Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti
View full book text
________________
प्रायश्चित्तसंग्रहे—
ग्रन्थविशेषः । नानाचार्यमतानि - नानाप्रकारसूरि सूर्य ( ? ) सामान्यविशेषात्मकन यविवक्षावशादाभेहितमतविशेषात्, ऐक्यात - एकत्वेन एकमु खेन । बोद्धुकामेन । वर्णितः — कथितो बोद्धव्यः ॥ १६५ ॥
अज्ञानाद्यन्मया बद्धमागमस्य विरोधकृत् । तत्सर्वमागमाभिज्ञाः शोधयन्तु विमत्सराः ॥ १६६ ॥
१६४
अज्ञानात् — अनवबोधात् भ्रांत्या । यन्मया बद्धं - यत्किंचित्क्षणं मया अनेन बद्धं दृब्धं ग्रंथितं । आगमस्य - प्रथमानुयोगचरणानुयोगकरणानु योगद्रव्यानुयोगविशेषविशिष्टस्य परमागमस्य शब्दागमस्य युक्तयागमस्य च। विरोधकृत् — विरोधकारि विरुद्धं । तत्सर्वे - तत्पूर्वोक्तं सर्वे निरवशेषं दोषजातं । आगमाभिज्ञाः – आगमकुशलाः । शोधयन्तु -- विमलयन्तु । विमत्सराः - विगतमात्सर्या उत्तमक्षमामलसलिलविमलीकृताशयविशेषाः
सन्तः सन्तः ॥ १६६ ॥
इति श्रीनन्दिगुरुविरचितचूलिकाविवरणम् ।
यः श्रीगुरूपदेशेन प्रायश्चित्तस्य संग्रह: । दासेन श्रीगुरोर्हब्धो भव्याशयविशुद्धये ॥ १ ॥ तस्यैषाऽनूदिता वृत्तिः श्रीनन्दिगुरुणा दिशा । विरुद्धं यदभूदत्र तुत्क्षाम्यतु सरस्वती ॥ २ ॥ प्रवरगुरुगिरीन्द्रप्रोद्गता वृतिरेषा
सकलमलकलंकक्षालिनी सज्जनानाम् । सुरसरिदिवशस्वत्सेव्यमाना द्विजेन्द्रः
प्रभवतु जननूना यावदाचन्द्रतारम् ॥ ३ ॥ (इति) प्रायश्चित्तविनिश्वमत्रृत्तिः ।

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202