Book Title: Sambodhi 1994 Vol 19
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad
________________
130 ललिता चक्रवर्ती
SAMBODHI सूत्रकारगौतमस्य अभिप्रायमनुसृत्य वृत्तिकार: आचार्य विश्वनाथ: अनुवादस्य निकृष्टलक्षणं दर्शयति - प्राप्तस्य अनुः पश्चात् कथनं सप्रयोजनमनुवादः" इति। अर्थात् सप्रयोजनत्वे सति अनुवचनम् अनुवादः।
ननु ‘सप्रयोजनम्' इति पदेन कीद्दशं प्रयोजनम् अभिहितं तदुतरेणाह - अधिकारार्थम् इति । अर्थात् विधिविहितञ्च अधिकृत्य स्तुतिनिन्दारूपं प्रयोजनार्थं विधे: विहितस्य च अनुवचनं स्यात्। तत्र पूर्वोक्तशब्दानुवादस्थले सामिधेनीनां पञ्चदशत्वविधानं हि प्रयोजनम्। तरति मृत्यु.... इति अर्थानुवादस्थले अश्वमेधेन.... इत्यादिना विधिवाक्येन अश्वमेधयज्ञे विहितेऽपि यस्य यज्ञस्य फलं कीद्दशं, किं प्रयोजनार्थञ्च विधीयते तद्बोधनार्थम् अश्वमेधयज्ञस्य स्तुतिं प्रकाश्य अस्य पुनर्वचनं विधीयते। अत्र अनेन पुर्नवचनेन विशेषार्थस्य प्रकटितत्वात् अस्य उपेक्षणम् असम्भवम्। पुनश्च 'उदिते होतव्यम्' (शा.भा.२.४.२.२३) इति अनेन विधिवाक्येन अग्निहोत्रहोमस्य कालत्रयं विधीयते, अस्य अर्थवादवाक्यं श्यावो वाऽस्याहुतिमभ्यवहरति य उदिते जुहोति इति अत्र विधिविहतस्य उदितकालस्य यत् पुनर्वचनं भवति तत् निन्दाज्ञापनार्थमेव। यत: य: सूर्योदयादनन्तरम् आहुतिं ददाति श्याव इति देवतया: सारमेय: तस्य आहुतिं भुङ्क्ते।
अत्र शङ्का उदेति - वैदिकमन्त्रेण उदयकाले आहुति: विधीयते पुन: किमर्थम् अर्थवादवाक्ये एवं विधाचरणस्य निन्दा दृश्यते? समाधानं यत् - ईदशी निन्दा अधिकारि विशेषेषु प्रयुज्यते। यत उदयकाले होमे विहितेऽपि य उदयकाले होमं सङ्कल्प्य तस्मिन् काले आहुति प्रदानं करोति स एव कृतकृत्यो भवति। किन्तु योऽनुदितकाले होमस्य सङ्कल्पं क्त्वा उदितकाले आहुतिं ददाति तादशस्य अधिकारिविशेषस्य आहुतिरेव अनुरूपाभावेन भक्षिता भवति। ईदशं निन्दाजापनरूपं प्रयोजनविशेषज्ञापनं हि अस्य पुर्नवचनस्य अभिप्रायं फलत: तन्नानर्थकमेव।।
विहितस्यानुवचनस्य प्रयोजनान्तरं भाष्यकारेण कथितम् - विहितमधिकृत्य विधिशेषोऽभिधीयते । यथा विधिवाक्यमग्निहोत्रं जुहोति अस्य अनुवादः दध्मा जुहोति, अर्थात् अस्मिन् विधिवाक्ये प्राप्तस्य 'जुहोति' इति पदस्य द्विरभिधानम्। दधिरूपगुणविशेषविधानाय ईदृशोऽनुवादो भवति। 'अग्निहोत्रहोमं कुरु" इत्यतं विधिवाक्यश्रवणमात्रैणैव श्रोतृहृदये जिज्ञासा जायते - केन वस्तुना होमं विधास्यामि ? तदुत्तरेण दधना' इति पदेन यज्ञकरणत्वं विधीयते। केवलमात्रं 'दध्ना' इति विधेयपदेन सम्यगर्थ:परिस्फुटो भवति इत्येव नाभिहिते 'जुहोति' पदस्य अनुवादेन दधिरूपविधेयस्य उद्देश्य प्रकाश्यते। अर्थात् विहितहोममधिकृत्य ईदृशो विधिशेषोऽभिहितो भवति।
विहितकर्मण आनन्तर्यविधानमपि अनुवादस्य प्रयोजनम् । दर्शपौर्णमासयोगः यथा विधीयते तथैव सोमयागोऽपि। एषां पूर्वापरत्वविषये संशयो जायते। तदुक्तं दशपौर्णमासाभ्यामिष्ट्वा सोमेन यजेत। अर्थात् दशपौर्णमासादनन्तरं सोमयाग: कर्तव्यः। अत्र यागानाम् आनन्तर्यविधानं हि अनुवादस्य प्रयोजनम्। अत: स प्रयोजनत्वात् अनुवादः प्रामाणिक एव।
वैदिकवाक्यवद् लौकिकवाक्येष्वपि अनुवादस्य पुनर्वचनस्य वा प्रामाण्यं परिलभ्यते। यथा - ओदनं पचेदिति अस्य लौकिकवाक्य अर्थवादवाक्यं आयुर्ख!बलं सुखं प्रतिमानञ्चान्ने प्रतिष्ठितम् । अन्नपाकस्य कर्तव्यतया प्रयोजनकथनार्थम् अन्नस्य अनुवाद आवश्यकः । विधे: विहितस्य वा अनुवादव्यतिरेकेण अर्थवादवाक्यं न सम्भवति इति सुतरां सप्रयोजनानुवादस्य प्रामाण्यम् अनस्वीकार्यम्। अथवा यथा शीघ्रं गम्यताम् इति कथनादनन्तरं 'शीघ्रं शीघ्रं गम्यताम्' इत्येवं कथ्यते तदा द्वितीयवाक्ये शीघ्रशब्दस्य पुनर्वचनं गमनकर्मण आतिशय्यविधानार्थं सप्रयोजनं प्रमाणं वा।
Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182