Book Title: Ratnakaravatarika Part 3
Author(s): Vadidevsuri, Kalyanbodhivijay
Publisher: Jain Dharm Prasaran Trust Surat

Previous | Next

Page 9
________________ રત્નાકરાવતારિકા ભાગ-૩ प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदाभासम् ॥६-२३॥ अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पकसमारोपाः प्रमाणस्य स्वरूपाभासाः॥ ६-२४॥ यथा सन्निकर्षाद्यस्वसंविदितपरानवभासक-ज्ञान-दर्शन-विपर्यय-संशयानध्यवसाया: ॥६-२५॥ तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः ॥६-२६॥ सांव्यवहारिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥६-२७॥ यथाऽम्बुधरेषु गन्धर्वनगरज्ञानं, दुःखे सुखज्ञानं च ॥६-२८॥ पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥६-२९॥ यथा शिवाख्यस्य राजर्षेरसंख्यातद्वीपसमुद्रेषु, सप्तद्वीपसमुद्रज्ञानम् ॥६-३०॥ अननुभूते वस्तुनि तदितिज्ञानं स्मरणाभासम् ॥६-३१॥ अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा ॥६-३२॥ तुल्ये पदार्थे स एवायमिति, एकस्मिंश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञानाभासम् ॥६-३३॥ यमलकजातवत् ॥६-३४॥ असत्यामपि व्याप्तौ तदवभासस्तर्काभासः॥६-३५॥ स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रतनयः स श्याम इति यथा ॥६-३६॥ पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम् ॥६-३७॥ तत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणास्त्रयः पक्षाभासाः ॥६-३८॥ प्रतीतसाध्यधर्मविशेषणो यथाऽऽर्हतान् प्रत्यवधारणवर्ज परेण प्रयुज्यमानः समस्ति जीव इत्यादिः ॥६-३९॥ निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलोकस्ववचनादिभिः साध्यधर्मस्य निराकरणादनेकप्रकारः ॥६-४०॥ प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतविलक्षण आत्मा ॥६-४१॥ अनुमाननिराकृतसाध्यधर्मविशेषणो यथा नास्ति सर्वज्ञो वीतरागो वा ॥६-४२॥ आगमनिराकृतसाध्यधर्मविशेषणो यथा जैनेन रजनीभोजनं भजनीयम् ॥६-४३॥ लोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः ॥६-४४॥ स्ववचननिराकृतसाध्यधर्मविशेषणो यथा"नास्तिप्रमेयपरिच्छेदकं प्रमाणम्" ॥६-४५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 444