________________
MarwAANE
(भूगसूत्रो)
परिच्छेद-६ यत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥६-१॥ तद् द्विविधमानन्तर्येण पारम्पर्येण च ॥६-२॥ तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् ॥६-३॥ पारम्पर्येण केवलज्ञानस्य तावत् फलमौदासीन्यम् ॥६-४॥ शेषप्रमाणानां पुनरुपादानहानोपेक्षाबुद्धयः ॥६-५॥ तत्प्रमाणतः स्याद् भिन्नमभिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः ॥ ६-६॥ उपादानबुद्धयादिना प्रमाणाद् भिन्नेन व्यवहितफलेन हेतोर्व्यभिचार इति न विभावनीयम् ।
॥६-७॥ तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः ॥६-८॥ प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः ॥६-९॥ यः प्रमिमीते स एवोपादत्ते परित्यजत्युपेक्षते चैति सर्वसंव्यवहारिभिरस्खलितमनुभवात्
॥६-१०॥ इतरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लव: प्रसज्येत ॥६-११॥ अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्नेन साक्षात्फलेन साधनस्यानेकान्त इति नाशङ्कनीयम्
॥६-१२॥ कथञ्चित्तस्यापि प्रमाणाद् भेदेन व्यवस्थानात् ॥६-१३॥ साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात् ॥६-१४॥ प्रमाणं हि करणाख्यं साधनम् स्वपरव्यवसितौ साधकतमत्वात् ॥६-१५॥ स्वपरव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं तु साध्यम्प्रमाणनिष्पाद्यत्वात्॥६-१६॥ प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद् भेदः ॥६-१७ ॥ कर्तृक्रिययोः साध्य-साधकभावेनोपलम्भात् ॥६-१८॥ कर्ता हि साधकः, स्वतन्त्रत्वात् क्रिया तु साध्या, कर्तृनिर्वय॑त्वात् ॥६-१९॥ न च क्रिया क्रियावतः सकाशादभिन्नैव, भिन्नैव वा, प्रतिनियतक्रियाक्रियावद्भावभङ्गप्रसङ्गात् ॥६-२०॥ संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः, परमार्थतः स्वाभिमतसिद्धिविरोधात्
॥६-२१॥ ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्तव्यः
॥६-२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org