Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 188
________________ प्रायश्चित्तग्रंथः। १७१ एकः पंचामृतैः प्रोक्तो मोक्कूला द्वादशोदिताः। एकादशाभिषेकाः स्युः पूजा एकादशाहताम् ॥ कायोत्सर्गाश्च तावन्तः चतुर्विंशतिभुक्तयः। ताम्बूलोपप्रदानानि तावन्त्येव भवन्ति हि ॥ २३ ॥ सरटादिजीवघाते प्रायश्चित्तमिदं भवेत् । एकादशोपवासाः स्युरेकभुक्तानि षोडश ॥ अभिषेकाः षोडशोक्ता जिनपूजाश्च षोडश । कुसुमानि सहस्राणि षष्टिः षष्टिश्च भुक्तयः॥ षष्टिस्ताम्बूलदानानि विदातव्यानि यत्नतः ॥ २४ ॥ मृतो जलचरो जन्तुर्यदि शुद्धिरियं पुनः । उपवासैकभुक्तानि पृथगेकदशैव हि ॥ २५ ॥ गृहे वाहे पशूनां तु मरणे शुद्धिरीदृशी। एकादशोपवासाः स्युरेकभुक्तानि विंशतिः ॥ एको महाभिषेकस्तु कलशैरष्टाशतैरपि । पंचामृताभिषेकाश्च पंचान्ये विंशतिः स्मृताः॥ गौरेकाहारदानानि पंच पंचाशदेव हि । पुष्पपंक्तिसहस्राणि चन्दनं पलपंचकं ॥ संघपूजा विधातव्या पंचनिष्कैर्विचक्षणैः ॥ २६ ॥ महिषी म्रियते तर्हि त्रयोविंशतिरीरिताः । उपवासाश्चतुश्चत्वारिंशदेवैकभुक्तयः ॥ एकोऽभिषेकः कलशैः पंच पंचामृतैस्तथा। त्रिंशन्मोक्कूलाभिषेका अष्टाशीतिः प्रभुक्तयः ॥ कुसुमानि सहस्राणि विंशतिस्त्रिशताधिकाः। त्रयः पलश्चन्दनस्य पण्डितैः परिकीर्तिताः॥ २७ ॥

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202