Book Title: Prayaschitta Sangraha
Author(s): Pannalal Soni
Publisher: Manikyachandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 186
________________ प्रायश्चित्तग्रंथः। पंचाशन्मोक्कूला द्वे च गावौ भुक्तिशतद्वयं । कुसुमानां सहस्राणि पंचाशचन्दनेन तु ॥ पंचदश पलानि स्युस्तीर्थयात्राश्च पंच वै । संघपूजा प्रकर्तव्या सद्भिर्निष्कैर्हितेच्छता ॥ १३ ॥ पंचकारुगृहान्तश्चेद्वसेत्तच्छुद्धिरीशी। पंचोपवासा दश च सकृद्भक्तानि चामृतैः ॥ दश स्नानानि चान्यानि दश विंशतिभुक्तयः । पुष्पाण्येकसहस्रं स्यान्मुनिभिः परिकीर्तिताः (तं)॥ १४ ॥ तद्गृहे भोजनं चाष्टौ उपवासाः प्रकीर्तिताः । कुसुमानि सहस्राणि पंच स्नानानि विंशतिः ॥ भुक्तिदानानि पंचाशच्छ्रीखण्डस्य पलद्वयं ॥ १५॥ मरणे तु प्रसूतौ च सूतकं पंचवासरात् । क्षत्रियाणां द्विजानां च वासराणि दशैव तु ॥ दिनानि द्वादशैव स्यात्रिवर्णानां परिस्फुटं । शूद्राणां पक्षमात्रं तत् परतः शुद्धिरीरिता ॥ १६ ॥ स्नानानि द्वादशोक्तानि एकभक्तानि षद् तथा। पलानि त्रीणि गन्धस्य गृहशुद्धिरितीरिता ॥ मुखेऽस्थिदर्शने भुक्तावुपवासास्त्रयः स्मृताः। एकभुक्तानि चत्वारि द्वादशस्तपनानि च ॥ पुष्पाणां च सहस्राणि षष्टिर्गन्धपलद्वयं ॥ १७ ॥ हस्तेऽस्थिदर्शने जातेऽनशनद्वितयं स्मृतं । • एकभुक्तानि चत्वारि नपनाष्टकमीरितम् ॥ अष्टावाहारदानानि तथा सुमनसां पुनः।। स्युः सहस्राणि चत्वारि श्रीखण्डस्य पलद्वयं ॥ १८ ॥

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202