Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 133
________________ अनुवादपुनरुक्तयोः प्रामाण्याप्रामाण्यम् ललिता चक्रवर्ती अनुवादस्य माहात्म्यमनस्वीकार्यम्। यत: अनुवादेन भाषाणां पारस्परिकयोगसूत्ररक्षा समावर्ति, सभ्यतायाः विकाशे भाषा-साहित्य-संस्कृतिगतविनिमय: आवश्यकः। विनिमयस्थले अनुवादस्य गुरुत्वपूर्ण भूमिका वर्तते। भाषान्तकरुणरूपानुवाद: “वसुधैव कुटुम्बकम्' इति उपनिषदीयकल्पना साकारांजनयति। सांस्कृतिकसेतुरूपानुवादस्य महत्त्वसत्त्वेऽपि अस्य प्रामाण्यविषये दार्शनिकसम्प्रदायेषु वैमत्यानि परिदृश्यन्ते। यत: शास्त्रेषु पुनरुक्ति: दोषवशात् वर्जनीया, अनुवादस्थलेऽपि पुनरुक्तिः पुनर्वचनं वा भवति अत: पुनरुक्तिवद् अनुवाद: अप्रमाणमिति अनुवादाप्रामाण्यदीनां सिद्धान्तः। अनुवादपुनरुक्तयोः प्रामाण्याप्रामाण्यविषये, आलोचनाया: प्राक् उभययोः स्वरूपकथनमावश्यकम्॥ 'अनु' पूर्वक 'वद्धातो: घञ्प्रत्यय-निष्पन्न: अनुवादशब्दस्यार्थ: ‘पश्चात्कथनम्। वैदिककालादारभ्य वर्तमानकालं यावत् अनुवादशब्दस्य व्युत्पत्तिगतार्थविषये ऐकमत्यमस्ति। 'अन्वेको वदति यद् ददति' (ऋग्वेद - २.१३.३) इत्येका वैदिका श्रुतिः वर्तत। बृहदारण्यकोपनिषदि (५-२-३) जैमिनीयन्यायमालायां च अनुकथनरूपमनुवादस्वरूपं व्याख्यातम् । अनूवादपुनरुक्तयोः व्युत्पत्तिगतेऽर्थे साम्यमस्ति, यत: 'अनु पश्चात् वाद: कथनरूपमनुवचनं हि अनुवाद: पुनरुक्तञ्च पुनर्वचनम्। उभयत्र हि अर्थ: शब्दाश्च अभ्यस्यन्ते। तथापि तेषां प्रामाण्याप्रामाण्य-विषये दार्शनिकसम्प्रदायेषु मतान्तराणि दृश्यन्ते। मीमांसकानां नये अनुवादमात्रमप्रमाणमेव। महर्षि जैमिनि: औत्पत्तिकस्तु---- (मीमांसासूत्र१-१-५) इति सूत्रान्तर्गतस्य ‘अर्थेऽनुपलब्ध' इति पदेन स्मृत्य- नुवादयोरप्रामाण्यमेव सूचयति । यतः तेषां मतानुसारेण अगृहीतग्राहित्वमेव प्रमाणत्वम्। अनुवादस्थले पूर्वप्रतीतार्थस्य शब्दस्य च पुन: कथनात् तेषां गृहीतग्राहित्वाच्चन प्रमाणत्वं न वा यथार्थत्वम्। किन्तु दर्शनान्तरेषु विशेषत: नैयायिकानां नये अनुवादमात्रं न तु हेयं न वा उपेक्षणीयम्। पूर्वोल्लिखितविषयस्य पुन: कथनसत्त्वेऽपि तात्पर्यविशेषवशात् अनुवाद: प्रमाणमेव। किन्तु दोषवशात् न्यायदर्शने पुनरुक्ति: वर्जनीया। इयं पुनरुक्ति: वैयाकरणै: स्वीक्रियते। कथं नैयायिका: पुनरुक्तिं दूषयन्ति ? अनुवादस्य च प्रामाण्यं समर्थयन्ति, कथं वा वैयाकरणैः द्विवर्चनं (पुनरुक्तिः) समाद्रियते इति अस्मिन लेखे अहं विचारयामि। अत्रादौ अनुवादस्य स्वरूपप्रामाण्यविषये नैयायिकानां य: अभिप्राय: स: आलोच्यते। विधिविहितस्यानुवचनमनुवादः (न्यायसूत्र, २-९-४४) अर्थात् विधेरनुवचन विहितस्य वाऽनुवचनमनुवादः । अत्र 'अनुवचनमिति' पदेन तस्य लक्षणमपि निर्दिश्यते। तत्र विधेरनुवचनं शब्दानुवादः विहितव्यानुवचनमर्थानुवादः', यथा वेदे 'त्रिः पथमामन्वाह त्रिरुतमाम्' (शाबर भाष्यम् ९-७-९-३३) इति अत्र एकादशसामिधेनीनां प्रथमोत्तमयोस्त्रिर्वचनरूपो योऽभ्यास: स शब्दानुवादः। अश्वमेधेन यजेत (श.ब्रा. ११-२-५-५) इति विहिताश्वमेधयज्ञस्य पुनर्वचनं तरति मृत्युं तरति पाप्मानं योऽश्वमेधेन यजेत (श.ब्रा.११-२-५-५) अर्थानुवादः।

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182