SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तसंग्रहे— ग्रन्थविशेषः । नानाचार्यमतानि - नानाप्रकारसूरि सूर्य ( ? ) सामान्यविशेषात्मकन यविवक्षावशादाभेहितमतविशेषात्, ऐक्यात - एकत्वेन एकमु खेन । बोद्धुकामेन । वर्णितः — कथितो बोद्धव्यः ॥ १६५ ॥ अज्ञानाद्यन्मया बद्धमागमस्य विरोधकृत् । तत्सर्वमागमाभिज्ञाः शोधयन्तु विमत्सराः ॥ १६६ ॥ १६४ अज्ञानात् — अनवबोधात् भ्रांत्या । यन्मया बद्धं - यत्किंचित्क्षणं मया अनेन बद्धं दृब्धं ग्रंथितं । आगमस्य - प्रथमानुयोगचरणानुयोगकरणानु योगद्रव्यानुयोगविशेषविशिष्टस्य परमागमस्य शब्दागमस्य युक्तयागमस्य च। विरोधकृत् — विरोधकारि विरुद्धं । तत्सर्वे - तत्पूर्वोक्तं सर्वे निरवशेषं दोषजातं । आगमाभिज्ञाः – आगमकुशलाः । शोधयन्तु -- विमलयन्तु । विमत्सराः - विगतमात्सर्या उत्तमक्षमामलसलिलविमलीकृताशयविशेषाः सन्तः सन्तः ॥ १६६ ॥ इति श्रीनन्दिगुरुविरचितचूलिकाविवरणम् । यः श्रीगुरूपदेशेन प्रायश्चित्तस्य संग्रह: । दासेन श्रीगुरोर्हब्धो भव्याशयविशुद्धये ॥ १ ॥ तस्यैषाऽनूदिता वृत्तिः श्रीनन्दिगुरुणा दिशा । विरुद्धं यदभूदत्र तुत्क्षाम्यतु सरस्वती ॥ २ ॥ प्रवरगुरुगिरीन्द्रप्रोद्गता वृतिरेषा सकलमलकलंकक्षालिनी सज्जनानाम् । सुरसरिदिवशस्वत्सेव्यमाना द्विजेन्द्रः प्रभवतु जननूना यावदाचन्द्रतारम् ॥ ३ ॥ (इति) प्रायश्चित्तविनिश्वमत्रृत्तिः ।
SR No.022325
Book TitlePrayaschitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year1922
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy