Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 139
________________ शुभविजयगणिकृतं ॥ तर्कभाषावार्तिकम् ॥ संपा. नारायण म. कंसारा ॐ नमः सिद्धम् । श्रीगुरुभ्यो नमः । [॥ उपोद्घातः ॥] श्रीपार्श्वनाथपादाब्जमभिनोनूय भक्ति तः । तन्यते तर्कभाषाया वार्तिकं बालबुद्धये ॥१॥ तत्र बालानां सुखेन शास्त्रप्रवेशार्थमादौ कानिचिल्लक्षणानि लक्षणदोपरहितान्युच्यन्ते । लक्षणे हि तान्येव पदान्युपादेयानि यान्यव्याप्त्यव्याप्त्यसम्भवदोपनिवारकाणि भवेयुरित्युक्तेः, पूर्वं तान्येव दर्शयिष्यामः ॥ अलक्ष्ये लक्षणगमनमतिव्याप्तिः । लक्ष्यैकदेशे लक्षणस्यावर्तनमव्याप्तिः । लक्ष्ये क्वापि लक्षणस्यावर्तनमसम्भवः । उदाहरणानि यथा द्विखुरावत्त्वम् गोत्वमित्यत्र गोर्लक्षणं स्याद् द्विखरावत्त्वम् । तच्चालक्ष्ये महिष्यादो यातीत्यतिव्याप्तिः । शाबलेयत्वं गोत्वमित्यत्र गोर्लक्षणं शाबलेयत्वम् । तच्च लक्ष्यैकदेशे श्वेतगवादौ न यातीत्यव्याप्तिः । एकखुरावत्त्वं गोत्वमित्यत्र गोर्लक्षणमेकखुरावत्त्वम् । तच्च लक्ष्ये गवि क्वापि न यातीत्यसम्भव इति ।। हेतौ तान्येव पदान्युपादेयानि यानि व्यभिचारदोषनिवारकाणि भवेयुः । स व्यभिचारो द्वेधा । अन्वयव्यभिचारो व्यतिरेकव्यभिचारश्व । तत्र सति सद्भावोऽन्वयो, यथा सति दण्डे घटोत्पत्तिः, असत्यसद्भावो व्यतिरेको यथा दण्डाभावे घटाभावः । ताभ्यां हेतुसत्त्वे साध्यासत्त्वम् । व्यभिचारो यथा । कादम्बर्यादौ मङ्गलहेतौ सति साध्यरूपायाः समाप्ते रसत्त्वेनान्वयव्यभिचार इति । समाप्तिर्मङ्गलजन्या समाप्तित्वादित्यत्र प्रमत्तनास्तिकाद्यनुष्ठितकर्मसमाप्तौ समाप्तित्वे हेतौ सति मङ्गलजन्यत्वं साध्यं मृग्यते, परं मङ्गजन्यत्वमेव साध्यमस्तीति व्यतिरेकव्यभिचार इति । तद्वतित्वे सति तदितरावतित्वमसाधारणधर्मत्वमित्यत्र वर्तते इत्येवंशीलो वी, वतिनो भावो वतित्वम् । तस्मिन् गवि वतित्त्वं तद्वतित्वम् । तस्मिन् तद्वर्तित्वे सति पुनस्तच्छब्देन गौः, तस्मादितरे घटादयः, तेष्ववर्तित्वं तदितरावर्तित्वं, यथा गवि सास्नादिमत्त्वमिति । तज्जन्यत्वे सति तज्जन्यजनकोऽवान्तरव्यापार इत्यत्र तच्छब्देन दण्डस्तेन जन्ये भूमिस्तज्जन्यस्तस्य भावः, तज्जन्यत्वम् तस्मिस्तज्जन्यत्वे सति पुनस्तच्छब्देन दण्डस्तेन जन्यो घटस्तस्य जनको भूमिः, स एवावान्तरव्यापार इति । तद्वति तत्प्रकारकं ज्ञानं यथार्थज्ञानमित्यत्र तच्छब्देन घटत्वं, तद् विद्यते यस्यासौ तद्वान् घटः तस्मिन् तद्वति घटत्ववति घटे पुनस्तच्छब्देन घटत्वं, तदेव प्रकारो यस्मिन् ज्ञाने तत् तत्प्रकारकं ज्ञानमिति तदधिकरणाधिरकरणत्वम् ॥ समानाधिकरणमित्यत्र तच्छब्देन घटत्वं तस्याधिकरणं घटः । य एवाधिकरणं यस्य द्रव्यत्वस्य तत् तथा । एतावता घटत्वद्र व्यत्वयोः समानाधिकरण्यमित्यर्थः । तदधिकरणानधिकरणरत्वं

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182