________________
રત્નાકરાવતારિકા ભાગ-૩
प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदाभासम् ॥६-२३॥ अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पकसमारोपाः प्रमाणस्य स्वरूपाभासाः॥ ६-२४॥ यथा सन्निकर्षाद्यस्वसंविदितपरानवभासक-ज्ञान-दर्शन-विपर्यय-संशयानध्यवसाया:
॥६-२५॥ तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः ॥६-२६॥ सांव्यवहारिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥६-२७॥ यथाऽम्बुधरेषु गन्धर्वनगरज्ञानं, दुःखे सुखज्ञानं च ॥६-२८॥ पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥६-२९॥ यथा शिवाख्यस्य राजर्षेरसंख्यातद्वीपसमुद्रेषु, सप्तद्वीपसमुद्रज्ञानम् ॥६-३०॥ अननुभूते वस्तुनि तदितिज्ञानं स्मरणाभासम् ॥६-३१॥ अननुभूते मुनिमण्डले तन्मुनिमण्डलमिति यथा ॥६-३२॥ तुल्ये पदार्थे स एवायमिति, एकस्मिंश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञानाभासम्
॥६-३३॥ यमलकजातवत् ॥६-३४॥ असत्यामपि व्याप्तौ तदवभासस्तर्काभासः॥६-३५॥ स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रतनयः स श्याम इति यथा ॥६-३६॥ पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम् ॥६-३७॥ तत्र प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणास्त्रयः पक्षाभासाः ॥६-३८॥ प्रतीतसाध्यधर्मविशेषणो यथाऽऽर्हतान् प्रत्यवधारणवर्ज परेण प्रयुज्यमानः समस्ति जीव इत्यादिः ॥६-३९॥ निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलोकस्ववचनादिभिः साध्यधर्मस्य निराकरणादनेकप्रकारः ॥६-४०॥ प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति भूतविलक्षण आत्मा ॥६-४१॥ अनुमाननिराकृतसाध्यधर्मविशेषणो यथा नास्ति सर्वज्ञो वीतरागो वा ॥६-४२॥ आगमनिराकृतसाध्यधर्मविशेषणो यथा जैनेन रजनीभोजनं भजनीयम् ॥६-४३॥ लोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः ॥६-४४॥ स्ववचननिराकृतसाध्यधर्मविशेषणो यथा"नास्तिप्रमेयपरिच्छेदकं प्रमाणम्" ॥६-४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org