Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 178
________________ प्रायश्चित्त-चूलिका। wwwwwwwwwwwwwww क्षौरं कुर्याच लोचं वा पाणौ भुंक्तेऽथ भाजने । कौपीनमात्रतंत्रोऽसौ क्षुल्लकः परिकीर्तितः ॥ १५६॥ क्षौर-क्षुरकर्म शिरोमुण्डनं । कुर्यात्-विदध्यात् । लोचं वा-- वालोत्पाटनं वा करोति । पाणौ भुक्तेऽथ भाजने-पाणौ पाणिपात्रे, भुंक्ते वल्भते, अथ अथवा, भाजने कंसपाच्यादिके भुंक्ते । कौपीनमात्रतंत्रःकौपीनमात्रं तंत्रं यस्य स कौपीनमात्रतत्रः कर्पटखण्डमण्डितक्टीतटः। असौ-पूर्वोक्तविधानपरिवर्णितः । क्षुल्लकः--उत्कृष्टाणुव्रतधारी । परिकीर्तितः-समुद्दिष्टः ॥ १५६ ॥ सदृष्टिपुरुषाः शश्वद्धर्मोद्दाहाद्धि बिभ्यति। लोभमोहादिभिर्धर्मदूषणं चिन्तयन्ति न ॥ १५७ ॥ सदृष्टिपुरुषाः-सम्यग्दृष्टिमनुष्याः। शश्वत्-सर्वकालं । धर्मोद्दाहात्धर्मोपतप्तेः सकाशात् । हि--यस्मात् । बिभ्यति--अभित्रसन्ति । अतो हेतोः, लोभमोहादिभिर्धर्मदूषणं चिन्तयन्ति न- लोभेन परिग्रहमूर्छया,मोहेन स्नेहेन, आदिशब्देन द्वेषादिभिरपि दोषविशेषैः कृत्वा, धर्मदूषणं शासनकलंकं, न चिन्तयन्ति नाभिवाञ्छन्ति ॥ १५७ ॥ प्रायश्चित्तं न यत्रोक्तं भावकालक्रियादिकं । गुरूद्दिष्टं विजानीयात्तत्प्रनालिकयानया ॥ १५८ ॥ प्रायश्चित्तं-विशोधनं । न यत्रोक्तं--यत्र यस्मिन् दोषविशेषे नोक्तं नाभिहितं।भावकालक्रियादिकं--भावः परिणामः, कालस्त्रिविधः शीतकालः उष्णकालः साधारणकाल इति, क्रिया करणं सचित्ताचित्तमिश्रद्रव्यप्रतिसेवनं, आदिशब्देन क्षेत्रोत्साहादि च यत्र नोपदिष्टं । गुरूद्दिष्टं विजानीयात्तत्सर्व गुरूद्दिष्टमाचार्यवर्योपदेशतः विजानीयादधिगच्छेत् । प्रनालिकयानया—अनया एतया प्रनालिकया पद्धत्या दिशा ॥ १५८ ॥ उपयोगातारोपात् पश्चात्तापात्प्रकाशनात् । पादांशार्धतया सर्व पापं नश्यद्विरागतः ॥ १५९॥ ११

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202