________________
રત્નાકરાવતારિકા ભાગ-૩
अनभीप्सितसाध्यधर्मविशेषणो यथा स्याद्वादिनः, शाश्वतिक एव कलशादिरशाश्वतिक एव वेति वदतः॥६-४६॥ असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ॥६-४७॥ यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः ॥६-४८॥ स द्विविध उभयासिद्धोऽन्यतरासिद्धश्च ॥६-४९॥ . उभयासिद्धो-यथा "परिणामी" शब्दश्चाक्षुषत्वात् ॥६-५०॥ अन्यतरासिद्धो यथाअचेतनास्तरवो विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वात् ॥६५१॥ साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः।६-५२। यथा नित्य एव पुरुषोऽनित्य एव वा, प्रत्यभिज्ञानादिमत्त्वात् ॥६-५३॥ यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः॥६-५४॥ स द्वेधा-निर्णीतविपक्षवृत्तिकः, सन्दिग्धविपक्षवृत्तिकश्व॥६-५५॥ निर्णीतविपक्षवृत्तिको यथा-नित्यः शब्दः प्रमेयत्वात् ॥६-५६॥ सन्दिग्धविपक्षवृत्तिको यथा-विवादपदापन्नः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् ॥६-५७॥ साधर्येण दृष्टान्ताभासो नवप्रकारः ॥६-५८॥ साध्यधर्मविकलः साधनधर्मविकल: उभयधर्मविकलः सन्दिग्ध-साध्यधर्मा, सन्दिग्धसाधनधर्मा सन्दिग्धोभयधर्मा अनन्वयोऽप्रदर्शितान्वयो विपरीतान्वयश्चेति ॥६-५९॥ तत्रापौरुषेयः शब्दोऽमूर्तत्वाद् दुःखवदिति साध्यधर्मविकलः ।६-६०। तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्मविकलः ॥६-६१॥ कलशवदित्युभयधर्मविकलः ॥६-६२॥ रागादिमानयं वक्तृत्वात् देवदत्तवदिति सन्दिग्धसाध्यधर्मा ॥६-६३॥ मरणधर्माऽयं रागादिमत्त्वात् मैत्रवदिति सन्दिग्धसाधनधर्मा ॥६-६४॥ नायं सर्वदर्शी रागादिमत्त्वात् मुनिविशेषवदिति सन्दिग्धोभयधर्मा ।६-६५। रागादिमान् विवक्षितः पुरुषो वक्तृत्वादिष्टपुरुषवदित्यनन्वयः।६-६६। अनित्यः शब्दः कृतकत्वात् पटवदित्यप्रदर्शितान्वयः ॥६-६७॥ अनित्यः शब्दः कृतकत्वात् , यदनित्यं तत् कृतकं घटवदिति विपरीतान्वयः ॥६-६८॥ वैधर्मेणापि दृष्टान्ताभासो नवधा ॥६-६९॥ असिद्धसाध्यव्यतिरेकोऽसिद्धसाधनव्यतिरेकोऽसिद्धोभयव्यतिरेकः, सन्दिग्धसाध्यव्यतिरेकः, सन्दिग्धसाधनव्यतिरेकः, सन्दिग्धोभयव्यतिरेकोऽव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्च ॥६-७०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org