Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 162
________________ प्रायश्चित्त-चूलिका। क्षायां-निर्ग्रन्थलिंगस्य । कुलहीने--कुलविकले वर्णत्रयपरिच्युते । न दीक्षास्ति-निम्रन्थलिंगं न भवति । जिनेन्द्रोद्दिष्टशासने-जिनेन्द्रोपदिष्टदर्शने । उक्तं च त्रिषु वर्णेष्वेकतमः कल्याणं ( णां ) गः तपःसहो वयसा । सुमुखः कुत्सारहितो दीक्षाग्रहणे पुमान् योग्यः ॥ इत्यादि । न्यक्कुलानामचेलैकदीक्षादायी दिगम्बरः । जिनाज्ञाकोपनोनन्तसंसारः समुदाहृतः ॥ १०७ ॥ न्यक्कुलानां-नीचकुलानां वर्णत्रयबहिर्भूतानां । अचेलैकदीक्षादायी-अचेलां निर्ग्रन्थां, एकां सकल जगत्प्रधानभूतां, दीक्षां प्रव्रज्यां ददातीत्येवं शीलः । दिगम्बरः-साधुः। जिनाज्ञाकोपनः सर्वज्ञवचनप्रतिकूलः । अनन्तसंसार:-अपर्यन्तभवसन्ततिः । समुदाहृतःपरिकथितः ॥ १०७॥ ___ दीक्षां नीचकुलं जानन् गौरवाच्छिष्यमोहतः । यो ददात्यथ गृह्णाति धर्मोद्दाहो द्वयोरपि ॥ १०८॥ दीक्षां-प्रव्रज्यां । नीचकुलं-भ्रष्टकुलं । जानन्-अवगच्छन्नपि । गौरवात्-ऋद्धिगर्वात् । शिष्यमोहतः-शिष्यस्नेहात् । यो-यः साधुः । ददाति-निर्ग्रन्थलिंगं प्रयच्छति । अथ गृह्णाति-अथवा यः पुरुषो निग्रन्थरूपमाददाति । तयोः, धर्मोद्दाहः-चतुर्वर्णोपतप्तिः धर्मदूषणं । द्वयोरपि-उभयोश्च आदातृगृहीत्रोर्भवति ॥ १०८ ॥ ___अजानाने न दोषोऽस्ति ज्ञाते सति विवर्जयेत् । आचार्योऽपि स मोक्तव्यः साधुवगैरतोऽन्यथा ॥ १०९ ॥ अतोऽन्यथा-अतः एतस्मान्न्यायात् सकाशात्, अन्यथा अन्येन विधिना । स-पूर्वोक्तः । आचार्यः---सूरिः । मोक्तव्यः-ताज्यः । साधुवर्ग:-साधुसमूहैः ॥ १०९ ॥ १ पूर्वार्धस्य रीकापाठः त्रुटितोऽवभाति, सुगमः ।

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202