिमत् पश्वादावतिव्याप्तिः । कथम् ? तत्र गन्तृत्वमस्ति परं शिष्टत्वाभावः, तन्निरासायोपेति तावत्युक्ते गवा सह गच्छति वत्सादावतिव्याप्तिः । तन्निरासाय यातीति अभ्युपगन्तृत्वं शिष्टत्वमित्युक्ते म्लेच्छादावतिव्याप्तिः । कथम् ? तत्राङ्गीकर्तृत्वमस्ति परं शिष्टत्वं नास्तीति । तन्निरासाय प्रामाण्येति तावत्युक्ते नास्तिकादावतिव्याप्तिः । कथम् ? नास्तिकः प्रत्यक्षप्रमाणमङ्गीकरोति परं शिष्टो न भवतीति । तन्निरासाय वेदेति तावत्युक्ते ताडितबौद्धेऽतिव्याप्तिः । कथम् ? ताडितो बौद्धो वेदाः प्रमाणमिति वक्ति परं शिष्टो न भवतीति तन्निरासाय स्वारसिकेति तावत्युक्ते भ्रान्तबौद्धेऽतिव्याप्तिः । कथम् ? भ्रान्तो बोद्धः स्वेच्छया वेदप्रमाण्यमङ्गीकरोति परं शिष्टो न भवति । तन्निरासाय वेदत्वोपाधिनेति विशेषणम् । तथा च शिष्टाचारविषयत्वादित्युक्ते विश्वामित्रादीनां त्रिशक्वाद्ययाज्यमाने व्यभिचारः । कथम् ? त्रिशङ्कनामा भिल्लस्तेन कारितं याजनमयाज्ययाजनं विशिष्टशिष्टकृतत्वात् शिष्टाचारविषयो, न तु वेदबोधितकर्तव्यताकम् । अतो हेतुरस्ति साधनं नास्तीति व्यभिचारः । तद्वारणायाविगीते ति पदम्। अविगीतत्वं नाम धर्मशास्त्राविरुद्धत्वमनिन्द्यत्वमित्यर्थः । शास्त्राविरुद्धत्वमित्युक्ते वात्स्यायनशास्त्रकार्ये ऽतिव्याप्तिः । कथम् ? भोगभोगासनादिकं शास्त्राविरुद्धं परं धर्मशास्त्रविरुद्धमिति तन्निरासाय धर्मेति तावत्युक्ते शिष्टभोजने व्यभिचारः । कथम् ? शिष्टभोजनमनिन्द्यं न तु वेदबोधितकर्तव्यताकम् । अतो हेतुरस्ति साध्यं नास्तीति व्यभिचारः । तद्वारणायालौकिकेति पदमुपादीयते। अलौकिकत्वं नाम किम् ? शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणबोधितेष्टसाधनताकत्वं लौकिकत्वम् । अस्यार्थं शब्दो वेदः, तदुपजीवीति तदुद्देशेनोद्भावितानि वैदिकान्यनुमानप्रमाणानि, तेभ्योऽतिरिक्तानि लोकिक प्रत्यक्षानुमानोपमानागमप्रमाणानि, तैर्बाधिता ज्ञापिता इष्टसाधनता यस्य तत् तथा । इष्टं क्षुधोपशमनादिकं, तस्य साधनं भोजनादिकं, तस्य भाव इष्टसाधनतेत्यर्थः । अस्य पदकत्यानि। साधनता लौकित्वमित्युक्तेऽनिष्टसाधनेऽहिकण्टकादावतिव्याप्तिः ।

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182