Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 183
________________ १६६ प्रायश्चित्तसंग्रहे पलद्वयं च गन्धं यः पंचाशद्भोजनानि च । तीर्थयात्रा तथा चैका विधेया शुद्धिमिच्छता ॥४॥ मातङ्गतुरुष्कान्तनीचजातिगृहे पुनः । समाचरति यो भुक्तिं तस्य शुद्धिरियं पुनः॥ उपवासाश्च वै त्रिंशत् पंचाशदेकभुक्तयः । द्विशते भुक्तिदानानां तिस्रो गावो भवन्ति हि ॥ कलशाभिषेकाः पंचाभिषेका विंशतिस्तथा। पंचामृतानां गदितः मोक्कूलानां तथा शतं ॥ श्रीखण्डस्य पलानि स्युः विंशतिः कुसुमानि तु । पंचाशच्च सहस्राणि तीर्थयात्राश्च पंच वै ॥ निष्काणि विंशतिः दद्याद्बुद्धिमान संघपूजने ॥ ५॥ किरातचर्मकारादिकपालानां च मन्दिरे । समाचरति यो भुक्तिं तत्प्रायश्चित्तमीदृशं ॥ उपवासा भवन्त्यत्र विंशतिश्चतुरुत्तरा । पंचाशदेकभक्तानि शतं चार्द्ध च भोजयेत् ॥ द्विगावौ कलशस्तानि त्रीण्येव परिस्फुटं । पंचामृताभिषेकाश्च पंचदश तथा मताः ॥ अभिषेकाः पुनः पंचसप्ततिर्मोक्कूलाः स्मृताः । पंचदश पलानि स्युः गन्धश्च कुसुमानि च ॥ चत्वारिंशत्सहस्राणि तीर्थयात्रा दशोदिताः । संघपूजा प्रकर्तव्या पंचदश सुनिष्ककैः ॥६॥ इहाष्टादशजातीनां यो भुक्तिं सदने पुनः । समाचरति चैतस्य प्रायश्चित्तमिदं भवेत् ॥ नवोपवासास्तस्य त्रिंशत्संख्यकभक्तानि च ।

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202