Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 151
________________ १३४ प्रायश्चित्तसंग्रहे . मंजने--भंगे सति । स्थिरयोगानां-ध्रुवयोगानां । नमस्कारादिकारणात्-वृक्षमूलादियोगे परिगृहीते सति अत्यन्तमक्षिकुक्षिशिरःशूलविसूचिकासोपसर्गादिकारणवशात् कर्णेजपभेषजप्रभूतनिमित्तात् । दिनमानोपवासः-दिनमानेन दिवसप्रमाणेन, योगभंगे संजाते सति यावन्तोऽद्यापि योगदिवसाः समवतिष्ठन्ते तावन्त उपवासाः । स्युः-भवेयुः । अन्येषां-अपरेषां स्थानमौनावग्रहादीनां योगानां भंगे कथंचित् संजाते सति आलोचनादि प्रायश्चित्तं भवति तावद्यावत्, उपवासनं-उपवासः सोपस्थानो भवति ॥ ७३॥ तत्प्रतिष्ठा च कर्तव्याभ्रावकाशे पुनर्भवेत् । चतुर्विधं तपश्चापि पंचकल्याणमन्तिमम् ॥ ७४ ॥ तत्प्रतिष्ठा च तेषु स्थानमौनावग्रहादिषु योगेषु प्रतिष्ठा च पुनर्व्यवस्थापनमपि । कर्तव्या-करणीया, प्रायश्चित्तं प्रदाय पुनरपि तत्रैव योगे. स्थापयितव्य इत्यर्थः । अभ्रावकाशे पुनः-बहिःशयने तु । भक्त् स्यात् । चतुर्विधं-चतुष्प्रकारं प्रायश्चित्तं आलोचना प्रतिक्रमणं उभयं विवेकः, स च द्विविधः स्थानविवेको गणविवेकश्च । अन्तिम इत्येवमष्टमं भवति, तपस्थी (तपश्चापि.)-उपवासाद्यपि भवति पुरुमंडलनिर्विकृत्येकस्थानाचाम्लक्षमणकल्याणषष्ठाष्टामदशमद्वादशादि तावद्यावत्, पंचकल्याणंमासिकं । अन्तिम-पश्चिमं भवति ॥ ७४ ॥ सकृदप्रासुकासेवेऽसकृन्मोहादहंकृतेः । क्षमणं पंचकं मासः सोपस्थानं च मूलकम् ॥ ७५ ॥ सकृत्-एकवारं । अप्रासुकासेवे-त्रसस्थावरायुपहतवसतिप्रभृतिप्रदेशसंसेवने सति । असकृत्-अनेकवारं । मोहात्-स्नेहात् अज्ञानतः । अहंकृतेः-अहंकारात् दुर्पात् । क्षमणं-मोहात् स्तोककाले उपवास: प्रायश्चित्तं भवति । बहुशः, पंचकं-कल्याणं । दर्पात् स्तोककालं,

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202