Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
प्रायश्चित्त-चूलिका।
१२३
rnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn
भाषासमितिमुन्मुच्य-भाषासयमं उन्मुच्य परिहृत्य व्यतिक्रम्य । मौन कलहकारिण:-कलिविधायिनः मुनेः, मौनं वाचंयमत्वं वाक्संयमः प्रायश्चित्तं भवति।क्षमणं च गुरूद्दिष्टमपि [स्यात् ] गुरुद्दिष्टमाचार्योद्दिष्टमपि । षट्कर्मदे शिनः--षट्कर्मदेशिनो हि प्रायश्चित्तमपि, वाणिज्यविद्योपदेशिनः षड्जीवनिकायवाधाभिः कर्मोपदेशिनो वापि क्षमणं प्रायश्चित्तं भवति ॥ ४५ ॥
असंयमजनज्ञातं कलहं विदधाति यः। बहूपवाससंयुक्तं मौनं तस्य वितीर्यते ॥४६ ॥ असंयमजनज्ञातं-मिथ्यादृष्टिलोकावबुद्धं । कलहं-कलिं । विद. धाति-करोति । यः-साधुः । बहूपवाससंयुक्तं-भूरिक्षमणसमन्वितं । मौनं-वाचंयमत्वं । तस्य-साधोः। वितीर्यते-दीयते ॥ ४६ ॥
कलहेन परीतापकारिणः मौनसंयुताः ।
उपवासा मुनेः पंच भवन्ति नृविशेषतः ॥४७॥ कलहेन-कलिना कृत्वा । परीतापकारिणः-सन्तापविधायिनः । मौनसंयुता:-वाचंयमत्वोपलशिताः । उपवासा:-क्षमणानि । मुनेःसाधोः । पंच-पंचोपवासाः । भवन्ति-सन्ति । नृविशेषतः-पुरुषविशेषात् । मन्दग्लानादिपुरुषविशेषमगवगम्य देयाः ॥ ४७॥
जनज्ञातस्य लोचस्य बहुभिः क्षमणैः सह ।
आषण्मासं जघन्येन गुरूद्दिष्टं प्रकर्षतः ॥ ४८॥ . जनज्ञातस्य- सकललोकावगतस्य कलहस्य सतः । लोचस्य-वालोत्पाटस्य भवति । बहुभिः-भूरिभिः । क्षमणै-रुपवासैः । सार्ध-समं । आषण्मासं जघन्येन-जघन्येन सर्वतः स्तोककालेन आषण्मासं एकोपवासादिषण्मासपर्यन्तं प्रायश्चित्तं । गुरूद्दिष्टं प्रकर्षतः---प्रकर्षणोत्कर्षेण गुरूद्दिष्टमाचार्योपदिष्टं भवति ॥ ४८॥ १ अस्य स्थाने पुस्तके लोचश्चेति पाठः, किन्तु मूले लोचस्येति

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202