Book Title: Ratnakaravatarika Part 3
Author(s): Vadidevsuri, Kalyanbodhivijay
Publisher: Jain Dharm Prasaran Trust Surat

Previous | Next

Page 11
________________ રત્નાકરાવતારિકા ભાગ-૩ तेषु भ्रान्तमनुमानं प्रमाणत्वात्, यत्पुनः भ्रान्तं न भवति न तत्प्रमाणं, यथा स्वप्नज्ञानमिति असिद्धसाध्यव्यतिरेकः स्वप्न - ज्ञानात् भ्रान्तत्वस्यानिवृत्तेः ॥ ६-७१॥ निर्विकल्पकं प्रत्यक्षं प्रमाणत्वाद्, यत् तु सविकल्पकं न तत्प्रमाणं, यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गिकात् प्रमाणत्वस्यानिवृत्तेः ॥ ६-७२॥ नित्यानित्यः शब्दः सत्त्वात्, यस्तु न नित्यानित्यः स न संस्तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य सत्त्वस्य चाव्यावृत्तेः ॥६-७३ ॥ असर्वज्ञोऽ अनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वाद्, यः सर्वज्ञ आप्तो वा स क्षणिकैकान्तवादी यथा सुगत इति सन्दिग्धसाध्यव्यतिरेकः सुगतेऽसर्वज्ञतानाप्तत्वयोः साध्यधर्मयोर्व्यावृत्तेः सन्देहात् ॥ ६-७४॥ अनादेयवचनः कश्चिद् विवक्षितपुरुषो रागादिमत्त्वाद्, यः पुनरादेयवचनः स वीतरागस्तद्यथा शौद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः, शौद्धोदनौ रागादिमत्त्वस्य निवृत्तेः संशयात् ॥६-७५॥ ૧૦ न वीतरागः कपिलः करुणास्पदेष्वपि परमकृपयाऽनर्पित-निजपिशितशकलत्वात्, यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितनिजपिशितशकलस्तद्यथा तपनबन्धुरिति सन्दिग्धोभयव्यतिरेक इति तपनबन्धौ वीतरागत्वाभावस्य करुणास्पदेष्वपि परमकृपयाऽनर्पितनिजपिशितशकलत्वस्य च व्यावृत्तेः सन्देहात् ॥६-७६ ॥ न वीतरागः कश्चिद् विवक्षितः पुरुषो वक्तृत्वात्, यः पुन-र्वीतरागो न स वक्ता यथोपलखण्ड इत्यव्यतिरेकः ॥ ६-७७ ॥ अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शितव्यतिरेकः ॥ ६-७८ ॥ अनित्यः शब्दः कृतकत्वाद्यदकृतकं तन्नित्यं यथाऽऽकाशमितिविपरीतव्यतिरेकः ॥ ७९ ॥ उक्तलक्षणोल्लङ्घनेनोपनयनिगमनयोर्वचने तदाभासौ ॥ ६-८० ॥ यथा परिणामी शब्दः कृतकत्वाद्, यः कृतकः स परिणामी, यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति च ॥६-८१ ॥ तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द इति, तस्मात् परिणामी कुम्भ इति च ॥ ६-८२ ॥ अनाप्तवचनप्रभवं ज्ञानमागमाभासम् ॥ ६-८३॥ यथा मेलककन्यकायाः कूले तालहिन्तालयोर्मूले सुलभाः पिण्डखर्जुराः सन्ति, त्वरितं गच्छत गच्छत शावकाः ॥ ६-८४॥ प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं तस्य संख्याभासम् ॥६-८५ ॥ सामान्यमेव, विशेष एव तद्द्वयं वा, स्वतन्त्रमित्यादिस्तस्य विषयाभासः ॥ ६-८६ ॥ अभिन्नमेव, भिन्नमेव, वा प्रमाणात् फलं तस्य तदाभासम् ॥ ६-८७ ॥ 000 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 444