________________
Vol. XIX, 1994-1995.
मंत्रार्थघटन में....
मत्यैर्यजमानैर्निप्पाद्यत्वात् प्रवेश उपचर्यते । यत्र यास्क:- “ चत्वारिशृङ्गेति वेदा वा एत उक्ता: " निरू० १३ / ७ इत्यादिना निरवोचत् । तदत्रानुसंधेयम् ॥ अथ सूर्यपक्षे व्याख्यायते अस्यादित्यस्य चत्वारि श्रृङ्गाणि चतस्रो दिशः । एताः श्रयणार्थत्वात् शृङ्गाणीत्युपचर्यते । त्रयो अस्य पादाः । त्रयो वेदाः पादस्थानीया भवन्ति गमनसाधनत्वात् । तथा हि- "ऋग्भिः पूर्वाह्णे दिवि देव ईयते" इत्युपक्रम्प "वेदैरशून्यस्त्रिभिरेति सूर्यः " तै० ब्रा० ३.१२.९.१ इति हि वेदत्रयेण गतिराम्नाता । द्वे शीषें। अहश्च रात्रिश्चेति द्वे शिरसी सप्त हस्तासो अस्य । सप्तरश्मयः षड्विलक्षणा ऋतव एकः साधारणः इति वा सप्त हस्ता भवन्ति । त्रिधा बद्धस्त्रिषु स्थानेषु क्षित्यादिषु अग्न्याद्यात्मकवेन संबद्धः । ग्रीष्मवर्षाहेमन्ताख्यैस्त्रिभित्रैधा बद्धो वा । वृषभो वर्षिता रवीति । शब्दं करोति वृष्ट्यादिद्वारा । स महो महान् देवो मर्त्यानाविवेश तन्नियन्तृतया । "सूर्य आत्मा जगतस्तस्थुषश्च सं०१.११५.१ इति हि श्रुतम् । एवं त्वबादिपक्षेऽपि योज्यम् । शाब्दिकास्तु शब्दब्रह्मपरतया चत्वारि शृङ्गेति चत्वारि पदजातानि नामाख्याते चोपसर्गनिपातश्च इत्यादिना व्याचक्षते। अपरे त्वपरथा । तत्सर्वमत्र द्रष्टव्यम् ।। सायणभाष्य ऋ० सं० ४/५८/३ ( पृ० ७१४ - ७१५ ).
९. चत्वारि । " चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोखीति महो देवो मर्त्यां आ विवेश । " इति । चत्वारि शृङ्गाणि पदजातानि नामाख्यातोपसर्गनिपातश्च । त्रयो अस्य पादाः त्रयः काला भूतभविष्यवर्तमानाः । द्वे शीर्षे द्वौ शब्दात्मानौ नित्यः कार्यश्च । सप्त विभक्तः । त्रिधा बद्ध; त्रिषु स्थानेषु बद्ध उरसि कण्ठे शिरसीति । वृषभो वर्षणात् । रोरवीति शब्दं करोति । कुत एतत् । रौतिः शब्दकर्मा। महो देवो मर्त्यां आविवेशेति महान् देवः शब्दः । मर्त्या मरणधर्माणो मनुष्यास्तानाविवेश महता देवेन नः साम्यं यथा स्यादित्यध्येयं व्याकरणम् ॥ व्याकरण महाभाष्यम् (नवाहिनकम्) पृ.१२.
१०. अभिधानेऽर्थवादः पू. मी. २/१/३७.
चत्वारि शृणा इत्यसदाभिधाने गौणः शब्दः । गौणी कल्पना प्रमाणवत्वात् । उच्चारणाददृढमप्रमाणम् । चतस्रो होत्रा : शृङ्गाणीवाऽस्य । त्रयोऽस्य पादा इति सवनाभिप्रायम् । द्वे शीर्षे इति पत्नी यजमानौ । सप्त हस्तास इति च्छन्दांस्यभिप्रेत्य । त्रिधा बद्ध इति त्रिभिर्वेदैबद्धः । वृषभः कामान्वर्षतीति रोरवीति । तद्यथा चक्रवाकस्तनी हंसदन्तावली काशवस्त्रा शैवालकेशी नद्याः स्तुतिः । यज्ञसमृद्धये साधनानां चेतनसादृश्यमुपपादयितुकाम आमन्त्रणशब्देन लक्षयति ओषधि त्रायस्वैनमिति, शृणोत ग्रावाण इति । शबरस्वामी पृ० ६४.
११. चत्वारि शृति रूपकद्वारेण यागस्तुतिः कर्मकाल उत्साहं करोति । हौत्रे त्वयं विषुवति हेतुराज्ये विनियुक्तः । तस्य चाssनेयत्वादहनाश्चाऽऽदित्य दैवतत्वसंस्तवादित्यरूपेणाग्निस्तुतिरूपवर्ण्यते । तत्र चत्वारि शृङ्गेति दिवसयामानां ग्रहणम् । यो अस्य पादा इति शीतोष्णवर्षाकालाः । द्वे शीर्षे इत्ययनाभिप्रायम् । सप्त हस्ता इत्यध्वरस्तुतिः । त्रिधा बद्ध इति सवनाभिप्रायेण । वृषभ इति वृष्टिहेतुत्वेन स्तुतिः । रोरवीति स्तनयित्नुना । सर्वलोकप्रसिद्धेर्महान्देवो मर्त्यानाविवेशेत्युसाहकारणोपकारेण सर्वपुरुषहृदयानुप्रवेशात् । एवमनेन मार्गेणास्ति तावद्धर्मसाधनस्मृतिः ॥ कुमारिल भट्ट
पृ० ६४-६५.
१२. शब्दार्थौ ते शरीरं, संस्कृतं मुखं, प्राकृतं बाहूः, जघनमपभ्रंश: पैशाचं पादौ, उरौ मिश्रम् । समः प्रसन्नो मधुर उदार ओजस्वी चासि । उक्तिचणं च ते बचो, रस आत्मा, रोमाणि छन्दांसि पश्नोत्तरप्रवह्निकादिकं च वालेकलिः अनुप्रासोपमादयश्य त्वामलंकुर्वन्ति । भविप्यतोऽर्थस्याभिधात्री श्रुतिरपि भवन्तमलिस्तौति ।
काव्यमीमांसा - तृतीयाध्याय.
१. निरुक्त वी. के. राजवाडे
संदर्भ ग्रंथसूचि
97
-
भांडारकर ओरिजेन्टल रिसर्च इन्स्टीट्यूट, पूना १९४०.