________________
अनुवादपुनरुक्तयोः प्रामाण्याप्रामाण्यम्
ललिता चक्रवर्ती
अनुवादस्य माहात्म्यमनस्वीकार्यम्। यत: अनुवादेन भाषाणां पारस्परिकयोगसूत्ररक्षा समावर्ति, सभ्यतायाः विकाशे भाषा-साहित्य-संस्कृतिगतविनिमय: आवश्यकः। विनिमयस्थले अनुवादस्य गुरुत्वपूर्ण भूमिका वर्तते। भाषान्तकरुणरूपानुवाद: “वसुधैव कुटुम्बकम्' इति उपनिषदीयकल्पना साकारांजनयति। सांस्कृतिकसेतुरूपानुवादस्य महत्त्वसत्त्वेऽपि अस्य प्रामाण्यविषये दार्शनिकसम्प्रदायेषु वैमत्यानि परिदृश्यन्ते। यत: शास्त्रेषु पुनरुक्ति: दोषवशात् वर्जनीया, अनुवादस्थलेऽपि पुनरुक्तिः पुनर्वचनं वा भवति अत: पुनरुक्तिवद् अनुवाद: अप्रमाणमिति अनुवादाप्रामाण्यदीनां सिद्धान्तः। अनुवादपुनरुक्तयोः प्रामाण्याप्रामाण्यविषये, आलोचनाया: प्राक् उभययोः स्वरूपकथनमावश्यकम्॥
'अनु' पूर्वक 'वद्धातो: घञ्प्रत्यय-निष्पन्न: अनुवादशब्दस्यार्थ: ‘पश्चात्कथनम्। वैदिककालादारभ्य वर्तमानकालं यावत् अनुवादशब्दस्य व्युत्पत्तिगतार्थविषये ऐकमत्यमस्ति। 'अन्वेको वदति यद् ददति' (ऋग्वेद - २.१३.३) इत्येका वैदिका श्रुतिः वर्तत। बृहदारण्यकोपनिषदि (५-२-३) जैमिनीयन्यायमालायां च अनुकथनरूपमनुवादस्वरूपं व्याख्यातम् ।
अनूवादपुनरुक्तयोः व्युत्पत्तिगतेऽर्थे साम्यमस्ति, यत: 'अनु पश्चात् वाद: कथनरूपमनुवचनं हि अनुवाद: पुनरुक्तञ्च पुनर्वचनम्। उभयत्र हि अर्थ: शब्दाश्च अभ्यस्यन्ते। तथापि तेषां प्रामाण्याप्रामाण्य-विषये दार्शनिकसम्प्रदायेषु मतान्तराणि दृश्यन्ते। मीमांसकानां नये अनुवादमात्रमप्रमाणमेव। महर्षि जैमिनि:
औत्पत्तिकस्तु---- (मीमांसासूत्र१-१-५) इति सूत्रान्तर्गतस्य ‘अर्थेऽनुपलब्ध' इति पदेन स्मृत्य- नुवादयोरप्रामाण्यमेव सूचयति । यतः तेषां मतानुसारेण अगृहीतग्राहित्वमेव प्रमाणत्वम्। अनुवादस्थले पूर्वप्रतीतार्थस्य शब्दस्य च पुन: कथनात् तेषां गृहीतग्राहित्वाच्चन प्रमाणत्वं न वा यथार्थत्वम्। किन्तु दर्शनान्तरेषु विशेषत: नैयायिकानां नये अनुवादमात्रं न तु हेयं न वा उपेक्षणीयम्। पूर्वोल्लिखितविषयस्य पुन: कथनसत्त्वेऽपि तात्पर्यविशेषवशात् अनुवाद: प्रमाणमेव। किन्तु दोषवशात् न्यायदर्शने पुनरुक्ति: वर्जनीया।
इयं पुनरुक्ति: वैयाकरणै: स्वीक्रियते। कथं नैयायिका: पुनरुक्तिं दूषयन्ति ? अनुवादस्य च प्रामाण्यं समर्थयन्ति, कथं वा वैयाकरणैः द्विवर्चनं (पुनरुक्तिः) समाद्रियते इति अस्मिन लेखे अहं विचारयामि। अत्रादौ अनुवादस्य स्वरूपप्रामाण्यविषये नैयायिकानां य: अभिप्राय: स: आलोच्यते।
विधिविहितस्यानुवचनमनुवादः (न्यायसूत्र, २-९-४४) अर्थात् विधेरनुवचन विहितस्य वाऽनुवचनमनुवादः । अत्र 'अनुवचनमिति' पदेन तस्य लक्षणमपि निर्दिश्यते। तत्र विधेरनुवचनं शब्दानुवादः विहितव्यानुवचनमर्थानुवादः', यथा वेदे 'त्रिः पथमामन्वाह त्रिरुतमाम्' (शाबर भाष्यम् ९-७-९-३३) इति अत्र एकादशसामिधेनीनां प्रथमोत्तमयोस्त्रिर्वचनरूपो योऽभ्यास: स शब्दानुवादः। अश्वमेधेन यजेत (श.ब्रा. ११-२-५-५) इति विहिताश्वमेधयज्ञस्य पुनर्वचनं तरति मृत्युं तरति पाप्मानं योऽश्वमेधेन यजेत (श.ब्रा.११-२-५-५) अर्थानुवादः।