Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 140
________________ 136 नारायण म. कंसारा SAMBODHI व्यधिकरणत्वमित्यत्र तच्छब्देन घटत्वं तस्याधिकरणं घटः । स एवानधिकरणं यस्य घटत्वस्य तत् तथा । एतावता घटत्वपटत्वयोर्वैयधिकरणमित्यर्थः ।। सव्यावर्तकिविशेषणं यथा सद्विद्यमानं व्यावर्तकं च यद् भवति तद्विशेषणम् । वीरपुरुषो नीलोत्पलमित्यत्र वीरत्वं कातरेभ्यो, नीलत्वं श्वेतादिभ्यो व्यावृत्तिं जनयति, न हि वीरत्वनीलत्वाभाव इति । असद्व्यावर्तकमुपलक्षणमित्यत्रासदविद्यमानं व्यावर्तकं च यद् भवति तदुपलक्षणं यथा राजपुरुषो दण्डिपुरुष इत्यत्र राज्ञि दण्डे वाऽसत्यविद्यामानेऽप्यन्यपुरुषेभ्यो राजा दण्डश्च व्यावृत्ति जनयतीति, अन्यूनानतिरिक्त वृत्तिधो ऽवच्छेदक इत्यत्र न न्यूना, अन्यूना न अतिरिक्ता अनतिरिक्ता, अन्यूनाश्चानतिरिक्ताश्चान्यूनाऽनतिरिक्ता गवादिपदार्थास्तेषु वर्तते इत्येवंशीलोऽन्यूनानतिरिक्तवृतिः स चासौ धर्मश्चान्यूनानतिरिक्तधर्मोऽवच्छेदको यथा गवि गोत्वं घटे घटत्वमिति । कानिचिदुपयोगिलक्षणान्युक्तानि ।। अथ पूर्वाचार्यो त्रिविधं मङ्गलं प्रोक्तमस्ति, मानसिकं कायिकं वाचिकं चेति, तच्चेह शास्त्रादौ चोपलभ्यते इत्याशंक्य प्रश्नयति । यथा ननु ग्रन्थारम्भेऽभिमतग्रन्थसमाप्त्यर्थं मङ्गलाचरणं कर्तव्यमिति शिष्टोक्तेः, अयमपि के शवमिश्रः शिष्टो भवति, अतः स्वस्य शिष्टत्वसंरक्षणार्थं प्रमाणप्रयोजनवन्मङ्गलं कर्तव्यं, तदिह न दृश्यते । प्रमाणप्रयोजनवदिति प्रमाणप्रयोजनसहितम् । कोऽर्थं ? मङ्गलकरणे श्रुतिः प्रमाणं समाप्तिः फलं चेत्यर्थः । अथ च श्रोतुः प्रवृत्त्यर्थं विषयप्रपयोजने दर्शनीये । यदुक्तम् - ज्ञातार्थं ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन कर्तव्यः सम्बन्धः सप्रयोजनः ॥१।। इति न्यायात् तयोः प्रवृत्त्यङ्गत्वं लक्ष्यते । इह च तदभावान्नाद्यपद्यावतार इत्याशङ्क्याद्यपद्यावतारिकामारचयति, प्रारिप्सितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थम् । अलौकिकावगीतशिष्टाचारानुमितवेदबोधितकर्तव्यताकं मङ्गलाचरणं कृतं हृद्येव । श्रोतुः प्रवृत्त्यङ्गभूते विषयप्रयोजने निदिशति ।। बालोऽपि यो न्यायनये प्रवेशमल्पेन वाञ्छत्यलसः श्रुतेन । संक्षिप्तयुक्त्यन्विततर्कभाषा प्रकाश्यते तस्य कृते मयैषा ॥१॥ बालइति । तर्कभाषाविषयो बालव्युत्पत्ति प्रयोजनमित्यर्थं । ननु भो निर्विघ्नसमाप्त्यर्थं मङ्गलं कर्तव्यमिति वदता समाप्तेः फलत्वमुक्तमिति च न सम्भवति, अन्वयव्यतिरेकाभ्यां व्यभिचारात्। कृतेऽपि मङ्गले कादम्बर्यादौ समाप्त्यभावाद्, अकृ ते ऽपि मङ्गले प्रमत्तनास्तिकानुष्ठितकर्मसमाप्तिभावादिति चेन्न । तत्रापि जन्मान्तर्रायमङ्गलस्य विद्यमानत्वात् । ननु जन्मान्तरीयमङ्गलस्य कारणतावेदकं कि प्रत्यक्ष वाऽनुमानं वाऽऽगमो वा ? नाद्यः पक्षश्चतुरचेतसां चेतसि चमत्काराविष्करणतां धत्ते, तस्य प्राप्यकारित्वनियमेन जन्मान्तरीयमङ्गलावेदकत्वाभावात् । प्राप्यकारीति प्राप्य करोतीति तत्पुरुषे णित्प्रत्यये च प्राप्यकारिवस्तु प्राप्य प्रकाशयतीत्यर्थं । अथ समाप्तिमङ्गलजन्या समाप्तिक त्वात् क्रियमाणे मङ्गले जन्यमानसमाप्तिवदित्यनुमानं तत्र नास्तिकानुष्ठितकर्मण्यिनुमानमिति द्वितीयपक्षः सोऽप्यनुपपन्नः, उक्तव्यभिचारात् । न तृतीयः,

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182